रामायण · अध्याय 6.078
स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः
इन्द्रजित् परमक्रुद्धः संप्रजज्वाल तेजसा
तौ धन्विनौ जिघांसन्ताव् अन्योन्यम् इषुभिर् भृशम्
विजयेनाभिनिष्क्रान्तौ वने गजवृषाव् इव
निबर्हयन्तश् चान्योन्यं ते राक्षसवनौकसः
भर्तारं न जहुर् युद्धे संपतन्तस् ततस् ततः
स लक्ष्मणं समुद्दिश्य परं लाघवम् आस्थितः
ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः
मुक्तम् इन्द्रजिता तत् तु शरवर्षम् अरिंदमः
अवारयद् असंभ्रान्तो लक्ष्मणः सुदुरासदम्
अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस् त्रिभिर् इन्द्रजित्
अविध्यत् परमक्रुद्धः शीघ्रम् अस्त्रं प्रदर्शयन्
तैः पृषत्कैर् ललाटस्थैः शुशुभे रघुनन्दनः
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः
स तथाप्य् अर्दितो बाणै राक्षसेन महामृधे
तम् आशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ
अन्योन्यं जघ्नतुर् बाणैर् विशिखैर् भीमविक्रमौ
तौ परस्परम् अभ्येत्य सर्वगात्रेषु धन्विनौ
घोरैर् विव्यधतुर् बाणैः कृतभावाव् उभौ जये
तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः
वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः
बभूवुर् लोहितादिग्धा रक्ता इव महोरगाः
स पितृव्यस्य संक्रुद्ध इन्द्रजिच् छरम् आददे
उत्तमं रक्षसां मध्ये यमदत्तं महाबलः
तं समीक्ष्य महातेजा महेषुं तेन संहितम्
लक्ष्मणो ऽप्य् आददे बाणम् अन्यं भीमपराक्रमः
कुबेरेण स्वयं स्वप्ने यद् दत्तम् अमितात्मना
दुर्जयं दुर्विषह्यं च सेन्द्रैर् अपि सुरासुरैः
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ
विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया
तौ भासयन्ताव् आकाशं धनुर्भ्यां विशिखौ च्युतौ
मुखेन मुखम् आहत्य संनिपेततुर् ओजसा
तौ महाग्रहसंकाशाव् अन्योन्यं संनिपत्य च
संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः
शरौ प्रतिहतौ दृष्ट्वा ताव् उभौ रणमूर्धनि
व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजिताव् उभौ
सुसंरब्धस् तु सौमित्रिर् अस्त्रं वारुणम् आददे
रौद्रं महेद्रजिद् युद्धे व्यसृजद् युधि विष्ठितः
तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम्
गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्
भैरवाभिरुते भीमे युद्धे वानरराक्षसाम्
भूतैर् बहुभिर् आकाशं विस्मितैर् आवृतं बभौ
ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः
शतक्रतुं पुरस्कृत्य ररक्षुर् लक्ष्मणं रणे
अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः
हुताशनसमस्पर्शं रावणात्मजदारुणम्
सुपत्रम् अनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्
सुवर्णविकृतं वीरः शरीरान्तकरं शरम्
दुरावारं दुर्विषहं राक्षसानां भयावहम्
आशीविषविषप्रख्यं देवसंघैः समर्चितम्
येन शक्रो महातेजा दानवान् अजयत् प्रभुः
पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः
तद् ऐन्द्रम् अस्त्रं सौमित्रिः संयुगेष्व् अपराजितम्
शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठो ऽभिसंदधे
संधायामित्रदलनं विचकर्ष शरासनम्
सज्यम् आयम्य दुर्धर्शः कालो लोकक्षये यथा
संधाय धनुषि श्रेष्ठे विकर्षन्न् इदम् अब्रवीत्
लक्ष्मीवांल् लक्ष्मणो वाक्यम् अर्थसाधकम् आत्मनः
धर्मात्मा सत्यसंधश् च रामो दाशरथिर् यदि
पौरुषे चाप्रतिद्वन्द्वस् तद् एनं जहि रावणिम्
इत्य् उक्त्वा बाणम् आकर्णं विकृष्य तम् अजिह्मगम्
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति
ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा
तच् छिरः सशिरस् त्राणं श्रीमज् ज्वलितकुण्डलम्
प्रमथ्येन्द्रजितः कायात् पपात धरणीतले
तद् राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्
तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्
हतस् तु निपपाताशु धरण्यां रावणात्मजः
कवची सशिरस्त्राणो विध्वस्तः सशरासनः
चुक्रुशुस् ते ततः सर्वे वानराः सविभीषणाः
हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा
अथान्तरिक्षे भूतानाम् ऋषीणां च महात्मनाम्
अभिजज्ञे च संनादो गन्धर्वाप्सरसाम् अपि
पतितं समभिज्ञाय राक्षसी सा महाचमूः
वध्यमाना दिशो भेजे हरिभिर् जितकाशिभिः
वनरैर् वध्यमानास् ते शस्त्राण्य् उत्सृज्य राक्षसाः
लङ्काम् अभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः
दुद्रुवुर् बहुधा भीता राक्षसाः शतशो दिशः
त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान्
के चिल् लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः
समुद्रे पतिताः के चित् के चित् पर्वतम् आश्रिताः
हतम् इन्द्रजितं दृष्ट्वा शयानं समरक्षितौ
राक्षसानां सहस्रेषु न कश् चित् प्रत्यदृश्यत
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः
तथा तस्मिन् निपतिते राक्षसास् ते गता दिशः
शान्तरक्श्मिर् इवादित्यो निर्वाण इव पावकः
स बभूव महातेजा व्यपास्त गतजीवितः
प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान्
बभूव लोकः पतिते राक्षसेन्द्रसुते तदा
हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः
जगाम निहते तस्मिन् राक्षसे पापकर्मणि
शुद्धा आपो नभश् चैव जहृषुर् दैत्यदानवाः
आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे
ऊचुश् च सहिताः सर्वे देवगन्धर्वदानवाः
विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्व् इति
ततो ऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः
तम् अप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम्
विभीषणो हनूमांश् च जाम्बवांश् चर्क्षयूथपः
विजयेनाभिनन्दन्तस् तुष्टुवुश् चापि लक्ष्मणम्
क्ष्वेडन्तश् च नदन्तश् च गर्जन्तश् च प्लवंगमाः
लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश् च वानराः
लक्ष्मणो जयतीत्य् एवं वाक्यं व्यश्रावयंस् तदा
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः
चक्रुर् उच्चावचगुणा राघवाश्रयजाः कथाः
तद् असुकरम् अथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म
परमम् उपलभन् मनःप्रहर्षं विनिहतम् इन्द्ररिपुं निशम्य देवाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0