भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.076

6.076.001

ततः शरं दाशरथिः संधायामित्रकर्शनः
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्

6.076.002

तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत

6.076.003

तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्
सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः

6.076.004

निमित्तान्य् अनुपश्यामि यान्य् अस्मिन् रावणात्मजे
त्वर तेन महाबाहो भग्न एष न संशयः

6.076.005

ततः संधाय सौमित्रिः शरान् अग्निशिखोपमान्
मुमोच निशितांस् तस्मै सर्वान् इव विषोल्बणान्

6.076.006

शक्राशनिसमस्पर्शैर् लक्ष्मणेनाहतः शरैः
मुहूर्तम् अभवन् मूढः सर्वसंक्षुभितेन्द्रियः

6.076.007

उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः
ददर्शावस्थितं वीरं वीरो दशरथात्मजम्

6.076.008

सो ऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः
अब्रवीच् चैनम् आसाद्य पुनः स परुषं वचः

6.076.009

किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्
निबद्धस् त्वं सह भ्रात्रा यदा युधि विचेष्टसे

6.076.010

युवा खलु महायुद्धे शक्राशनिसमैः शरैः
शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ

6.076.011

स्मृतिर् वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्
गन्तुम् इच्छसि यस्मात् त्वं मां धर्षयितुम् इच्छसि

6.076.012

यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः

6.076.013

इत्य् उक्त्वा सप्तभिर् बाणैर् अभिविव्याध लक्ष्मणम्
दशभिश् च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः

6.076.014

ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्
क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्

6.076.015

तद् दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस् तदा
अचिन्तयित्वा प्रहसन् नैतत् किं चिद् इति ब्रुवन्

6.076.016

मुमोच स शरान् घोरान् संगृह्य नरपुंगवः
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि

6.076.017

नैवं रणगतः शूराः प्रहरन्ति निशाचर
लघवश् चाल्पवीर्याश् च सुखा हीमे शरास् तव

6.076.018

नैवं शूरास् तु युध्यन्ते समरे जयकाङ्क्षिणः
इत्य् एवं तं ब्रुवाणस् तु शरवर्षैर् अवाकिरत्

6.076.019

तस्य बाणैस् तु विध्वस्तं कवचं हेमभूषितम्
व्यशीर्यत रथोपस्थे ताराजालम् इवाम्बरात्

6.076.020

विधूतवर्मा नाराचैर् बभूव स कृतव्रणः
इन्द्रजित् समरे शूरः प्ररूढ इव सानुमान्

6.076.021

अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि
शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ

6.076.022

अस्त्राण्य् अस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः
शरान् उच्चावचाकारान् अन्तरिक्षे बबन्धतुः

6.076.023

व्यपेतदोषम् अस्यन्तौ लघुचित्रं च सुष्ठु च
उभौ तु तुमुलं घोरं चक्रतुर् नरराक्षसौ

6.076.024

तयोः पृथक्पृथग् भीमः शुश्रुवे तलनिस्वनः
सुघोरयोर् निष्टनतोर् गगने मेघयोर् इव

6.076.025

ते गात्रयोर् निपतिता रुक्मपुङ्खाः शरा युधि
असृग्दिग्धा विनिष्पेतुर् विविशुर् धरणीतलम्

6.076.026

अन्यैः सुनिशितैः शस्त्रैर् आकाशे संजघट्टिरे
बभञ्जुश् चिच्छिदुश् चापि तयोर् बाणाः सहस्रशः

6.076.027

स बभूव रणे घोरस् तयोर् बाणमयश् चयः
अग्निभ्याम् इव दीप्ताभ्यां सत्रे कुशमयश् चयः

6.076.028

तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः
सपुष्पाव् इव निष्पत्रौ वने शाल्मलिकुंशुकौ

6.076.029

चक्रतुस् तुमुलं घोरं संनिपातं मुहुर् मुहुः
इन्द्रजिल् लक्ष्मणश् चैव परस्परजयैषिणौ

6.076.030

लक्ष्मणो रावणिं युद्धे रावणिश् चापि लक्ष्मणम्
अन्योन्यं ताव् अभिघ्नन्तौ न श्रमं प्रत्यपद्यताम्

6.076.031

बाणजालैः शरीरस्थैर् अवगाढैस् तरस्विनौ
शुशुभाते महावीरौ विरूढाव् इव पर्वतौ

6.076.032

तयो रुधिरसिक्तानि संवृतानि शरैर् भृशम्
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः

6.076.033

तयोर् अथ महान् कालो व्यतीयाद् युध्यमानयोः
न च तौ युद्धवैमुख्यं श्रमं वाप्य् उपजग्मतुः

6.076.034

अथ समरपरिश्रमं निहन्तुं समरमुखेष्व् अजितस्य लक्ष्मणस्य
प्रियहितम् उपपादयन् महौजाः समरम् उपेत्य विभीषणो ऽवतस्थे

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc