रामायण · अध्याय 6.040
अथोवाच महातेजा हरिराजो महाबलः
किम् इयं व्यथिता सेना मूढवातेव नौर् जले
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत्
न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम्
शरजालाचितौ वीराव् उभौ दशरथात्मजौ
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रम् अङ्गदम्
नानिमित्तम् इदं मन्ये भवितव्यं भयेन तु
विषण्णवदना ह्य् एते त्यक्तप्रहरणा दिशः
प्रपलायन्ति हरयस् त्रासाद् उत्फुल्ललोचनाः
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च
एतस्मिन्न् अन्तरे वीरो गदापाणिर् विभीषणः
सुग्रीवं वर्धयाम् आस राघवं च निरैक्षत
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्
ऋक्षराजं समीपस्थं जाम्बवन्तम् उवाच ह
विभीषणो ऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः
विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया
शीघ्रम् एतान् सुवित्रस्तान् बहुधा विप्रधावितान्
पर्यवस्थापयाख्याहि विभीषणम् उपस्थितम्
सुग्रीवेणैवम् उक्तस् तु जाम्बवान् ऋक्षपार्थिवः
वानरान् सान्त्वयाम् आस संनिवर्त्य प्रहावतः
ते निवृत्ताः पुनः सर्वे वानरास् त्यक्तसंभ्रमाः
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्
विभीषणस् तु रामस्य दृष्ट्वा गात्रं शरैश् चितम्
लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः
जलक्लिन्नेन हस्तेन तयोर् नेत्रे प्रमृज्य च
शोकसंपीडितमना रुरोद विललाप च
इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ
इमाम् अवस्थां गमितौ राकसैः कूटयोधिभिः
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना
राक्षस्या जिह्मया बुद्ध्या छलिताव् ऋजुविक्रमौ
शरैर् इमाव् अलं विद्धौ रुधिरेण समुक्षितौ
वसुधायाम् इम सुप्तौ दृश्येते शल्यकाव् इव
ययोर् वीर्यम् उपाश्रित्य प्रतिष्ठा काङ्क्षिता मया
ताव् उभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ
जीवन्न् अद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः
प्राप्तप्रतिज्ञश् च रिपुः सकामो रावणः कृतः
एवं विलपमानं तं परिष्वज्य विभीषणम्
सुग्रीवः सत्त्वसंपन्नो हरिराजो ऽब्रवीद् इदम्
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः
रावणः सह पुत्रेण स राज्यं नेह लप्स्यते
शरसंपीडिताव् एताव् उभौ राघवलक्ष्मणौ
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे
तम् एवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं
सुषेणं श्वशुरं पार्श्वे सुग्रीवस् तम् उवाच ह
सह शूरैर् हरिगणैर् लब्धसंज्ञाव् अरिंदमौ
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्
मैथिलीम् आनयिष्यामि शक्रो नष्टाम् इव श्रियम्
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यम् अब्रवीत्
देवासुरं महायुद्धम् अनुभूतं सुदारुणम्
तदा स्म दानवा देवाञ् शरसंस्पर्शकोविदाः
निजघ्नुः शस्त्रविदुषश् छादयन्तो मुहुर् मुहुः
तान् आर्तान् नष्टसंज्ञांश् च परासूंश् च बृहस्पतिः
विध्याभिर् मन्त्रयुक्ताभिर् ओषधीभिश् चिकित्सति
तान्य् औषधान्य् आनयितुं क्षीरोदं यान्तु सागरम्
जवेन वानराः शीघ्रं संपाति पनसादयः
हरयस् तु विजानन्ति पार्वती ते महौषधी
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्
चन्द्रश् च नाम द्रोणश् च पर्वतौ सागरोत्तमे
अमृतं यत्र मथितं तत्र ते परमौषधी
ते तत्र निहिते देवैः पर्वते परमौषधी
अयं वायुसुतो राजन् हनूमांस् तत्र गच्छतु
एतस्मिन्न् अन्तरे वायुर् मेघांश् चापि सविद्युतः
पर्यस्यन् सागरे तोयं कम्पयन्न् इव पर्वतान्
महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः
निपेतुर् भग्नविटपाः समूला लवणाम्भसि
अभवन् पन्नगास् त्रस्ता भोगिनस् तत्रवासिनः
शीघ्रं सर्वाणि यादांसि जग्मुश् च लवणार्णवम्
ततो मुहूर्तद् गरुडं वैनतेयं महाबलम्
वानरा ददृशुः सर्वे ज्वलन्तम् इव पावकम्
तम् आगतम् अभिप्रेक्ष्य नागास् ते विप्रदुद्रुवुः
यैस् तौ सत्पुरुषौ बद्धौ शरभूतैर् महाबलौ
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे
वैनतेयेन संस्पृष्टास् तयोः संरुरुहुर् व्रणाः
सुवर्णे च तनू स्निग्धे तयोर् आशु बभूवतुः
तेजो वीर्यं बलं चौज उत्साहश् च महागुणाः
प्रदर्शनं च बुद्धिश् च स्मृतिश् च द्विगुणं तयोः
ताव् उत्थाप्य महावीर्यौ गरुडो वासवोपमौ
उभौ तौ सस्वजे हृष्टौ रामश् चैनम् उवाच ह
भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत्
आवाम् इह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ
यथा तातं दशरथं यथाजं च पितामहम्
तथा भवन्तम् आसाद्य हृषयं मे प्रसीदति
को भवान् रूपसंपन्नो दिव्यस्रगनुलेपनः
वसानो विरजे वस्त्रे दिव्याभरणभूषितः
तम् उवाच महातेजा वैनतेयो महाबलः
पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः
गरुत्मान् इह संप्राप्तो युवयोः साह्यकारणात्
असुरा वा महावीर्या दानवा वा महाबलाः
सुराश् चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्
माया बलाद् इन्द्रजिता निर्मितं क्रूरकर्मणा
एते नागाः काद्रवेयास् तीक्ष्णदंष्ट्राविषोल्बणाः
रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः
सभाग्यश् चासि धर्मज्ञ राम सत्यपराक्रम
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहम् आगतः
सहसा युवयोः स्नेहात् सखित्वम् अनुपालयन्
मोक्षितौ च महाघोराद् अस्मात् सायकबन्धनात्
अप्रमादश् च कर्तव्यो युवाभ्यां नित्यम् एव हि
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः
शूराणां शुद्धभावानां भवताम् आर्जवं बलम्
तन् न विश्वसितव्यं वो राक्षसानां रणाजिरे
एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः
एवम् उक्त्वा ततो रामं सुपर्णः सुमहाबलः
परिष्वज्य सुहृत्स्निग्धम् आप्रष्टुम् उपचक्रमे
सखे राघव धर्मज्ञ रिपूणाम् अपि वत्सल
अभ्यनुज्ञातुम् इच्छामि गमिष्यामि यथागतम्
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः
रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे
इत्य् एवम् उक्त्वा वचनं सुपर्णः शीघ्रविक्रमः
रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम्
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्
जगामाकाशम् आविश्य सुपर्णः पवनो यथा
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः
सिंहनादांस् तदा नेदुर् लाङ्गूलं दुधुवुश् च ते
ततो भेरीः समाजघ्नुर् मृदङ्गांश् च व्यनादयन्
दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्य् अपि यथापुरम्
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः
द्रुमान् उत्पाट्य विविधांस् तस्थुः शतसहस्रशः
विसृजन्तो महानादांस् त्रासयन्तो निशाचरान्
लङ्काद्वाराण्य् उपाजग्मुर् योद्धुकामाः प्लवंगमाः
ततस् तु भीमस् तुमुलो निनादो बभूव शाखामृगयूथपानाम्
क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0