रामायण · अध्याय 6.041
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम्
सचिवानां ततस् तेषां मध्ये वचनम् अब्रवीत्
यथासौ संप्रहृष्टानां वानराणां समुत्थितः
बहूनां सुमहान् नादो मेघानाम् इव गर्जताम्
व्यक्तं सुमहती प्रीतिर् एतेषां नात्र संशयः
तथा हि विपुलैर् नादैश् चुक्षुभे वरुणालयः
तौ तु बद्धौ शरैस् तीष्क्णैर् भ्रातरौ रामलक्ष्मणौ
अयं च सुमहान् नादः शङ्कां जनयतीव मे
एतत् तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः
उवाच नैरृतांस् तत्र समीपपरिवर्तिनः
ज्ञायतां तूर्णम् एतषां सर्वेषां वनचारिणाम्
शोककाले समुत्पन्ने हर्षकारणम् उत्थितम्
तथोक्तास् तेन संभ्रान्ताः प्राकारम् अधिरुह्य ते
ददृशुः पालितां सेनां सुग्रीवेण महात्मना
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ
समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः
संत्रस्तहृदया सर्वे प्राकाराद् अवरुह्य ते
विषण्णवदनाः सर्वे राक्षसेन्द्रम् उपस्थिताः
तद् अप्रियं दीनमुखा रावणस्य निशाचराः
कृत्स्नं निवेदयाम् आसुर् यथावद् वाक्यकोविदाः
यौ ताव् इन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे
पाशान् इव गजौ छित्त्वा गजेन्द्रसमविक्रमौ
तच् छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः
चिन्ताशोकसमाक्रान्तो विषण्णवदनो ऽब्रवीत्
घोरैर् दत्तवरैर् बद्धौ शरैर् आशीविषोमपैः
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि
तम् अस्त्रबन्धम् आसाद्य यदि मुक्तौ रिपू मम
संशयस्थम् इदं सर्वम् अनुपश्याम्य् अहं बलम्
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः
आदत्तं यैस् तु संग्रामे रिपूणां मम जीवितम्
एवम् उक्त्वा तु संक्रुद्धो निश्वसन्न् उरगो यथा
अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राकसं
बलेन महता युक्तो रक्षसां भीमकर्मणाम्
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः
एवम् उक्तस् तु धूम्राक्षो राक्षसेन्द्रेण धीमता
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात्
अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षम् उवाच ह
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः
धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः
बलम् उद्योजयाम् आस रावणस्याज्ञया द्रुतम्
ते बद्धघण्टा बलिनो घोररूपा निशाचराः
विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन्
विविधायुधहस्ताश् च शूलमुद्गरपाणयः
गदाभिः पट्टसैर् दण्डैर् आयसैर् मुसलैर् भृशम्
परिघैर् भिण्डिपालैश् च भल्लैः प्रासैः परश्वधैः
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा
रथैः कवचिनस् त्व् अन्ये ध्वजैश् च समलंकृतैः
सुवर्णजालविहितैः खरैश् च विविधाननैः
हयैः परमशीघ्रैश् च गजेन्द्रैश् च मदोत्कटैः
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः
वृकसिंहमुखैर् युक्तं खरैः कनकभूषणैः
आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर् वृतः
प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन्
रथशीर्षे महाभीमो गृध्रश् च निपपात ह
ध्वजाग्रे ग्रथिताश् चैव निपेतुः कुणपाशनाः
रुधिरार्द्रो महाञ् श्वेतः कबन्धः पतितो भुवि
विस्वरं चोत्सृजन् नादं धूम्राक्षस्य समीपतः
ववर्ष रुधिरं देवः संचचाल च मेदिनी
प्रतिलोमं ववौ वायुर् निर्घातसमनिस्वनः
तिमिरौघावृतास् तत्र दिशश् च न चकाशिरे
स तूत्पातांस् ततो दृष्ट्वा राक्षसानां भयावहान्
प्रादुर्भूतान् सुघोरांश् च धूम्राक्षो व्यथितो ऽभवत्
ततः सुभीमो बहुभिर् निशाचरैर् वृतो ऽभिनिष्क्रम्य रणोत्सुको बली
ददर्श तां राघवबाहुपालितां समुद्रकल्पां बहुवानरीं चमूम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0