रामायण · अध्याय 6.042
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम्
विनेदुर् वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः
तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम्
अन्योन्यं पादपैर् घोरैर् निघ्नतं शूलमुद्गरैः
राक्षसैर् वानरा घोरा विनिकृत्ताः समन्ततः
वानरै राक्षसाश् चापि द्रुमैर् भूमौ समीकृताः
राक्षसाश् चापि संक्रुद्धा वानरान् निशितैः शरैः
विव्यधुर् घोरसंकाशैः कङ्कपत्रैर् अजिह्मगैः
ते गदाभिश् च भीमाभिः पट्टसैः कूटमुद्गरैः
घोरैश् च परिघैश् चित्रैस् त्रिशूलैश् चापि संशितैः
विदार्यमाणा रक्षोभिर् वानरास् ते महाबलाः
अमर्षाज् जनितोद्धर्षाश् चक्रुः कर्माण्य् अभीतवत्
शरनिर्भिन्नगात्रास् ते शूलनिर्भिन्नदेहिनः
जगृहुस् ते द्रुमांस् तत्र शिलाश् च हरियूथपाः
ते भीमवेगा हरयो नर्दमानास् ततस् ततः
ममन्थू राक्षसान् भीमान् नामानि च बभाषिरे
तद् बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्
शिलाभिर् विविधाभिश् च बहुशाखैश् च पादपैः
राक्षसा मथिताः के चिद् वानरैर् जितकाशिभिः
ववर्षू रुधिरं के चिन् मुखै रुधिरभोजनाः
पार्श्वेषु दारिताः के चित् के चिद् राशीकृता द्रुमैः
शिलाभिश् चूर्णिताः के चित् के चिद् दन्तैर् विदारिताः
ध्वजैर् विमथितैर् भग्नैः खरैश् च विनिपातितैः
रथैर् विध्वंसितैश् चापि पतितै रजनीचरैः
वानरैर् भीमविक्रान्तैर् आप्लुत्याप्लुत्य वेगितैः
राक्षसाः करजैस् तीक्ष्णैर् मुखेषु विनिकर्तिताः
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः
मूढाः शोणितगन्धेन निपेतुर् धरणीतले
नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः
तलैर् एवाभिधावन्ति वज्रस्पर्शसमैर् हरीन्
वनरैर् आपतन्तस् ते वेगिता वेगवत्तरैः
मुष्टिभिश् चरणैर् दन्तैः पादपैश् चापपोथिताः
सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्
प्रासैः प्रमथिताः के चिद् वानराः शोणितस्रवाः
मुद्गरैर् आहताः के चित् पतिता धरणीतले
परिघैर् मथितः के चिद् भिण्डिपालैर् विदारिताः
पट्टसैर् आहताः के चिद् विह्वलन्तो गतासवः
के चिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः
के चिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर् युधि
विभिन्नहृदयाः के चिद् एकपार्श्वेन शायिताः
विदारितास्त्रशूलै च के चिद् आन्त्रैर् विनिस्रुताः
तत् सुभीमं महद् युद्धं हरिराकस संकुलम्
प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्
मन्द्रस्तनितसंगीतं युद्धगान्धर्वम् आबभौ
धूम्राक्षस् तु धनुष्पाणिर् वानरान् रणमूर्धनि
हसन् विद्रावयाम् आस दिशस् ताञ् शरवृष्टिभिः
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः
अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्
क्रोधाद् द्विगुणताम्राक्षः पितृतुल्यपराक्रमः
शिलां तां पातयाम् आस धूम्राक्षस्य रथं प्रति
आपतन्तीं शिलां दृष्ट्वा गदाम् उद्यम्य संभ्रमात्
रथाद् आप्लुत्य वेगेन वसुधायां व्यतिष्ठत
सा प्रमथ्य रथं तस्य निपपात शिलाभुवि
सचक्रकूबरं साश्वं सध्वजं सशरासनम्
स भङ्क्त्वा तु रथं तस्य हनूमान् मारुतात्मजः
रक्षसां कदनं चक्रे सस्कन्धविटपैर् द्रुमैः
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः
द्रुमैः प्रमथिताश् चान्ये निपेतुर् धरणीतले
विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः
गिरेः शिखरम् आदाय धूम्राक्षम् अभिदुद्रुवे
तम् आपतन्तं धूम्राक्षो गदाम् उद्यम्य वीर्यवान्
विनर्दमानः सहसा हनूमन्तम् अभिद्रवत्
ततः क्रुद्धस् तु वेगेन गदां तां बहुकण्टकाम्
पातयाम् आस धूम्राक्षो मस्तके तु हनूमतः
ताडितः स तया तत्र गदया भीमरूपया
स कपिर् मारुतबलस् तं प्रहारम् अचिन्तयन्
धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गम् अपातयत्
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः
पपात सहसा भूमौ विकीर्ण इव पर्वतः
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः
त्रस्ताः प्रविविशुर् लङ्कां वध्यमानाः प्लवंगमैः
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश् च संविकीर्य
रिपुवधजनितश्रमो महात्मा मुदम् अगमत् कपिभिश् च पूज्यमानः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0