भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.083

6.083.001

आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले
रावणः करुणं शब्दं शुश्राव परिवेदितम्

6.083.002

स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानम् आस्थितः
बभूव परमक्रुद्धो रावणो भीमदर्शनः

6.083.003

संदश्य दशनैर् ओष्ठं क्रोधसंरक्तलोचनः
राक्षसैर् अपि दुर्दर्शः कालाग्निर् इव मूर्छितः

6.083.004

उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः
भयाव्यक्तकथांस् तत्र निर्दहन्न् इव चक्षुषा

6.083.005

महोदरं महापार्श्वं विरूपाक्षं च राक्षसं
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया

6.083.006

तस्य तद् वचनं श्रुत्वा राक्षसास् ते भयार्दिताः
चोदयाम् आसुर् अव्यग्रान् राक्षसांस् तान् नृपाज्ञया

6.083.007

ते तु सर्वे तथेत्य् उक्त्वा राक्षसा घोरदर्शनाः
कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः

6.083.008

प्रतिपूज्य यथान्यायं रावणं ते महारथाः
तस्थुः प्राञ्जलयः सर्वे भर्तुर् विजयकाङ्क्षिणः

6.083.009

अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं

6.083.010

अद्य बाणैर् धनुर्मुक्तैर् युगान्तादित्यसंनिभैः
राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम्

6.083.011

खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस् तथा
करिष्यामि प्रतीकारम् अद्य शत्रुवधाद् अहम्

6.083.012

नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः

6.083.013

अद्य वानरयूथानां तानि यूथानि भागशः
धनुःसमुद्राद् उद्भूतैर् मथिष्यामि शरोर्मिभिः

6.083.014

व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम्
अद्य यूथतटाकानि गजवत् प्रमथाम्य् अहम्

6.083.015

सशरैर् अद्य वदनैः संख्ये वानरयूथपाः
मण्डयिष्यन्ति वसुधां सनालैर् इव पङ्कलैः

6.083.016

अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम्

6.083.017

हतो भर्ता हतो भ्राता यासां च तनया हताः
वधेनाद्य रिपोस् तासां कर्मोम्य् अस्रप्रमार्जनम्

6.083.018

अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर् गतचेतनैः
करोमि वानरैर् युद्धे यत्नावेक्ष्यतलां महीम्

6.083.019

अद्य गोमायवो गृध्रा ये च मांसाशिनो ऽपरे
सर्वांस् तांस् तर्पयिष्यामि शत्रुमांसैः शरार्दितैः

6.083.020

कल्प्यतां मे रथशीघ्रं क्षिप्रम् आनीयतां धनुः
अनुप्रयान्तु मां युद्धे ये ऽवशिष्टा निशाचराः

6.083.021

तस्य तद् वचनं श्रुत्वा महापार्श्वो ऽब्रवीद् वचः
बलाध्यक्षान् स्थितांस् तत्र बलं संत्वर्यताम् इति

6.083.022

बलाध्यक्षास् तु संरब्धा राक्षसांस् तान् गृहाद् गृहात्
चोदयन्तः परिययुर् लङ्कां लघुपराक्रमाः

6.083.023

ततो मुहूर्तान् निष्पेतू राक्षसा भीमविक्रमाः
नर्दन्तो भीमवदना नानाप्रहरणैर् भुजैः

6.083.024

असिभिः पट्टसैः शूलैर् गलाभिर् मुसलैर् हलैः
शक्तिभिस् तीक्ष्णधाराभिर् महद्भिः कूटमुद्गरैः

6.083.025

यष्टिभिर् विमलैश् चक्रैर् निशितैश् च परश्वधैः
भिण्डिपालैः शतघ्नीभिर् अन्यैश् चापि वरायुधैः

6.083.026

अथानयन् बलाध्यक्षाश् चत्वारो रावणाज्ञया
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्

6.083.027

आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा
रावणः सत्त्वगाम्भीर्याद् दारयन्न् इव मेदिनीम्

6.083.028

रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ
विरूपाक्षश् च दुर्धर्षो रथान् आरुरुहुस् तदा

6.083.029

ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्
नादं घोरं विमुञ्चन्तो निर्ययुर् जयकाङ्क्षिणः

6.083.030

ततो युद्धाय तेजस्वी रक्षोगणबलैर् वृतः
निर्ययाव् उद्यतधनुः कालान्तकयमोमपः

6.083.031

ततः प्रजवनाश्वेन रथेन स महारथः
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ

6.083.032

ततो नष्टप्रभः सूर्यो दिशश् च तिमिरावृताः
द्विजाश् च नेदुर् घोराश् च संचचाल च मेदिनी

6.083.033

ववर्ष रुधिरं देवश् चस्खलुश् च तुरंगमाः
ध्वजाग्रे न्यपतद् गृध्रो विनेदुश् चाशिवं शिवाः

6.083.034

नयनं चास्फुरद् वामं सव्यो बाहुर् अकम्पत
विवर्णवदनश् चासीत् किं चिद् अभ्रश्यत स्वरः

6.083.035

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः
रणे निधनशंसीनि रूपाण्य् एतानि जज्ञिरे

6.083.036

अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना
विनेदुर् अशिवं गृध्रा वायसैर् अनुनादिताः

6.083.037

एतान् अचिन्तयन् घोरान् उत्पातान् समुपस्थितान्
निर्ययौ रावणो मोहाद् वधार्थी कालचोदितः

6.083.038

तेषां तु रथघोषेण राक्षसानां महात्मनाम्
वानराणाम् अपि चमूर् युद्धायैवाभ्यवर्तत

6.083.039

तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम्
अन्योन्यम् आह्वयानानां क्रुद्धानां जयम् इच्छताम्

6.083.040

ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः
वानराणाम् अनीकेषु चकार कदनं महत्

6.083.041

निकृत्तशिरसः के चिद् रावणेन वलीमुखाः
निरुच्छ्वासा हताः के चित् के चित् पार्श्वेषु दारिताः
के चिद् विभिन्नशिरसः के चिच् चक्षुर्विवर्जिताः

6.083.042

दशाननः क्रोधविवृत्तनेत्रो यतो यतो ऽभ्येति रथेन संख्ये
ततस् ततस् तस्य शरप्रवेगं सोढुं न शेकुर् हरियूथपास् ते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc