भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.066

6.066.001

निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः

6.066.002

ततः प्रवृत्तं सुमहत् तद् युद्धं लोमहर्षणम्
निशाचरैः प्लवंगानां देवानां दानवैर् इव

6.066.003

वृक्षशूलनिपातैश् च शिलापरिघपातनैः
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः

6.066.004

शक्तिशूलगदाखड्गैस् तोमरैश् च निशाचराः
पट्टसैर् भिन्दिपालैश् च बाणपातैः समन्ततः

6.066.005

पाशमुद्गरदण्डैश् च निर्घातैश् चापरैस् तथा
कदनं कपिसिंहानां चक्रुस् ते रजनीचराः

6.066.006

बाणौघैर् अर्दिताश् चापि खरपुत्रेण वानराः
संभ्रान्तमनसः सर्वे दुद्रुवुर् भयपीडिताः

6.066.007

तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः
नेदुस् ते सिंहवद् धृष्टा राक्षसा जितकाशिनः

6.066.008

विद्रवत्सु तदा तेषु वानरेषु समन्ततः
रामस् तान् वारयाम् आस शरवर्षेण राक्षसान्

6.066.009

वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः
क्रोधान् अलसम् आविष्टो वचनं चेदम् अब्रवीत्

6.066.010

तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते
त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः

6.066.011

यत् तदा दण्डकारण्ये पितरं हतवान् मम
मदग्रतः स्वकर्मस्थं स्मृत्वा रोषो ऽभिवर्धते

6.066.012

दह्यन्ते भृशम् अङ्गानि दुरात्मन् मम राघव
यन् मयासि न दृष्टस् त्वं तस्मिन् काले महावने

6.066.013

दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवान् इह
काङ्क्षितो ऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः

6.066.014

अद्य मद्बाणवेगेन प्रेतराड् विषयं गतः
ये त्वया निहताः शूराः सह तैस् त्वं समेष्यसि

6.066.015

बहुनात्र किम् उक्तेन शृणु राम वचो मम
पश्यन्तु सकला लोकास् त्वां मां चैव रणाजिरे

6.066.016

अस्त्रैर् वा गदया वापि बाहुभ्यां वा महाहवे
अभ्यस्तं येन वा राम तेन वा वर्ततां युधि

6.066.017

मकराक्षवचः श्रुत्वा रामो दशरथात्मजः
अब्रवीत् प्रहसन् वाक्यम् उत्तरोत्तरवादिनम्

6.066.018

चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः
त्रिशिरा दूषणश् चापि दण्डके निहता मया

6.066.019

स्वाशितास् तव मांसेन गृध्रगोमायुवायसाः
भविष्यन्त्य् अद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः

6.066.020

एवम् उक्तस् तु रामेण खरपुत्रो निशाचरः
बाणौघान् असृजत् तस्मै राघवाय रणाजिरे

6.066.021

ताञ् शराञ् शरवर्षेण रामश् चिच्छेद नैकधा
निपेतुर् भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः

6.066.022

तद् युद्धम् अभवत् तत्र समेत्यान्योन्यम् ओजसा
खर राक्षसपुत्रस्य सूनोर् दशरथस्य च

6.066.023

जीमूतयोर् इवाकाशे शब्दो ज्यातलयोस् तदा
धनुर् मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे

6.066.024

देवदानवगन्धर्वाः किंनराश् च महोरगाः
अन्तरिक्षगताः सर्वे द्रष्टुकामास् तद् अद्भुतम्

6.066.025

विद्धम् अन्योन्यगात्रेषु द्विगुणं वर्धते बलम्
कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे

6.066.026

रामम् उक्तास् तु बाणौघान् राक्षसस् त्व् अच्छिनद् रणे
रक्षोमुक्तांस् तु रामो वै नैकधा प्राच्छिनच् छरैः

6.066.027

बाणौघवितताः सर्वा दिशश् च विदिशस् तथा
संछन्ना वसुधा चैव समन्तान् न प्रकाशते

6.066.028

ततः क्रुद्धो महाबाहुर् धनुश् चिच्छेद रक्षसः
अष्टाभिर् अथ नाराचैः सूतं विव्याध राघवः
भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्

6.066.029

विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः
अतिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्

6.066.030

विभ्राम्य च महच् छूलं प्रज्वलन्तं निशाचरः
स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे

6.066.031

तम् आपतन्तं ज्वलितं खरपुत्रकराच् च्युतम्
बाणैस् तु त्रिभिर् आकाशे शूलं चिच्छेद राघवः

6.066.032

सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः
व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि

6.066.033

तच् छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा
साधु साध्व् इति भूतानि व्याहरन्ति नभोगताः

6.066.034

तद् दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः
मुष्टिम् उद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत्

6.066.035

स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः
पावकास्त्रं ततो रामः संदधे स्वशरासने

6.066.036

तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे
संछिन्नहृदयं तत्र पपात च ममार च

6.066.037

दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्
लङ्काम् एव प्रधावन्त रामबालार्दितास् तदा

6.066.038

दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम्
ददृशुर् अथ च देवताः प्रहृष्टा गिरिम् इव वज्रहतं यथा विशीर्णम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc