रामायण · अध्याय 6.049
ततो रामो महातेजा धनुर् आदाय वीर्यवान्
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्
क्रममाणम् इवाकाशं पुरा नारायणं प्रभुम्
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं
सविस्मयम् इदं रामो विभीषणम् उवाच ह
को ऽसौ पर्वतसंकशः किरीटी हरिलोचनः
लङ्कायां दृश्यते वीरः सविद्युद् इव तोयदः
पृथिव्याः केतुभूतो ऽसौ महान् एको ऽत्र दृश्यते
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस् ततः
आचक्ष्व मे महान् को ऽसौ रक्षो वा यदि वासुरः
न मयैवंविधं भूतं दृष्टपूर्वं कदा चन
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा
विभीषणो महाप्राज्ञः काकुत्स्थम् इदम् अब्रवीत्
येन वैवस्वतो युद्धे वासवश् च पराजितः
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्
एतेन देवा युधि दानवाश् च यक्षा भुजंगाः पिशिताशनाश् च
गन्धर्वविद्याधरकिंनराश् च सहस्रशो राघव संप्रभग्नाः
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्
हन्तुं न शेकुस् त्रिदशाः कालो ऽयम् इति मोहिताः
प्रकृत्या ह्य् एष तेजस्वी कुम्भकर्णो महाबलः
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्
एतेन जातमात्रेण क्षुधार्तेन महात्मना
भक्षितानि सहस्राणि सत्त्वानां सुबहून्य् अपि
तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः
यान्ति स्म शरणं शक्रं तम् अप्य् अर्थं न्यवेदयन्
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री
स शक्रवज्राभिहतो महात्मा चचाल कोपाच् च भृशं ननाद
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः
श्रुत्वा निनादं वित्रस्ता भूयो भूमिर् वितत्रसे
ततः कोपान् महेन्द्रस्य कुम्भकर्णो महाबलः
विकृष्यैरावताद् दन्तं जघानोरसि वासवम्
कुम्भकर्णप्रहारार्तो विचचाल स वासवः
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः
प्रजाभिः सह शक्रश् च ययौ स्थानं स्वयम्भुवः
कुम्भकर्णस्य दौरात्म्यं शशंसुस् ते प्रजापतेः
प्रजानां भक्षणं चापि देवानां चापि धर्षणम्
एवं प्रजा यदि त्व् एष भक्षयिष्यति नित्यशः
अचिरेणैव कालेन शून्यो लोको भविष्यति
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः
रक्षांस्य् आवाहयाम् आस कुम्भकर्णं ददर्श ह
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः
दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूर् इदम् अब्रवीत्
ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः
तस्मात् त्वम् अद्य प्रभृति मृतकल्पः शयिष्यसि
ब्रह्मशापाभिभूतो ऽथ निपपाताग्रतः प्रभोः
ततः परमसंभ्रान्तो रावणो वाक्यम् अब्रवीत्
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते
न नप्तारं स्वकं न्याय्यं शप्तुम् एवं प्रजापते
न मिथ्यावचनश् च त्वं स्वप्स्यत्य् एष न संशयः
कालस् तु क्रियताम् अस्य शयने जागरे तथा
रावणस्य वचः श्रुत्वा स्वयम्भूर् इदम् अब्रवीत्
शयिता ह्य् एष षण् मासान् एकाहं जागरिष्यति
एकेनाह्ना त्व् असौ वीरश् चरन् भूमिं बुभुक्षितः
व्यात्तास्यो भक्षयेल् लोकान् संक्रुद्ध इव पावकः
सो ऽसौ व्यसनम् आपन्नः कुम्भकर्णम् अबोधयत्
त्वत्पराक्रमभीतश् च राजा संप्रति रावणः
स एष निर्गतो वीरः शिबिराद् भीमविक्रमः
वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति
कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः
कथम् एनं रणे क्रुद्धं वारयिष्यन्ति वानराः
उच्यन्तां वानराः सर्वे यन्त्रम् एतत् समुच्छ्रितम्
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः
विभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम्
उवाच राघवो वाक्यं नीलं सेनापतिं तदा
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके
द्वाराण्य् आदाय लङ्कायाश् चर्याश् चाप्य् अथ संक्रमान्
शैलशृङ्गाणि वृक्षांश् च शिलाश् चाप्य् उपसंहरन्
तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः
राघवेण समादिष्टो नीलो हरिचमूपतिः
शशास वानरानीकं यथावत् कपिकुञ्जरः
ततो गवाक्षः शरभो हनुमान् अङ्गदो नलः
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारम् अभ्ययुः
ततो हरीणां तद् अनीकम् उग्रं रराज शैलोद्यतवृक्षहस्तम्
गिरेः समीपानुगतं यथैव महन् महाम्भोधरजालम् उग्रम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0