भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.067

6.067.001

मकराक्षं हतं श्रुत्वा रावणः समितिंजयः
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्

6.067.002

जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः

6.067.003

त्वम् अप्रतिमकर्माणम् इन्द्रं जयसि संयुगे
किं पुनर् मानुषौ दृष्ट्वा न वधिष्यसि संयुगे

6.067.004

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर् वचः
यज्ञभूमौ स विधिवत् पावकं जुहुवे न्द्रजित्

6.067.005

जुह्वतश् चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः
आजग्मुस् तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः

6.067.006

शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा

6.067.007

सर्वतो ऽग्निं समास्तीर्य शरपत्रैः समन्ततः
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः

6.067.008

चरुहोमसमिद्धस्य विधूमस्य महार्चिषः
बभूवुस् तानि लिङ्गानि विजयं दर्शयन्ति च

6.067.009

प्रदक्षिणावर्तशिखस् तप्तहाटकसंनिभः
हविस् तत् प्रतिजग्राह पावकः स्वयम् उत्थितः

6.067.010

हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्
आरुरोह रथश्रेष्ठम् अन्तर्धानगतं शुभम्

6.067.011

स वाजिभिश् चतुर्भिस् तु बाणैश् च निशितैर् युतः
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे

6.067.012

जाज्वल्यमानो वपुषा तपनीयपरिच्छदः
शरैश् चन्द्रार्धचन्द्रैश् च स रथः समलंकृतः

6.067.013

जाम्बूनदमहाकम्बुर् दीप्तपावकसंनिभः
बभूवेन्द्रजितः केतुर् वैदूर्यसमलंकृतः

6.067.014

तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः
स बभूव दुराधर्षो रावणिः सुमहाबलः

6.067.015

सो ऽभिनिर्याय नगराद् इन्द्रजित् समितिंजयः
हुत्वाग्निं राक्षसैर् मन्त्रैर् अन्तर्धानगतो ऽब्रवीत्

6.067.016

अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने
जयं पित्रे प्रदास्यामि रावणाय रणाधिकम्

6.067.017

कृत्वा निर्वानराम् उर्वीं हत्वा रामं सलक्ष्मणम्
करिष्ये परमां प्रीतिम् इत्य् उक्त्वान्तरधीयत

6.067.018

आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः
तीक्ष्णकार्मुकनाराचैस् तीक्ष्णस् त्व् इन्द्ररिपू रणे

6.067.019

स ददर्श महावीर्यौ नागौ त्रिशिरसाव् इव
सृजन्ताव् इषुजालानि वीरौ वानरमध्यगौ

6.067.020

इमौ ताव् इति संचिन्त्य सज्यं कृत्वा च कार्मुकम्
संततानेषुधाराभिः पर्जन्य इव वृष्टिमान्

6.067.021

स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ
अचक्षुर् विषये तिष्ठन् विव्याध निशितैः शरैः

6.067.022

तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ
धनुषी सशरे कृत्वा दिव्यम् अस्त्रं प्रचक्रतुः

6.067.023

प्रच्छादयन्तौ गगनं शरजालैर् महाबलौ
तम् अस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः

6.067.024

स हि धूमान्धकारं च चक्रे प्रच्छादयन् नभः
दिशश् चान्तर्दधे श्रीमान् नीहारतमसावृतः

6.067.025

नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः
शुश्रुवे चरतस् तस्य न च रूपं प्रकाशते

6.067.026

घनान्धकारे तिमिरे शरवर्षम् इवाद्भुतम्
स ववर्ष महाबाहुर् नाराचशरवृष्टिभिः

6.067.027

स रामं सूर्यसंकाशैः शरैर् दत्तवरो भृशम्
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः

6.067.028

तौ हन्यमानौ नाराचैर् धाराभिर् इव पर्वतौ
हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः शरान्

6.067.029

अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः
निकृत्य पतगा भूमौ पेतुस् ते शोणितोक्षिताः

6.067.030

अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ
तान् इषून् पततो भल्लैर् अनेकैर् निचकर्ततुः

6.067.031

यतो हि ददृशाते तौ शरान् निपतिताञ् शितान्
ततस् ततो दाशरथी ससृजाते ऽस्त्रम् उत्तमम्

6.067.032

रावणिस् तु दिशः सर्वा रथेनातिरथः पतन्
विव्याध तौ दाशरथी लघ्व् अस्त्रो निशितैः शरैः

6.067.033

तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः
बभूवतुर् दाशरथी पुष्पिताव् इव किंशुकौ

6.067.034

नास्य वेद गतिं कश् चिन् न च रूपं धनुः शरान्
न चान्यद् विदितं किं चित् सूर्यस्येवाभ्रसंप्लवे

6.067.035

तेन विद्धाश् च हरयो निहताश् च गतासवः
बभूवुः शतशस् तत्र पतिता धरणीतले

6.067.036

लक्ष्मणस् तु सुसंक्रुद्धो भ्रातरं वाक्यम् अब्रवीत्
ब्राह्मम् अस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम्

6.067.037

तम् उवाच ततो रामो लक्ष्मणं शुभलक्षणम्
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुम् अर्हसि

6.067.038

अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्
पलायन्तं प्रमत्तं वा न त्वं हन्तुम् इहार्हसि

6.067.039

अस्यैव तु वधे यत्नं करिष्यावो महाबल
आदेक्ष्यावो महावेगान् अस्त्रान् आशीविषोपमान्

6.067.040

तम् एनं मायिनं क्षुद्रम् अन्तर्हितरथं बलात्
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः

6.067.041

यद्य् एष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा
एवं निगूढो ऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः

6.067.042

इत्य् एवम् उक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर् वृतः
वधाय रौद्रस्य नृशंसकर्मणस् तदा महात्मा त्वरितं निरीक्षते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc