रामायण · अध्याय 6.057
एवं विलपमानस्य रावणस्य दुरात्मनः
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यम् अब्रवीत्
एवम् एव महावीर्यो हतो नस् तात मध्यमः
न तु सत्पुरुषा राजन् विलपन्ति यथा भवान्
नूनं त्रिभुवणस्यापि पर्याप्तस् त्वम् असि प्रभो
स कस्मात् प्राकृत इव शोकस्यात्मानम् ईदृशम्
ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः
सहस्रखरसंयुक्तो रथो मेघसमस्वनः
त्वयासकृद् विशस्त्रेण विशस्ता देवदानवाः
स सर्वायुधसंपन्नो राघवं शास्तुम् अर्हसि
कामं तिष्ठ महाराजनिर्गमिष्याम्य् अहं रणम्
उद्धरिष्यामि ते शत्रून् गरुडः पन्नगान् इह
शम्बरो देवराजेन नरको विष्णुना यथा
तथाद्य शयिता रामो मया युधि निपातितः
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः
पुनर् जातम् इवात्मानं मन्यते कालचोदितः
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ
अतिकायश् च तेजस्वी बभूवुर् युद्धहर्षिताः
ततो ऽहम् अहम् इत्य् एवं गर्जन्तो नैरृतर्षभाः
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः
अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः
सर्वे ऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः
सर्वे समरम् आसाद्य न श्रूयन्ते स्म निर्जिताः
सर्वे ऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः
सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास् तथा
स तैस् तथा भास्करतुल्यवर्चसैः सुतैर् वृतः शत्रुबलप्रमर्दनैः
रराज राजा मघवान् यथामरैर् वृतो महादानवदर्पनाशनैः
स पुत्रान् संपरिष्वज्य भूषयित्वा च भूषणैः
आशीर्भिश् च प्रशस्ताभिः प्रेषयाम् आस संयुगे
महोदरमहापार्श्वौ भ्रातरौ चापि रावणः
रक्षणार्थं कुमाराणां प्रेषयाम् आस संयुगे
ते ऽभिवाद्य महात्मानं रावणं रिपुरावणम्
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे
सर्वौषधीभिर् गन्धैश् च समालभ्य महाबलाः
निर्जग्मुर् नैरृतश्रेष्ठाः षड् एते युद्धकाङ्क्षिणः
ततः सुदर्शनं नाम नीलजीमूतसंनिभम्
ऐरावतकुले जातम् आरुरोह महोदरः
सर्वायुधसमायुक्तं तूणीभिश् च स्वलंकृतम्
रराज गजम् आस्थाय सवितेवास्तमूर्धनि
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः
त्रिशिरा रथम् आस्थाय विरराज धनुर्धरः
सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः
त्रिभिः किरीटैस् त्रिशिराः शुशुभे स रथोत्तमे
हिमवान् इव शैलेन्द्रस् त्रिभिः काञ्चनपर्वतैः
अतिकायो ऽपि तेजस्वी राक्षसेन्द्रसुतस् तदा
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्
सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम्
तूणीबाणासनैर् दीप्तं प्रासासि परिघाकुलम्
स काञ्चनविचित्रेण किरीटेन विराजता
भूषणैश् च बभौ मेरुः प्रभाभिर् इव भास्वरः
स रराज रथे तस्मिन् राजसूनुर् महाबलः
वृतो नैरृतशार्दूलैर् वज्रपाणिर् इवामरैः
हयम् उच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम्
मनोजवं महाकायम् आरुरोह नरान्तकः
गृहीत्वा प्रासम् उक्लाभं विरराज नरान्तकः
शक्तिम् आदाय तेजस्वी गुहः शत्रुष्व् इवाहवे
देवान्तकः समादाय परिघं वज्रभूषणम्
परिगृह्य गिरिं दोर्भ्यां वपुर् विष्णोर् विडम्बयन्
महापार्श्वो महातेजा गदाम् आदाय वीर्यवान्
विरराज गदापाणिः कुबेर इव संयुगे
ते प्रतस्थुर् महात्मानो बलैर् अप्रतिमैर् वृताः
सुरा इवामरावत्यां बलैर् अप्रतिमैर् वृताः
तान् गजैश् च तुरंगैश् च रथैश् चाम्बुदनिस्वनैः
अनुजग्मुर् महात्मानो राक्षसाः प्रवरायुधाः
ते विरेजुर् महात्मानो कुमाराः सूर्यवर्चसः
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे
प्रगृहीता बभौ तेषां छत्राणाम् आवलिः सिता
शारदाभ्रप्रतीकाशां हंसावलिर् इवाम्बरे
मरणं वापि निश्चित्य शत्रूणां वा पराजयम्
इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः
जगर्जुश् च प्रणेदुश् च चिक्षिपुश् चापि सायकान्
जहृषुश् च महात्मानो निर्यान्तो युद्धदुर्मदाः
क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी
रक्षसां सिंहनादैश् च पुस्फोटेव तदाम्बरम्
ते ऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः
ददृशुर् वानरानीकं समुद्यतशिलानगम्
हरयो ऽपि महात्मानो ददृशुर् नैरृतं बलम्
हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम्
नीलजीमूतसंकाशं समुद्यतमहायुधम्
दीप्तानलरविप्रख्यैर् नैरृतैः सर्वतो वृतम्
तद् दृष्ट्वा बलम् आयान्तं लब्धलक्ष्याः प्लवंगमाः
समुद्यतमहाशैलाः संप्रणेदुर् मुहुर् मुहुः
ततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्
अमृष्यमाणाः परहर्षम् उग्रं महाबला भीमतरं विनेदुः
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः
विचेरुर् उद्यतैः शैलैर् नगाः शिखरिणो यथा
के चिद् आकाशम् आविश्य के चिद् उर्व्यां प्लवंगमाः
रक्षःसैन्येषु संक्रुद्धाश् चेरुर् द्रुमशिलायुधाः
ते पादपशिलाशैलैश् चक्रुर् वृष्टिम् अनुत्तमाम्
बाणौघैर् वार्यमाणाश् च हरयो भीमविक्रमाः
सिंहनादान् विनेदुश् च रणे राक्षसवानराः
शिलाभिश् चूर्णयाम् आसुर् यातुधानान् प्लवंगमाः
निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्
के चिद् रथगतान् वीरान् गजवाजिगतान् अपि
निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवंगमाः
शैलशृङ्गनिपातैश् च मुष्टिभिर् वान्तलोचनाः
चेलुः पेतुश् च नेदुश् च तत्र राक्षसपुंगवाः
ततः शैलैश् च खड्गैश् च विसृष्टैर् हरिराक्षसैः
मुहूर्तेनावृता भूमिर् अभवच् छोणिताप्लुता
विकीर्णपर्वताकारै रक्षोभिर् अरिमर्दनैः
आक्षिप्ताः क्षिप्यमाणाश् च भग्नशूलाश् च वानरैः
वानरान् वानरैर् एव जग्नुस् ते रजनीचराः
राक्षसान् राक्षसैर् एव जघ्नुस् ते वानरा अपि
आक्षिप्य च शिलास् तेषां निजघ्नू राक्षसा हरीन्
तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः
निजघ्नुः शैलशूलास्त्रैर् विभिदुश् च परस्परम्
सिंहनादान् विनेदुश् च रणे वानरराक्षसाः
छिन्नवर्मतनुत्राणा राक्षसा वानरैर् हताः
रुधिरं प्रस्रुतास् तत्र रससारम् इव द्रुमाः
रथेन च रथं चापि वारणेन च वारणम्
हयेन च हयं के चिन् निजघ्नुर् वानरा रणे
क्षुरप्रैर् अर्धचन्द्रैश् च भल्लैश् च निशितैः शरैः
राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ् शिलाः
विकीर्णैः पर्वताग्रैश् च द्रुमैश् छिन्नैश् च संयुगे
हतैश् च कपिरक्षोभिर् दुर्गमा वसुधाभवत्
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु
निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश् च नेदुः
ततो हयं मारुततुल्यवेगम् आरुह्य शक्तिं निशितां प्रगृह्य
नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश
स वानरान् सप्तशतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद
एकः क्षणेनेन्द्ररिपुर् महात्मा जघान सैन्यं हरिपुंगवानाम्
ददृशुश् च महात्मानं हयपृष्ठे प्रतिष्ठितम्
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः
स तस्य ददृशे मार्गो मांसशोणितकर्दमः
पतितैः पर्वताकारैर् वानरैर् अभिसंवृतः
यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः
तावद् एतान् अतिक्रम्य निर्बिभेद नरान्तकः
ज्वलन्तं प्रासम् उद्यम्य संग्रामान्ते नरान्तकः
ददाह हरिसैन्यानि वनानीव विभावसुः
यावद् उत्पाटयाम् आसुर् वृक्षाञ् शैलान् वनौकसः
तावत् प्रासहताः पेतुर् वज्रकृत्ता इवाचलाः
दिक्षु सर्वासु बलवान् विचचार नरान्तकः
प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः
न शेकुर् धावितुं वीरा न स्थातुं स्पन्दितुं कुतः
उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान्
एकेनान्तककल्पेन प्रासेनादित्यतेजसा
भिन्नानि हरिसैन्यानि निपेतुर् धरणीतले
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्
न शेकुर् वानराः सोढुं ते विनेदुर् महास्वनम्
पततां हरिवीराणां रूपाणि प्रचकाशिरे
वज्रभिन्नाग्रकूटानां शैलानां पतताम् इव
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः
ते ऽस्वस्था वानरश्रेष्ठाः सुग्रीवम् उपतस्थिरे
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्
नरान्तकभयत्रस्तां विद्रवन्तीम् इतस् ततः
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्
गृहीतप्रासम् आयान्तं हयपृष्ठे प्रतिष्ठितम्
अथोवाच महातेजाः सुग्रीवो वानराधिपः
कुमारम् अङ्गदं वीरं शक्रतुल्यपराक्रमम्
गच्छैनं राक्षसं वीर यो ऽसौ तुरगम् आस्थितः
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर् वियोजय
स भर्तुर् वचनं श्रुत्वा निष्पपाताङ्गदस् तदा
अनीकान् मेघसंकाशान् मेघानीकाद् इवांशुमान्
शैलसंघातसंकाशो हरीणाम् उत्तमो ऽङ्गदः
रराजाङ्गदसंनद्धः सधातुर् इव पर्वतः
निरायुधो महातेजाः केवलं नखदंष्ट्रवान्
नरान्तकम् अभिक्रम्य वालिपुत्रो ऽब्रवीद् वचः
तिष्ठ किं प्राकृतैर् एभिर् हरिभिस् त्वं करिष्यसि
अस्मिन् वज्रसमस्पर्शे प्रासं क्षिप ममोरसि
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः
संदश्य दशनैर् ओष्ठं निश्वस्य च भुजंगवत्
स प्रासम् आविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज
स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच् च भूमौ
तं प्रासम् आलोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्
तलं समुद्यम्य स वालिपुत्रस् तुरंगमस्याभिजघान मूर्ध्नि
निमग्नपादः स्फुटिताक्षि तारो निष्क्रान्तजिह्वो ऽचलसंनिकाशः
स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा
नरान्तकः क्रोधवशं जगाम हतं तुरगं पतितं निरीक्ष्य
स मुष्टिम् उद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम्
अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्
मुहुर् विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च
अथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्
निपातयाम् आस तदा महात्मा नरान्तकस्योरसि वालिपुत्रः
स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ् शोणितदिग्धगात्रः
नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः
अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः
बभूव तस्मिन् निहते ऽग्र्यवीरे नरान्तके वालिसुतेन संख्ये
अथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम्
विसिष्मिये सो ऽप्य् अतिवीर्य विक्रमः पुनश् च युद्धे स बभूव हर्षितः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0