भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.061

6.061.001

तयोस् तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम्
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किं चित् प्रतिपेदिरे ते

6.061.002

ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः
उवाच शाखामृगराजवीरान् आश्वासयन्न् अप्रतिमैर् वचोभिः

6.061.003

मा भैष्ट नास्त्य् अत्र विषादकालो यद् आर्यपुत्राव् अवशौ विषण्णौ
स्वयम्भुवो वाक्यम् अथोद्वहन्तौ यत् सादिताव् इन्द्रजिदस्त्रजालैः

6.061.004

तस्मै तु दत्तं परमास्त्रम् एतत् स्वयम्भुवा ब्राह्मम् अमोघवेगम्
तन् मानयन्तौ यदि राजपुत्रौ निपातितौ को ऽत्र विषादकालः

6.061.005

ब्राह्मम् अस्त्रं तदा धीमान् मानयित्वा तु मारुतिः
विभीषणवचः श्रुत्वा हनूमांस् तम् अथाब्रवीत्

6.061.006

एतस्मिन् निहते सैन्ये वानराणां तरस्विनाम्
यो यो धारयते प्राणांस् तं तम् आश्वासयावहे

6.061.007

ताव् उभौ युगपद् वीरौ हनूमद् राक्षसोत्तमौ
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः

6.061.008

छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः

6.061.009

पतितैः पर्वताकारैर् वानरैर् अभिसंकुलाम्
शस्त्रैश् च पतितैर् दीप्तैर् ददृशाते वसुंधराम्

6.061.010

सुग्रीवम् अङ्गदं नीलं शरभं गन्धमादनम्
जाम्बवन्तं सुषेणं च वेगदर्शनम् आहुकम्

6.061.011

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा
विभीषणो हनूमांश् च ददृशाते हतान् रणे

6.061.012

सप्तषष्टिर् हताः कोट्यो वानराणां तरस्विनाम्
अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः

6.061.013

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्
मार्गते जाम्बवन्तं स्म हनूमान् सविभीषणः

6.061.014

स्वभावजरया युक्तं वृद्धं शरशतैश् चितम्
प्रजापतिसुतं वीरं शाम्यन्तम् इव पावकम्

6.061.015

दृष्ट्वा तम् उपसंगम्य पौलस्त्यो वाक्यम् अब्रवीत्
कच्चिद् आर्यशरैस् तीर्ष्णैर् न प्राणा ध्वंसितास् तव

6.061.016

विभीषणवचः श्रुत्वा जाम्बवान् ऋक्षपुंगवः
कृच्छ्राद् अभ्युद्गिरन् वाक्यम् इदं वचनम् अब्रवीत्

6.061.017

नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये
पीड्यमानः शितैर् बाणैर् न त्वां पश्यामि चक्षुषा

6.061.018

अञ्जना सुप्रजा येन मातरिश्वा च नैरृत
हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्व चित्

6.061.019

श्रुत्वा जाम्बवतो वाक्यम् उवाचेदं विभीषणः
आर्यपुत्राव् अतिक्रम्य कस्मात् पृच्छसि मारुतिम्

6.061.020

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे
आर्य संदर्शितः स्नेहो यथा वायुसुते परः

6.061.021

विभीषणवचः श्रुत्वा जाम्बवान् वाक्यम् अब्रवीत्
शृणु नैरृतशार्दूल यस्मात् पृच्छामि मारुतिम्

6.061.022

तस्मिञ् जीवति वीरे तु हतम् अप्य् अहतं बलम्
हनूमत्य् उज्झितप्राणे जीवन्तो ऽपि वयं हताः

6.061.023

ध्रियते मारुतिस् तात मारुतप्रतिमो यदि
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्

6.061.024

ततो वृद्धम् उपागम्य नियमेनाभ्यवादयत्
गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः

6.061.025

श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः
पुनर्जातम् इवात्मानं स मेने ऋक्षपुंगवः

6.061.026

ततो ऽब्रवीन् महातेजा हनूमन्तं स जाम्बवान्
आगच्छ हरिशार्दूलवानरांस् त्रातुम् अर्हसि

6.061.027

नान्यो विक्रमपर्याप्तस् त्वम् एषां परमः सखा
त्वत्पराक्रमकालो ऽयं नान्यं पश्यामि कञ् चन

6.061.028

ऋक्षवानरवीराणाम् अनीकानि प्रहर्षय
विशल्यौ कुरु चाप्य् एतौ सादितौ रामलक्ष्मणौ

6.061.029

गत्वा परमम् अध्वानम् उपर्य् उपरि सागरम्
हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुम् अर्हसि

6.061.030

ततः काञ्चनम् अत्युग्रम् ऋषभं पर्वतोत्तमम्
कैलासशिखरं चापि द्रक्ष्यस्य् अरिनिषूदन

6.061.031

तयोः शिखरयोर् मध्ये प्रदीप्तम् अतुलप्रभम्
सर्वौषधियुतं वीर द्रक्ष्यस्य् औषधिपर्वतम्

6.061.032

तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः
द्रक्ष्यस्य् ओषधयो दीप्ता दीपयन्त्यो दिशो दश

6.061.033

मृतसंजीवनीं चैव विशल्यकरणीम् अपि
सौवर्णकरणीं चैव संधानीं च महौषधीम्

6.061.034

ताः सर्वा हनुमन् गृह्य क्षिप्रम् आगन्तुम् अर्हसि
आश्वासय हरीन् प्राणैर् योज्य गन्धवहात्मजः

6.061.035

श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुंगवः
आपूर्यत बलोद्धर्षैस् तोयवेगैर् इवार्णवः

6.061.036

स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तरम्
हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः

6.061.037

हरिपादविनिर्भिन्नो निषसाद स पर्वतः
न शशाक तदात्मानं सोढुं भृशनिपीडितः

6.061.038

तस्य पेतुर् नगा भूमौ हरिवेगाच् च जज्वलुः
शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता

6.061.039

तस्मिन् संपीड्यमाने तु भग्नद्रुमशिलातले
न शेकुर् वानराः स्थातुं घूर्णमाने नगोत्तमे

6.061.040

स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा
लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा

6.061.041

पृथिवीधरसंकाशो निपीड्य धरणीधरम्
पृथिवीं क्षोभयाम् आस सार्णवां मारुतात्मजः

6.061.042

पद्भ्यां तु शैलम् आपीड्य वडवामुखवन् मुखम्
विवृत्योग्रं ननादोच्चैस् त्रासयन्न् इव राक्षसान्

6.061.043

तस्य नानद्यमानस्य श्रुत्वा निनदम् अद्भुतम्
लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात्

6.061.044

नमस्कृत्वाथ रामाय मारुतिर् भीमविक्रमः
राघवार्थे परं कर्म समैहत परंतपः

6.061.045

स पुच्छम् उद्यम्य भुजंगकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य
विवृत्य वक्त्रं वडवामुखाभम् आपुप्लुवे व्योम्नि स चण्डवेगः

6.061.046

स वृक्षषण्डांस् तरसा जहार शैलाञ् शिलाः प्राकृतवानरांश् च
बाहूरुवेगोद्धतसंप्रणुन्नास् ते क्षीणवेगाः सलिले निपेतुः

6.061.047

स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः
जगाम मेरुं नगराजम् अग्र्यं दिशः प्रकर्षन्न् इव वायुसूनुः

6.061.048

स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्
समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम्

6.061.049

स पर्वतान् वृक्षगणान् सरांसि नदीस् तटाकानि पुरोत्तमानि
स्फीताञ्जनांस् तान् अपि संप्रपश्यञ् जगाम वेगात् पितृतुल्यवेगः

6.061.050

आदित्यपथम् आश्रित्य जगाम स गतश्रमः
स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम्

6.061.051

नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम्
श्वेताभ्रचयसंकाशैः शिखरैश् चारुदर्शनैः

6.061.052

स तं समासाद्य महानगेन्द्रम् अतिप्रवृद्धोत्तमघोरशृङ्गम्
ददर्श पुण्यानि महाश्रमाणि सुरर्षिसंघोत्तमसेवितानि

6.061.053

स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्
हयाननं ब्रह्मशिरश् च दीप्तं ददर्श वैवस्वत किंकरांश् च

6.061.054

वज्रालयं वैश्वरणालयं च सूर्यप्रभं सूर्यनिबन्धनं च
ब्रह्मासनं शंकरकार्मुकं च ददर्श नाभिं च वसुंधरायाः

6.061.055

कैलासम् अग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलम् अग्र्यम्
स दीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम्

6.061.056

स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः
आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार

6.061.057

स योजनसहस्राणि समतीत्य महाकपिः
दिव्यौषधिधरं शैलं व्यचरन् मारुतात्मजः

6.061.058

महौषध्यस् तु ताः सर्वास् तस्मिन् पर्वतसत्तमे
विज्ञायार्थिनम् आयान्तं ततो जग्मुर् अदर्शनम्

6.061.059

स ता महात्मा हनुमान् अपश्यंश् चुकोप कोपाच् च भृशं ननाद
अमृष्यमाणो ऽग्निनिकाशचक्षुर् महीधरेन्द्रं तम् उवाच वाक्यम्

6.061.060

किम् एतद् एवं सुविनिश्चितं ते यद् राघवे नासि कृतानुकम्पः
पश्याद्य मद्बाहुबलाभिभूतो विकीर्णम् आत्मानम् अथो नगेन्द्र

6.061.061

स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्
विकीर्णकूटं चलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ

6.061.062

स तं समुत्पाट्य खम् उत्पपात वित्रास्य लोकान् ससुरान् सुरेन्द्रान्
संस्तूयमानः खचरैर् अनेकैर् जगाम वेगाद् गरुडोग्रवीर्यः

6.061.063

स भास्कराध्वानम् अनुप्रपन्नस् तद् भास्कराभं शिखरं प्रगृह्य
बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः

6.061.064

स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस् तु
सहस्रधारेण सपावकेन चक्रेण खे विष्णुर् इवोद्धृतेन

6.061.065

तं वानराः प्रेक्ष्य तदा विनेदुः स तान् अपि प्रेक्ष्य मुदा ननाद
तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः

6.061.066

ततो महात्मा निपपात तस्मिञ् शैलोत्तमे वानरसैन्यमध्ये
हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः

6.061.067

ताव् अप्य् उभौ मानुषराजपुत्रौ तं गन्धम् आघ्राय महौषधीनाम्
बभूवतुस् तत्र तदा विशल्याव् उत्तस्थुर् अन्ये च हरिप्रवीराः

6.061.068

ततो हरिर् गन्धवहात्मजस् तु तम् ओषधीशैलम् उदग्रवीर्यः
निनाय वेगाद् धिमवन्तम् एव पुनश् च रामेण समाजगाम

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc