भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.038

6.038.001

भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्
विललाप भृशं सीता करुणं शोककर्शिता

6.038.002

ऊचुर् लक्षणिका ये मां पुत्रिण्य् अविधवेति च
ते ऽस्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः

6.038.003

यज्वनो महिषीं ये माम् ऊचुः पत्नीं च सत्रिणः
ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः

6.038.004

वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः
ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः

6.038.005

ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्
ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः

6.038.006

इमानि खलु पद्मानि पादयोर् यैः किल स्त्रियः
अधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह

6.038.007

वैधव्यं यान्ति यैर् नार्यो ऽलक्षणैर् भाग्यदुर्लभाः
नात्मनस् तानि पश्यामि पश्यन्ती हतलक्षणा

6.038.008

सत्यानीमानि पद्मानि स्त्रीणाम् उक्त्वानि लक्षणे
तान्य् अद्य निहते रामे वितथानि भवन्ति मे

6.038.009

केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम
वृत्ते चालोमशे जङ्घे दन्ताश् चाविरला मम

6.038.010

शङ्खे नेत्रे करौ पादौ गुल्फाव् ऊरू च मे चितौ
अनुवृत्ता नखाः स्निग्धाः समाश् चाङ्गुलयो मम

6.038.011

स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ
मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम्

6.038.012

मम वर्णो मणिनिभो मृदून्य् अङ्गरुहाणि च
प्रतिष्ठितां द्वदशभिर् माम् ऊचुः शुभलक्षणाम्

6.038.013

समग्रयवम् अच्छिद्रं पाणिपादं च वर्णवत्
मन्दस्मितेत्य् एव च मां कन्यालक्षणिका विदुः

6.038.014

अधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह
कृतान्तकुशलैर् उक्तं तत् सर्वं वितथीकृतम्

6.038.015

शोधयित्वा जनस्थानं प्रवृत्तिम् उपलभ्य च
तीर्त्वा सागरम् अक्षोभ्यं भ्रातरौ गोष्पदे हतौ

6.038.016

ननु वारुणम् आग्नेयम् ऐन्द्रं वायव्यम् एव च
अस्त्रं ब्रह्मशिरश् चैव राघवौ प्रत्यपद्यताम्

6.038.017

अदृश्यमानेन रणे मायया वासवोपमौ
मम नाथाव् अनाथाया निहतौ रामलक्ष्मणौ

6.038.018

न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः
जीवन् प्रतिनिवर्तेत यद्य् अपि स्यान् मनोजवः

6.038.019

न कालस्यातिभारो ऽस्ति कृतान्तश् च सुदुर्जयः
यत्र रामः सह भ्रात्रा शेते युधि निपाथितः

6.038.020

नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम्
नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम्

6.038.021

सा हि चिन्तयते नित्यं समाप्तव्रतम् आगतम्
कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम्

6.038.022

परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्
मा विषादं कृथा देवि भर्तायं तव जीवति

6.038.023

कारणानि च वक्ष्यामि महान्ति सदृशानि च
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ

6.038.024

न हि कोपपरीतानि हर्षपर्युत्सुकानि च
भवन्ति युधि योधानां मुखानि निहते पतौ

6.038.025

इदं विमानं वैदेहि पुष्पकं नाम नामतः
दिव्यं त्वां धारयेन् नेदं यद्य् एतौ गजजीवितौ

6.038.026

हतवीरप्रधाना हि हतोत्साहा निरुद्यमा
सेना भ्रमति संख्येषु हतकर्णेव नौर् जले

6.038.027

इयं पुनर् असंभ्रान्ता निरुद्विग्ना तरस्विनी
सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे

6.038.028

सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः
अहतौ पश्य काकुत्स्थौ स्नेहाद् एतद् ब्रवीमि ते

6.038.029

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन
चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम

6.038.030

नेमौ शक्यौ रणे जेतुं सेन्द्रैर् अपि सुरासुरैः
एतयोर् आननं दृष्ट्वा मया चावेदितं तव

6.038.031

इदं च सुमहच् चिह्नं शनैः पश्यस्व मैथिलि
निःसंज्ञाव् अप्य् उभाव् एतौ नैव लक्ष्मीर् वियुज्यते

6.038.032

प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्

6.038.033

त्यज शोकं च दुःखं च मोहं च जनकात्मजे
रामलक्ष्मणयोर् अर्थे नाद्य शक्यम् अजीवितुम्

6.038.034

श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा
कृताञ्जलिर् उवाचेदम् एवम् अस्त्व् इति मैथिली

6.038.035

विमानं पुष्पकं तत् तु समिवर्त्य मनोजवम्
दीना त्रिजटया सीता लङ्काम् एव प्रवेशिता

6.038.036

ततस् त्रिजटया सार्धं पुष्पकाद् अवरुह्य सा
अशोकवनिकाम् एव रक्षसीभिः प्रवेशिता

6.038.037

प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम्
संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc