भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.082

6.082.001

तानि नागसहस्राणि सारोहाणां च वाजिनाम्
रथानां चाग्निवर्णानां सध्वजानां सहस्रशः

6.082.002

राक्षसानां सहस्राणि गदापरिघयोधिनाम्
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्

6.082.003

निहतानि शरैस् तीक्ष्णैस् तप्तकाञ्चनभूषणैः
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा

6.082.004

दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः
राक्षस्यश् च समागम्य दीनाश् चिन्तापरिप्लुताः

6.082.005

विधवा हतपुत्राश् च क्रोशन्त्यो हतबान्धवाः
राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्

6.082.006

कथं शूर्पणखा वृद्धा कराला निर्णतोदरी
आससाद वने रामं कन्दर्पम् इव रूपिणम्

6.082.007

सुकुमारं महासत्त्वं सर्वभूतहिते रतम्
तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता

6.082.008

कथं सर्वगुणैर् हीना गुणवन्तं महौजसं
सुमुखं दुर्मुखी रामं कामयाम् आस राक्षसी

6.082.009

जनस्यास्याल्पभाग्यत्वात् पलिनी श्वेतमूर्धजा
अकार्यम् अपहास्यं च सर्वलोकविगर्हितम्

6.082.010

राक्षसानां विनाशाय दूषणस्य खरस्य च
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्

6.082.011

तन् निमित्तम् इदं वैरं रावणेन कृतं महत्
वधाय नीता सा सीता दशग्रीवेण रक्षसा

6.082.012

न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्
बद्धं बलवता वैरम् अक्षयं राघवेण ह

6.082.013

वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं
हतम् एकेन रामेण पर्याप्तं तन्निदर्शनम्

6.082.014

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
निहतानि जनस्थाने शरैर् अग्निशिखोपमैः

6.082.015

खरश् च निहतः संख्ये दूषणस् त्रिशिरास् तथा
शरैर् आदित्यसंकाशैः पर्याप्तं तन्निदर्शनम्

6.082.016

हतो योजनबाहुश् च कबन्धो रुधिराशनः
क्रोधार्तो विनदन् सो ऽथ पर्याप्तं तन्निदर्शनम्

6.082.017

जघान बलिनं रामः सहस्रनयनात्मजम्
बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम्

6.082.018

ऋश्यमूके वसञ् शैले दीनो भग्नमनोरथः
सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्

6.082.019

धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्
युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते

6.082.020

विभीषणवचः कुर्याद् यदि स्म धनदानुजः
श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत्

6.082.021

कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्
प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते

6.082.022

मम पुत्रो मम भ्राता मम भर्ता रणे हतः
इत्य् एवं श्रूयते शब्दो राक्षसानां कुले कुले

6.082.023

रथाश् चाश्वाश् च नागाश् च हताः शतसहस्रशः
रणे रामेण शूरेण राक्षसाश् च पदातयः

6.082.024

रुद्रो वा यदि वा विष्णुर् महेन्द्रो वा शतक्रतुः
हन्ति नो रामरूपेण यदि वा स्वयम् अन्तकः

6.082.025

हतप्रवीरा रामेण निराशा जीविते वयम्
अपश्यन्त्यो भयस्यान्तम् अनाथा विलपामहे

6.082.026

रामहस्ताद् दशग्रीवः शूरो दत्तवरो युधि
इदं भयं महाघोरम् उत्पन्नं नावबुध्यते

6.082.027

न देवा न च गन्धर्वा न पिशाचा न राक्षसाः
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे

6.082.028

उत्पाताश् चापि दृश्यन्ते रावणस्य रणे रणे
कथयिष्यन्ति रामेण रावणस्य निबर्हणम्

6.082.029

पितामहेन प्रीतेन देवदानवराक्षसैः
रावणस्याभयं दत्तं मानुषेभ्यो न याचितम्

6.082.030

तद् इदं मानुषान् मन्ये प्राप्तं निःसंशयं भयम्
जीवितान्तकरं घोरं रक्षसां रावणस्य च

6.082.031

पीड्यमानास् तु बलिना वरदानेन रक्षसा
दीप्तैस् तपोभिर् विबुधाः पितामहम् अपूजयन्

6.082.032

देवतानां हितार्थाय महात्मा वै पितामहः
उवाच देवताः सर्वा इदं तुष्टो महद् वचः

6.082.033

अद्य प्रभृति लोकांस् त्रीन् सर्वे दानवराक्षसाः
भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम्

6.082.034

दैवतैस् तु समागम्य सर्वैश् चेन्द्रपुरोगमैः
वृषध्वजस् त्रिपुरहा महादेवः प्रसादितः

6.082.035

प्रसन्नस् तु महादेवो देवान् एतद् वचो ऽब्रवीत्
उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा

6.082.036

एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा
भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान्

6.082.037

रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः
अयं निष्टानको घोरः शोकेन समभिप्लुतः

6.082.038

तं न पश्यामहे लोके यो नः शरणदो भवेत्
राघवेणोपसृष्टानां कालेनेव युगक्षये

6.082.039

इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः
विषेदुर् आर्तातिभयाभिपीडिता विनेदुर् उच्चैश् च तदा सुदारुणम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc