भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.039

6.039.001

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ

6.039.002

सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः

6.039.003

एतस्मिन्न् अन्तेरे रामः प्रत्यबुध्यत वीर्यवान्
स्थिरत्वात् सत्त्वयोगाच् च शरैः संदानितो ऽपि सन्

6.039.004

ततो दृष्ट्वा सरुधिरं विषण्णं गाढम् अर्पितम्
भ्रातरं दीनवदनं पर्यदेवयद् आतुरः

6.039.005

किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा
शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम्

6.039.006

शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता
न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः

6.039.007

परित्यक्ष्याम्य् अहं प्राणान् वानराणां तु पश्यताम्
यदि पञ्चत्वम् आपन्नः सुमित्रानन्दवर्धनः

6.039.008

किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्
कथम् अम्बां सुमित्रांच पुत्रदर्शनलालसाम्

6.039.009

विवत्सां वेपमानां च क्रोशन्तीं कुररीम् इव
कथम् आश्वासयिष्यामि यदि यास्यामि तं विना

6.039.010

कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्
मया सह वनं यातो विना तेनागतः पुनः

6.039.011

उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया
इहैव देहं त्यक्ष्यामि न हि जीवितुम् उत्सहे

6.039.012

धिङ् मां दुष्कृतकर्माणम् अनार्यं यत्कृते ह्य् असौ
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत्

6.039.013

त्वं नित्यं सुविषण्णं माम् आश्वासयसि लक्ष्मण
गतासुर् नाद्य शक्नोषि माम् आर्तम् अभिभाषितुम्

6.039.014

येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ
तस्याम् एव क्षितौ वीरः स शेते निहतः परैः

6.039.015

शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः
शरजालैश् चितो भाति भास्करो ऽस्तम् इव व्रजन्

6.039.016

बाणाभिहतमर्मत्वान् न शक्नोत्य् अभिवीक्षितुम्
रुजा चाब्रुवतो ह्य् अस्य दृष्टिरागेण सूच्यते

6.039.017

यथैव मां वनं यान्तम् अनुयातो महाद्युतिः
अहम् अप्य् अनुयास्यामि तथैवैनं यमक्षयम्

6.039.018

इष्टबन्धुजनो नित्यं मां च नित्यम् अनुव्रतः
इमाम् अद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः

6.039.019

सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे
परुषं विप्रियं वापि श्रावितं न कदा चन

6.039.020

विससर्जैकवेगेन पञ्चबाणशतानि यः
इष्वस्त्रेष्व् अधिकस् तस्मात् कार्तवीर्याच् च लक्ष्मणः

6.039.021

अस्त्रैर् अस्त्राणि यो हन्याच् छक्रस्यापि महात्मनः
सो ऽयम् उर्व्यांहतः शेते महार्हशयनोचितः

6.039.022

तच् च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः
यन् मया न कृतो राजा राक्षसानां विभीषणः

6.039.023

अस्मिन् मुहूर्ते सुग्रीव प्रतियातुम् इतो ऽर्हसि
मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद् बली

6.039.024

अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः
सागरं तर सुग्रीव पुनस् तेनैव सेतुना

6.039.025

कृतं हनुमता कार्यं यद् अन्यैर् दुष्करं रणे
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च

6.039.026

अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च
युद्धं केसरिणा संख्ये घोरं संपातिना कृतम्

6.039.027

गवयेन गवाक्षेण शरभेण गजेन च
अन्यैश् च हरिभिर् युद्धं मदार्थे त्यक्तजीवितैः

6.039.028

न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः
यत् तु शक्यं वयस्येन सुहृदा वा परंतप
कृतं सुग्रीव तत् सर्वं भवताधर्मभीरुणा

6.039.029

मित्रकार्यं कृतम् इदं भवद्भिर् वानरर्षभाः
अनुज्ञाता मया सर्वे यथेष्टं गन्तुम् अर्हथ

6.039.030

शुश्रुवुस् तस्य ते सर्वे वानराः परिदेवितम्
वर्तयां चक्रुर् अश्रूणि नेत्रैः कृष्णेतरेक्षणाः

6.039.031

ततः सर्वाण्य् अनीकानि स्थापयित्वा विभीषणः
आजगाम गदापाणिस् त्वरितो यत्र राघवः

6.039.032

तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्
वानरा दुद्रुवुः सर्वे मन्यमानास् तु रावणिम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc