रामायण · अध्याय 6.065
निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्
रावणः परमामर्षी प्रजज्वालानलो यथा
नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः
खरपुत्रं विशालाक्षं मकराक्षम् अचोदयत्
गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः
राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ
रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः
बाढम् इत्य् अब्रवीद् धृष्टो मकराक्षो निशाचरः
सो ऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्
निर्जगाम गृहाच् छुभ्राद् रावणस्याज्ञया बली
समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीद् इदम्
रथम् आनीयतां शीघ्रं सैन्यं चानीयतां त्वरात्
तस्य तद् वचनं श्रुत्वा बलाध्यक्षो निशाचरः
स्यन्दनं च बलं चैव समीपं प्रत्यपादयत्
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः
सूतं संचोदयाम् आस शीघ्रं मे रथम् आवह
अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीद् इदम्
यूयं सर्वे प्रयुध्यध्वं पुरस्तान् मम राक्षसाः
अहं राक्षसराजेन रावणेन महात्मना
आज्ञप्तः समरे हन्तुं ताव् उभौ रामलक्ष्मणौ
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः
शाखामृगं च सुग्रीवं वानरांश् च शरोत्तमैः
अद्य शूलनिपातैश् च वानराणां महाचमूम्
प्रदहिष्यामि संप्राप्तां शुष्केन्धनम् इवानलः
मकराक्षस्य तच् छ्रुत्वा वचनं ते निशाचराः
सर्वे नानायुधोपेता बलवन्तः समाहिताः
ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः
मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः
परिवार्य महाकाया महाकायं खरात्मजम्
अभिजग्मुस् तदा हृष्टाश् चालयन्तो वसुंधराम्
शङ्खभेरीसहस्राणाम् आहतानां समन्ततः
क्ष्वेडितास्फोटितानां च ततः शब्दो महान् अभूत्
प्रभ्रष्टो ऽथ करात् तस्य प्रतोदः सारथेस् तदा
पपात सहसा चैव ध्वजस् तस्य च रक्षसः
तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः
चरणैर् आकुलैर् गत्वा दीनाः सास्रमुखा ययुः
प्रवाति पवनस् तस्य सपांसुः खरदारुणः
निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः
अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्व् असकृद् गदासिभिन्नाः
अहम् अहम् इति युद्धकौशलास् ते रजनिचराः परिबभ्रमुर् नदन्तः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0