भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.044

6.044.001

तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः
क्रोधम् आहारयाम् आस युधि तीव्रम् अकम्पनः

6.044.002

क्रोधमूर्छितरूपस् तु ध्नुवन् परमकार्मुकम्
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यम् अब्रवीत्

6.044.003

तत्रैव तावत् त्वरितं रथं प्रापय सारथे
एते ऽत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे

6.044.004

एते ऽत्र बलवन्तो हि भीमकायाश् च वानराः
द्रुमशैलप्रहरणास् तिष्ठन्ति प्रमुखे मम

6.044.005

एतान् निहन्तुम् इच्छामि समरश्लाघिनो ह्य् अहम्
एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम्

6.044.006

ततः प्रजविताश्वेन रथेन रथिनां वरः
हरीन् अभ्यहनत् क्रोधाच् छरजालैर् अकम्पनः

6.044.007

न स्थातुं वानराः शेकुः किं पुनर् योद्धुम् आहवे
अकम्पनशरैर् भग्नाः सर्व एव प्रदुद्रुवुः

6.044.008

तान् मृत्युवशम् आपन्नान् अकम्पनवशं गतान्
समीक्ष्य हनुमाञ् ज्ञातीन् उपतस्थे महाबलः

6.044.009

तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः
समेत्य समरे वीराः सहिताः पर्यवारयन्

6.044.010

व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः
बभूवुर् बलवन्तो हि बलवन्तम् उपाश्रिताः

6.044.011

अकम्पनस् तु शैलाभं हनूमन्तम् अवस्थितम्
महेन्द्र इव धाराभिः शरैर् अभिववर्ष ह

6.044.012

अचिन्तयित्वा बाणौघाञ् शरीरे पतिताञ् शितान्
अकम्पनवधार्थाय मनो दध्रे महाबलः

6.044.013

स प्रहस्य महातेजा हनूमान् मारुतात्मजः
अभिदुद्राव तद् रक्षः कम्पयन्न् इव मेदिनीम्

6.044.014

तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः

6.044.015

आत्मानं त्व् अप्रहरणं ज्ञात्वा क्रोधसमन्वितः
शैलम् उत्पाटयाम् आस वेगेन हरिपुंगवः

6.044.016

तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः
विनद्य सुमहानादं भ्रामयाम् आस वीर्यवान्

6.044.017

ततस् तम् अभिदुद्राव राक्षसेन्द्रम् अकम्पनम्
यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः

6.044.018

अकम्पनस् तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम्
दूराद् एव महाबाणैर् अर्धचन्द्रैर् व्यदारयत्

6.044.019

तत् पर्वताग्रम् आकाशे रक्षोबाणविदारितम्
विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूर्छितः

6.044.020

सो ऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः
तूर्णम् उत्पाटयाम् आस महागिरिम् इवोच्छ्रितम्

6.044.021

तं गृहीत्वा महास्कन्धं सो ऽश्वकर्णं महाद्युतिः
प्रहस्य परया प्रीत्या भ्रामयाम् आस संयुगे

6.044.022

प्रधावन्न् उरुवेगेन प्रभञ्जंस् तरसा द्रुमान्
हनूमान् परमक्रुद्धश् चरणैर् दारयत् क्षितिम्

6.044.023

गजांश् च सगजारोहान् सरथान् रथिनस् तथा
जघान हनुमान् धीमान् राक्षसांश् च पदातिकान्

6.044.024

तम् अन्तकम् इव क्रुद्धं समरे प्राणहारिणम्
हनूमन्तम् अभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः

6.044.025

तम् आपतन्तं संक्रुद्धं राक्षसानां भयावहम्
ददर्शाकम्पनो वीरश् चुक्रोध च ननाद च

6.044.026

स चतुर्दशभिर् बाणैः शितैर् देहविदारणैः
निर्बिभेद हनूमन्तं महावीर्यम् अकम्पनः

6.044.027

स तथा प्रतिविद्धस् तु बह्वीभिः शरवृष्टिभिः
हनूमान् ददृशे वीरः प्ररूढ इव सानुमान्

6.044.028

ततो ऽन्यं वृक्षम् उत्पाट्य कृत्वा वेगम् अनुत्तमम्
शिरस्य् अभिजघानाशु राक्षसेन्द्रम् अकम्पनम्

6.044.029

स वृक्षेण हतस् तेन सक्रोधेन महात्मना
राक्षसो वानरेन्द्रेण पपात स ममार च

6.044.030

तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रम् अकम्पनम्
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः

6.044.031

त्यक्तप्रहरणाः सर्वे राक्षसास् ते पराजिताः
लङ्काम् अभिययुस् त्रस्ता वानरैस् तैर् अभिद्रुताः

6.044.032

ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः
स्रवच्छ्रमजलैर् अङ्गैः श्वसन्तो विप्रदुद्रुवुः

6.044.033

अन्योन्यं प्रममन्तुस् ते विविशुर् नगरं भयात्
पृष्ठतस् ते सुसंमूढाः प्रेक्षमाणा मुहुर् मुहुः

6.044.034

तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः
समेत्य हरयः सर्वे हनूमन्तम् अपूजयन्

6.044.035

सो ऽपि प्रहृष्टस् तान् सर्वान् हरीन् संप्रत्यपूजयत्
हनूमान् सत्त्वसंपन्नो यथार्हम् अनुकूलतः

6.044.036

विनेदुश् च यथा प्राणं हरयो जितकाशिनः
चकर्षुश् च पुनस् तत्र सप्राणान् एव राक्षसान्

6.044.037

स वीरशोभाम् अभजन् महाकपिः समेत्य रक्षांसि निहत्य मारुतिः
महासुरं भीमम् अमित्रनाशनं यथैव विष्णुर् बलिनं चमूमुखे

6.044.038

अपूजयन् देवगणास् तदा कपिं स्वयं च रामो ऽतिबलश् च लक्ष्मणः
तथैव सुग्रीवमुखाः प्लवंगमा विभीषणश् चैव महाबलस् तदा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc