रामायण · अध्याय 6.043
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः
बलाध्यक्षम् उवाचेदं कृताञ्जलिम् उपस्थितम्
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः
अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम्
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः
रथम् आस्थाय विपुलं तप्तकाञ्चनकुण्डलः
राकसैः संवृतो घोरैस् तदा निर्यात्य् अकम्पनः
न हि कम्पयितुं शक्यः सुरैर् अपि महामृधे
अकम्पनस् ततस् तेषाम् आदित्य इव तेजसा
तस्य निधावमानस्य संरब्धस्य युयुत्सया
अकस्माद् दैन्यम् आगच्छद् धयानां रथवाहिनाम्
व्यस्फुरन् नयनं चास्य सव्यं युद्धाभिनन्दिनः
विवर्णो मुखवर्णश् च गद्गदश् चाभवत् स्वरः
अभवत् सुदिने चापि दुर्दिने रूक्षमारुतम्
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः
तान् उत्पातान् अचिन्त्यैव निर्जगाम रणाजिरम्
तदा निर्गच्छतस् तस्य रक्षसः सह राक्षसैः
बभूव सुमहान् नादः क्षोभयन्न् इव सागरम्
तेन शब्देन वित्रस्ता वानराणां महाचमूः
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत
तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्
रामरावणयोर् अर्थे समभित्यक्तजीविनाम्
सर्वे ह्य् अतिबलाः शूराः सर्वे पर्वतसंनिभाः
हरयो राक्षसाश् चैव परस्परजिघंसवः
तेषां विनर्दातां शब्दः संयुगे ऽतितरस्विनाम्
शुश्रुवे सुमहान् क्रोधाद् अन्योन्यम् अभिगर्जताम्
रजश् चारुणवर्णाभं सुभीमम् अभवद् भृशम्
उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना
संवृतानि च भूतानि ददृशुर् न रणाजिरे
न ध्वजो न पताकावा वर्म वा तुरगो ऽपि वा
आयुधं स्यन्दनं वापि ददृशे तेन रेणुना
शब्दश् च सुमहांस् तेषां नर्दताम् अभिधावताम्
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे
हरीन् एव सुसंक्रुद्धा हरयो जघ्नुर् आहवे
राक्षसाश् चापि रक्षांसि निजघ्नुस् तिमिरे तदा
परांश् चैव विनिघ्नन्तः स्वांश् च वानरराक्षसाः
रुधिरार्द्रं तदा चक्रुर् महीं पङ्कानुलेपनाम्
ततस् तु रुधिरौघेण सिक्तं व्यपगतं रजः
शरीरशवसंकीर्णा बभूव च वसुंधरा
द्रुमशक्तिशिलाप्रासैर् गदापरिघतोमरैः
हरयो राक्षसास् तूर्णं जघ्नुर् अन्योन्यम् ओजसा
बाहुभिः परिघाकारैर् युध्यन्तः पर्वतोपमाः
हरयो भीमकर्माणो राक्षसाञ् जघ्नुर् आहवे
राक्षसाश् चापि संक्रुद्धाः प्रासतोमरपाणयः
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः
हरयस् त्व् अपि रक्षांसि महाद्रुममहाश्मभिः
विदारयन्त्य् अभिक्रम्य शस्त्राण्य् आच्छिद्य वीर्यतः
एतस्मिन्न् अन्तरे वीरा हरयः कुमुदो नलः
मैन्दश् च परमक्रुद्धश् चक्रुर् वेगम् अनुत्तमम्
ते तु वृक्षैर् महावेगा राक्षसानां चमूमुखे
कदनं सुमह चक्रुर् लीलया हरियूथपाः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0