भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.068

6.068.001

विज्ञाय तु मनस् तस्य राघवस्य महात्मनः
संनिवृत्याहवात् तस्मात् प्रविवेश पुरं ततः

6.068.002

सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः

6.068.003

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर् वृतः
इन्द्रजित् तु महावीर्यः पौलस्त्यो देवकण्टकः

6.068.004

इन्द्रजित् तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत् तदा

6.068.005

इन्द्रजित् तु रथे स्थाप्य सीतां मायामयीं तदा
बलेन महतावृत्य तस्या वधम् अरोचयत्

6.068.006

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ

6.068.007

तं दृष्ट्वा त्व् अभिनिर्यान्तं नगर्याः काननौकसः
उत्पेतुर् अभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः

6.068.008

हनूमान् पुरतस् तेषां जगाम कपिकुञ्जरः
प्रगृह्य सुमहच् छृङ्गं पर्वतस्य दुरासदम्

6.068.009

स ददर्श हतानन्दां सीताम् इन्द्रजितो रथे
एकवेणीधरां दीनाम् उपवासकृशाननाम्

6.068.010

परिक्लिष्टैकवसनाम् अमृजां राघवप्रियाम्
रजोमलाभ्याम् आलिप्तैः सर्वगात्रैर् वरस्त्रियम्

6.068.011

तां निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च
बाष्पपर्याकुलमुखो हनूमान् व्यथितो ऽभवत्

6.068.012

अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनाम्
दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम्

6.068.013

किं समर्थितम् अस्येति चिन्तयन् स महाकपिः
सह तैर् वानरश्रेष्ठैर् अभ्यधावत रावणिम्

6.068.014

तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः
कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत्

6.068.015

तं स्त्रियं पश्यतां तेषां ताडयाम् आस रावणिः
क्रोशन्तीं राम रामेति मायया योजितां रथे

6.068.016

गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यम् आगतः
दुःखजं वारिनेत्राभ्याम् उत्सृजन् मारुतात्मजः
अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोऽधिपात्मजम्

6.068.017

दुरात्मन्न् आत्मनाशाय केशपक्षे परामृशः
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिम् आश्रितः
धिक् त्वां पापसमाचारं यस्य ते मतिर् ईदृशी

6.068.018

नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण

6.068.019

च्युता गृहाच् च राज्याच् च रामहस्ताच् च मैथिली
किं तवैषापराद्धा हि यद् एनां हन्तुम् इच्छसि

6.068.020

सीतां च हत्वा न चिरं जीविष्यसि कथं चन
वधार्हकर्मणानेन मम हस्तगतो ह्य् असि

6.068.021

ये च स्त्रीघातिनां लोका लोकवध्यैश् च कुत्सिताः
इह जीवितम् उत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे

6.068.022

इति ब्रुवाणो हनुमान् सायुधैर् हरिभिर् वृतः
अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति

6.068.023

आपतन्तं महावीर्यं तद् अनीकं वनौकसाम्
रक्षसां भीमवेगानाम् अनीकेन न्यवारयत्

6.068.024

स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्
हरिश्रेष्ठं हनूमन्तम् इन्द्रजित् प्रत्युवाच ह

6.068.025

सुग्रीवस् त्वं च रामश् च यन्निमित्तम् इहागताः
तां हनिष्यामि वैदेहीम् अद्यैव तव पश्यतः

6.068.026

इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम्

6.068.027

न हन्तव्याः स्त्रियश् चेति यद् ब्रवीषि प्लवंगम
पीडा करम् अमित्राणां यत् स्यात् कर्तव्यम् एत तत्

6.068.028

तम् एवम् उक्त्वा रुदतीं सीतां मायामयीं ततः
शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम्

6.068.029

यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना

6.068.030

ताम् इन्द्रजित्स्त्रियं हत्वा हनूमन्तम् उवाच ह
मया रामस्य पश्येमां कोपेन च निषूदिताम्

6.068.031

ततः खड्गेन महता हत्वा ताम् इन्द्रजित् स्वयम्
हृष्टः स रथम् आस्थाय विननाद महास्वनम्

6.068.032

वानराः शुश्रुवुः शब्दम् अदूरे प्रत्यवस्थिताः
व्यादितास्यस्य नदतस् तद् दुर्गं संश्रितस्य तु

6.068.033

तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः
तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc