भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.084

6.084.001

तथा तैः कृत्तगात्रैस् तु दशग्रीवेण मार्गणैः
बभूव वसुधा तत्र प्रकीर्णा हरिभिर् वृता

6.084.002

रावणस्याप्रसह्यं तं शरसंपातम् एकतः
न शेकुः सहितुं दीप्तं पतंगा इव पावकम्

6.084.003

ते ऽर्दिता निशितैर् बाणैः क्रोशन्तो विप्रदुद्रुवुः
पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः

6.084.004

प्लवंगानाम् अनीकानि महाभ्राणीव मारुतः
स ययौ समरे तस्मिन् विधमन् रावणः शरैः

6.084.005

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्
आससाद ततो युद्धे राघवं त्वरितस् तदा

6.084.006

सुग्रीवस् तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः

6.084.007

आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्
सुग्रीवो ऽभिमुखः शत्रुं प्रतस्थे पादपायुधः

6.084.008

पार्श्वतः पृष्ठतश् चास्य सर्वे यूथाधिपाः स्वयम्
अनुजह्रुर् महाशैलान् विविधांश् च महाद्रुमान्

6.084.009

स नदन् युधि सुग्रीवः स्वरेण महता महान्
पातयन् विविधांश् चान्याञ् जघानोत्तमराक्षसान्

6.084.010

ममर्द च महाकायो राक्षसान् वानरेश्वरः
युगान्तसमये वायुः प्रवृद्धान् अगमान् इव

6.084.011

राक्षसानाम् अनीकेषु शैलवर्षं ववर्ष ह
अश्मवर्षं यथा मेघः पक्षिसंघेषु कानने

6.084.012

कपिराजविमुक्तैस् तैः शैलवर्षैस् तु राक्षसाः
विकीर्णशिरसः पेतुर् निकृत्ता इव पर्वताः

6.084.013

अथ संक्षीयमाणेषु राक्षसेषु समन्ततः
सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च

6.084.014

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः
रथाद् आप्लुत्य दुर्धर्षो गजस्कन्धम् उपारुहत्

6.084.015

स तं द्विरदम् आरुह्य विरूपाक्षो महारथः
विनदन् भीमनिर्ह्रालं वानरान् अभ्यधावत

6.084.016

सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे
स्थापयाम् आसा चोद्विग्नान् राक्षसान् संप्रहर्षयन्

6.084.017

सो ऽतिविद्धः शितैर् बाणैः कपीन्द्रस् तेन रक्षसा
चुक्रोध च महाक्रोधो वधे चास्य मनो दधे

6.084.018

ततः पादपम् उद्धृत्य शूरः संप्रधने हरिः
अभिपत्य जघानास्य प्रमुखे तं महागजम्

6.084.019

स तु प्रहाराभिहतः सुग्रीवेण महागजः
अपासर्पद् धनुर्मात्रं निषसाद ननाद च

6.084.020

गजात् तु मथितात् तूर्णम् अपक्रम्य स वीर्यवान्
राक्षसो ऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्

6.084.021

आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः
भर्त्सयन्न् इव सुग्रीवम् आससाद व्यवस्थितम्

6.084.022

स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम्
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम्

6.084.023

स तां शिलाम् आपतन्तीं दृष्ट्वा राक्षसपुंगवः
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा

6.084.024

तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे
कवचं पातयाम् आस स खड्गाभिहतो ऽपतत्

6.084.025

स समुत्थाय पतितः कपिस् तस्य व्यसर्जयत्
तलप्रहारम् अशनेः समानं भीमनिस्वनम्

6.084.026

तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम्
नैपुण्यान् मोचयित्वैनं मुष्टिनोरस्य् अताडयत्

6.084.027

ततस् तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा

6.084.028

स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः
ततो न्यपातयत् क्रोधाच् छङ्खदेशे महातलम्

6.084.029

महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ
पपात रुधिरक्लिन्नः शोणितं स समुद्वमन्

6.084.030

विवृत्तनयनं क्रोधात् सफेनरुधिराप्लुतम्
ददृशुस् ते विरूपाक्षं विरूपाक्षतरं कृतम्

6.084.031

स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम्
करुणं च विनर्दान्तं ददृशुः कपयो रिपुम्

6.084.032

तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम्
बलार्णवौ सस्वनतुः सभीमं महार्णवौ द्वाव् इव भिन्नवेलौ

6.084.033

विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन
बलं समस्तं कपिराक्षसानाम् उन्मत्तगङ्गाप्रतिमं बभूव

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc