रामायण · अध्याय 6.075
विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः
अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह
उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः
महाप्रमाणम् उद्यम्य विपुलं वेगवद् दृढम्
धनुर् भीमं परामृश्य शरांश् चामित्रनाशनान्
उवाचैनं समारब्धः सौमित्रिं सविभीषणम्
तांश् च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्
मुक्तं वर्षम् इवाकाशे वारयिष्यथ संयुगे
अद्य वो मामका बाणा महाकार्मुकनिःसृताः
विधमिष्यन्ति गात्राणि तूलराशिम् इवानलः
तीक्ष्णसायकनिर्भिन्नाञ् शूलशक्त्यृष्टितोमरैः
अद्य वो गमयिष्यामि सर्वान् एव यमक्षयम्
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः
तच् छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस् तदा
अभीतवदनः क्रुद्धो रावणिं वाक्यम् अब्रवीत्
उक्तश् च दुर्गमः पारः कार्याणां राक्षस त्वया
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्
स त्वम् अर्थस्य हीनार्थो दुरवापस्य केन चित्
वचो व्याहृत्य जानीषे कृतार्थो ऽस्मीति दुर्मते
अन्तर्धानगतेनाजौ यस् त्वयाचरितस् तदा
तस्कराचरितो मार्गो नैष वीरनिषेवितः
यथा बाणपथं प्राप्य स्थितो ऽहं तव राक्षस
दर्शयस्वाद्य तत् तेजो वाचा त्वं किं विकत्थसे
एवम् उक्तो धनुर् भीमं परामृश्य महाबलः
ससर्जे निशितान् बाणान् इन्द्रजित् समिजिंजय
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः
संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः
शरैर् अतिमहावेगैर् वेगवान् रावणात्मजः
सौमित्रिम् इन्द्रजिद् युद्धे विव्याध शुभलक्षणम्
स शरैर् अतिविद्धाङ्गो रुधिरेण समुक्षितः
शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः
इन्द्रजित् त्व् आत्मनः कर्म प्रसमीक्ष्याधिगम्य च
विनद्य सुमहानादम् इदं वचनम् अब्रवीत्
पत्रिणः शितधारास् ते शरा मत्कार्मुकच्युताः
आदास्यन्ते ऽद्य सौमित्रे जीवितं जीवितान्तगाः
अद्य गोमायुसंघाश् च श्येनसंघाश् च लक्ष्मण
गृध्राश् च निपतन्तु त्वां गतासुं निहतं मया
क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः
भक्तं भ्रातरम् अद्यैव त्वां द्रक्ष्यति मया हतम्
विशस्तकवचं भूमौ व्यपविद्धशरासनम्
हृतोत्तमाङ्गं सौमित्रे त्वाम् अद्य निहतं मया
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्
हेतुमद्वाक्यम् अत्यर्थं लक्ष्मणः प्रत्युवाच ह
अकृत्वा कत्थसे कर्म किमर्थम् इह राक्षस
कुरु तत् कर्म येनाहं श्रद्दध्यां तव कत्थनम्
अनुक्त्वा परुषं वाक्यं किं चिद् अप्य् अनवक्षिपन्
अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन
इत्य् उक्त्वा पञ्चनाराचान् आकर्णापूरिताञ् शरान्
निचखान महावेगांल् लक्ष्मणो राक्षसोरसि
स शरैर् आहतस् तेन सरोषो रावणात्मजः
सुप्रयुक्तैस् त्रिभिर् बाणैः प्रतिविव्याध लक्ष्मणम्
स बभूव महाभीमो नरराक्षससिंहयोः
विमर्दस् तुमुलो युद्धे परस्परवधैषिणोः
उभौ हि बलसंपन्नाव् उभौ विक्रमशालिनौ
उभाव् अपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ
उभौ परमदुर्जेयाव् अतुल्यबलतेजसौ
युयुधाते महावीरौ ग्रहाव् इव नभो गतौ
बलवृत्राव् इव हि तौ युधि वै दुष्प्रधर्षणौ
युयुधाते महात्मानौ तदा केसरिणाव् इव
बहून् अवसृजन्तौ हि मार्गणौघान् अवस्थितौ
नरराक्षससिंहौ तौ प्रहृष्टाव् अभ्ययुध्यताम्
सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ
परस्परं तौ प्रववर्षतुर् भृशं शरौघवर्षेण बलाहकाव् इव
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0