रामायण · अध्याय 6.077
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ
शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
ततो विस्फारयाम् आस महद् धनुर् अवस्थितः
उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान्
ते शराः शिखिसंकाशा निपतन्तः समाहिताः
राक्षसान् दारयाम् आसुर् वज्रा इव महागिरीन्
विभीषणस्यानुचरास् ते ऽपि शूलासिपट्टसैः
चिच्छेदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः
राक्षसैस् तैः परिवृतः स तदा तु विभीषणः
बभौ मध्ये प्रहृष्टानां कलभानाम् इव द्विपः
ततः संचोदयानो वै हरीन् रक्षोरणप्रियान्
उवाच वचनं काले कालज्ञो रक्षसां वरः
एको ऽयं राक्षसेन्द्रस्य परायणम् इव स्थितः
एतच् छेषं बलं तस्य किं तिष्ठत हरीश्वराः
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि
रावणं वर्जयित्वा तु शेषम् अस्य बलं हतम्
प्रहस्तो निहतो वीरो निकुम्भश् च महाबलः
कुम्भकर्णश् च कुम्भश् च धूम्राक्षश् च निशाचरः
अकम्पनः सुपार्श्वश् च चक्रमाली च राक्षसः
कम्पनः सत्त्ववन्तश् च देवान्तकनरान्तकौ
एतान् निहत्यातिबलान् बहून् राक्षससत्तमान्
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु
एतावद् इह शेषं वो जेतव्यम् इह वानराः
हताः सर्वे समागम्य राक्षसा बलदर्पिताः
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर् मम
घृणाम् अपास्य रामार्थे निहन्यां भ्रातुर् आत्मजम्
हन्तुकामस्य मे बाष्पं चक्शुश् चैव निरुध्यते
तद् एवैष महाबाहुर् लक्ष्मणः शमयिष्यति
वानरा घ्नन्तुं संभूय भृत्यान् अस्य समीपगान्
इति तेनातियशसा राक्षसेनाभिचोदिताः
वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः
ततस् ते कपिशार्दूलाः क्ष्वेडन्तश् च मुहुर् मुहुः
मुमुचुर् विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः
जाम्बवान् अपि तैः सर्वैः स्वयूथैर् अभिसंवृतः
अश्मभिस् ताडयाम् आस नखैर् दन्तैश् च राक्षसान्
निघ्नन्तम् ऋक्षाधिपतिं राक्षसास् ते महाबलाः
परिवव्रुर् भयं त्यक्त्वा तम् अनेकविधायुधाः
शरैः परशुभिस् तीक्ष्णैः पट्टसैर् यष्टितोमरैः
जाम्बवन्तं मृधे जघ्नुर् निघ्नन्तं राक्षसीं चमूम्
स संप्रहारस् तुमुलः संजज्ञे कपिराक्षसाम्
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः
हनूमान् अपि संक्रुद्धः सालम् उत्पाट्य पर्वतात्
रक्षसां कदनं चक्रे समासाद्य सहस्रशः
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् युधि
लक्ष्मणं परवीरघ्नं पुनर् एवाभ्यधावत
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ
शरौघान् अभिवर्षन्तौ जघ्नतुस् तौ परस्परम्
अभीक्ष्णम् अन्तर्दधतुः शरजालैर् महाबलौ
चन्द्रादित्याव् इवोष्णान्ते यथा मेघैस् तरस्विनौ
न ह्य् आदानं न संधानं धनुषो वा परिग्रहः
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः
न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्
अदृश्यत तयोस् तत्र युध्यतोः पाणिलाघवात्
चापवेगप्रमुक्तैश् च बाणजालैः समन्ततः
अन्तरिक्षे ऽभिसंछन्ने न रूपाणि चकाशिरे
तमसा पिहितं सर्वम् आसीद् भीमतरं महत्
न तदानीं ववौ वायुर् न जज्वाल च पावकः
स्वस्त्यस् तु लोकेभ्य इति जजल्पश् च महर्षयः
संपेतुश् चात्र संप्राप्ता गन्धर्वाः सह चारणैः
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्
शरैश् चतुर्भिः सौमित्रिर् विव्याध चतुरो हयान्
ततो ऽपरेण भल्लेन सूतस्य विचरिष्यतः
लाघवाद् राघवः श्रीमाञ् शिरः कायाद् अपाहरत्
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः
ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन्
ततः प्रमाथी शरभो रभसो गन्धमादनः
अमृष्यमाणाश् चत्वारश् चक्रुर् वेगं हरीश्वराः
ते चास्य हयमुख्येषु तूर्णम् उत्पत्य वानराः
चतुर्षु सुमहावीर्या निपेतुर् भीमविक्रमाः
तेषाम् अधिष्ठितानां तैर् वानरैः पर्वतोपमैः
मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत
ते निहत्य हयांस् तस्य प्रमथ्य च महारथम्
पुनर् उत्पत्य वेगेन तस्थुर् लक्ष्मणपार्श्वतः
स हताश्वाद् अवप्लुत्य रथान् मथितसारथेः
शरवर्षेण सौमित्रिम् अभ्यधावत रावणिः
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः
सृजन्तम् आदौ निशिताञ् शरोत्तमान् भृशं तदा बाणगणैर् न्यवारयत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0