भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.045

6.045.001

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः
किं चिद् दीनमुखश् चापि सचिवांस् तान् उदैक्षत

6.045.002

स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च
पुरीं परिययौ लङ्कां सर्वान् गुल्मान् अवेक्षितुम्

6.045.003

तां राक्षसगणैर् गुप्तां गुल्मैर् बहुभिर् आवृताम्
ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम्

6.045.004

रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः
उवाचामर्षितः काले प्रहस्तं युद्धकोविदम्

6.045.005

पुरस्योपनिविष्टस्य सहसा पीडितस्य च
नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद

6.045.006

अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर् मम
इन्द्रजिद् वा निकुम्भो वा वहेयुर् भारम् ईदृशम्

6.045.007

स त्वं बलम् इतः शीघ्रम् आदाय परिगृह्य च
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः

6.045.008

निर्याणाद् एव ते नूनं चपला हरिवाहिनी
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति

6.045.009

चपला ह्य् अविनीताश् च चलचित्ताश् च वानराः
न सहिष्यन्ति ते नादं सिंहनादम् इव द्विपाः

6.045.010

विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह
अवशस्ते निरालम्बः प्रहस्तवशम् एष्यति

6.045.011

आपत्संशयिता श्रेयो नात्र निःसंशयीकृता
प्रतिलोमानुलोमं वा यद् वा नो मन्यसे हितम्

6.045.012

रावणेनैवम् उक्तस् तु प्रहस्तो वाहिनीपतिः
राक्षसेन्द्रम् उवाचेदम् असुरेन्द्रम् इवोशना

6.045.013

राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः
विवादश् चापि नो वृत्तः समवेक्ष्य परस्परम्

6.045.014

प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया
अप्रदाने पुनर् युद्धं दृष्टम् एतत् तथैव नः

6.045.015

सो ऽहं दानैश् च मानैश् च सततं पूजितस् त्वया
सान्त्वैश् च विविधैः काले किं न कुर्यां प्रियं तव

6.045.016

न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा
त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि

6.045.017

एवम् उक्त्वा तु भर्तारं रावणं वाहिनीपतिः
समानयत मे शीघ्रं राक्षसानां महद् बलम्

6.045.018

मद्बाणाशनिवेगेन हतानां तु रणाजिरे
अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम्

6.045.019

इत्य् उक्तास् ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः
बलम् उद्योजयाम् आसुस् तस्मिन् राक्षसमन्दिरे

6.045.020

सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः
लङ्का राक्षसवीरैस् तैर् गजैर् इव समाकुला

6.045.021

हुताशनं तर्पयतां ब्राह्मणांश् च नमस्यताम्
आज्यगन्धप्रतिवहः सुरभिर् मारुतो ववौ

6.045.022

स्रजश् च विविधाकारा जगृहुस् त्व् अभिमन्त्रिताः
संग्रामसज्जाः संहृष्टा धारयन् राक्षसास् तदा

6.045.023

सधनुष्काः कवचिनो वेगाद् आप्लुत्य राक्षसाः
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्

6.045.024

अथामन्त्र्य च राजानं भेरीम् आहत्य भैरवाम्
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम्

6.045.025

हयैर् महाजवैर् युक्तं सम्यक् सूतसुसंयुतम्
महाजलदनिर्घोषं साक्षाच् चन्द्रार्कभास्वरम्

6.045.026

उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्
सुवर्णजालसंयुक्तं प्रहसन्तम् इव श्रिया

6.045.027

ततस् तं रथम् आस्थाय रावणार्पितशासनः
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः

6.045.028

ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः
शुश्रुवे शङ्खशब्दश् च प्रयाते वाहिनीपतौ

6.045.029

निनदन्तः स्वरान् घोरान् राक्षसा जग्मुर् अग्रतः
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः

6.045.030

व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ
गजयूथनिकाशेन बलेन महता वृतः

6.045.031

सागरप्रतिमौघेन वृतस् तेन बलेन सः
प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः

6.045.032

तस्य निर्याण घोषेण राक्षसानां च नर्दताम्
लङ्कायां सर्वभूतानि विनेदुर् विकृतैः स्वरैः

6.045.033

व्यभ्रम् आकाशम् आविश्य मांसशोणितभोजनाः
मण्डलान्य् अपसव्यानि खगाश् चक्रू रथं प्रति

6.045.034

वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे

6.045.035

अन्तरिक्षात् पपातोल्का वायुश् च परुषो ववौ
अन्योन्यम् अभिसंरब्धा ग्रहाश् च न चकाशिरे

6.045.036

ववर्षू रुधिरं चास्य सिषिचुश् च पुरःसरान्
केतुमूर्धनि गृध्रो ऽस्य विलीनो दक्षिणामुखः

6.045.037

सारथेर् बहुशश् चास्य संग्रामम् अवगाहतः
प्रतोदो न्यपतद् धस्तात् सूतस्य हयसादिनः

6.045.038

निर्याण श्रीश् च यास्यासीद् भास्वरा च सुदुर्लभा
सा ननाश मुहूर्तेन समे च स्खलिता हयाः

6.045.039

प्रहस्तं त्व् अभिनिर्यान्तं प्रख्यात बलपौरुषम्
युधि नानाप्रहरणा कपिसेनाभ्यवर्तत

6.045.040

अथ घोषः सुतुमुलो हरीणां समजायत
वृक्षान् आरुजतां चैव गुर्वीश् चागृह्णतां शिलाः

6.045.041

उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्
वेगितानां समर्थानाम् अन्योन्यवधकाङ्क्षिणाम्
परस्परं चाह्वयतां निनादः श्रूयते महान्

6.045.042

ततः प्रहस्तः कपिराजवाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः
विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc