रामायण · अध्याय 6.031
अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः
लक्ष्मणं लक्ष्मिसंपन्नम् इदं वचनम् अब्रवीत्
परिगृह्योदकं शीतं वनानि फलवन्ति च
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण
लोकक्षयकरं भीमं भयं पश्याम्य् उपस्थितम्
निबर्हणं प्रवीराणाम् ऋक्षवानररक्षसाम्
वाताश् च परुषं वान्ति कम्पते च वसुंधरा
पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः
रक्तचन्दनसंकाशा संध्यापरमदारुणा
ज्वलच् च निपतत्य् एतद् आदित्याद् अग्निमण्डलम्
आदित्यम् अभिवाश्यन्ते जनयन्तो महद् भयम्
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
रजन्याम् अप्रकाशश् च संतापयति चन्द्रमाः
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये
ह्रस्वो रूक्षो ऽप्रशस्तश् च परिवेषः सुलोहितः
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते
दृश्यन्ते न यथावच् च नक्षत्राण्य् अभिवर्तते
युगान्तम् इव लोकस्य पश्य लक्ष्मण शंसति
काकाः श्येनास् तथा गृध्रा नीचैः परिपतन्ति च
शिवाश् चाप्य् अशिवा वाचः प्रवदन्ति महास्वनाः
क्षिप्रम् अद्य दुराधर्षां पुरीं रावणपालिताम्
अभियाम जवेनैव सर्वतो हरिभिर् वृताः
इत्य् एवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः
तस्माद् अवातरच् छीघ्रं पर्वताग्रान् महाबलः
अवतीर्य तु धर्मात्मा तस्माच् छैलात् स राघवः
परैः परमदुर्धर्षं ददर्श बलम् आत्मनः
संनह्य तु ससुग्रीवः कपिराजबलं महत्
कालज्ञो राघवः काले संयुगायाभ्यचोदयत्
ततः काले महाबाहुर् बलेन महता वृतः
प्रस्थितः पुरतो धन्वी लङ्काम् अभिमुखः पुरीम्
तं विभीषण सुग्रीवौ हनूमाञ् जाम्बवान् नलः
ऋक्षराजस् तथा नीलो लक्ष्मणश् चान्ययुस् तदा
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम्
प्रच्छाद्य महतीं भूमिम् अनुयाति स्म राघवम्
शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहाम्
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
तौ त्व् अदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ
रावणस्य पुरीं लङ्काम् आसेदतुर् अरिंदमौ
पताकामालिनीं रम्याम् उद्यानवनशोभिताम्
चित्रवप्रां सुदुष्प्रापाम् उच्चप्राकारतोरणाम्
तां सुरैर् अपि दुर्धर्षां रामवाक्यप्रचोदिताः
यथानिदेशं संपीड्य न्यविशन्त वनौकसः
लङ्कायास् तूत्तरद्वारं शैलशृङ्गम् इवोन्नतम्
रामः सहानुजो धन्वी जुगोप च रुरोध च
लङ्काम् उपनिविष्टश् च रामो दशरथात्मजः
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
उत्तरद्वारम् आसाद्य यत्र तिष्ठति रावणः
नान्यो रामाद् धि तद् द्वारं समर्थः परिरक्षितुम्
रावणाधिष्ठितं भीमं वरुणेनेव सागरम्
सायुधौ राक्षसैर् भीमैर् अभिगुप्तं समन्ततः
लघूनां त्रासजननं पातालम् इव दानवैः
विन्यस्तानि च योधानां बहूनि विविधानि च
ददर्शायुधजालानि तथैव कवचानि च
पूर्वं तु द्वारम् आसाद्य नीलो हरिचमूपतिः
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान्
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः
ऋषभेण गवाक्षेण गजेन गवयेन च
हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः
प्रमाथि प्रघसाभ्यां च वीरैर् अन्यैश् च संगतः
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत
सह सर्वैर् हरिश्रेष्ठैः सुपर्णश्वसनोपमैः
वानराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः
निपीड्योपनिविष्टाश् च सुग्रीवो यत्र वानरः
शासनेन तु रामस्य लक्ष्मणः सविभीषणः
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत्
पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान्
अदूरान् मध्यमे गुल्मे तस्थौ बहुबलानुगः
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः
गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
दशनागबलाः के चित् के चिद् दशगुणोत्तराः
के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः
सन्ति चौघा बलाः के चित् के चिच् छतगुणोत्तराः
अप्रमेयबलाश् चान्ये तत्रासन् हरियूथपाः
अद्भुतश् च विचित्रश् च तेषाम् आसीत् समागमः
तत्र वानरसैन्यानां शलभानाम् इवोद्गमः
परिपूर्णम् इवाकाशं संछन्नेव च मेदिनी
लङ्काम् उपनिविष्टैश् च संपतद्भिश् च वानरैः
शतं शतसहस्राणां पृथग् ऋक्षवनौकसाम्
लङ्का द्वाराण्य् उपाजग्मुर् अन्ये योद्धुं समन्ततः
आवृतः स गिरिः सर्वैस् तैः समन्तात् प्लवंगमैः
अयुतानां सहस्रं च पुरीं ताम् अभ्यवर्तत
वानरैर् बलवद्भिश् च बभूव द्रुमपाणिभिः
सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः
वानरैर् मेघसंकाशैः शक्रतुल्यपराक्रमैः
महाञ् शब्दो ऽभवत् तत्र बलौघस्याभिवर्ततः
सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः
तेन शब्देन महता सप्राकारा सतोरणा
लङ्का प्रचलिता सर्वा सशैलवनकानना
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
बभूव दुर्धर्षतरा सर्वैर् अपि सुरासुरैः
राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे
संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः
आनन्तर्यम् अभिप्रेप्सुः क्रमयोगार्थतत्त्ववित्
विभीषणस्यानुमते राजधर्मम् अनुस्मरन्
अङ्गदं वालितनयं समाहूयेदम् अब्रवीत्
गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः
भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा
नागानाम् अथ यक्षाणां राज्ञां च रजनीचर
यच् च पापं कृतं मोहाद् अवलिप्तेन राक्षस
नूनम् अद्य गतो दर्पः स्वयम्भू वरदानजः
यस्य दण्डधरस् ते ऽहं दाराहरणकर्शितः
दण्डं धारयमाणस् तु लङ्काद्वरे व्यवस्थितः
पदवीं देवतानां च महर्षीणां च राक्षस
राजर्षीणां च सर्वेषां गमिष्यसि मया हतः
बलेन येन वै सीतां मायया राक्षसाधम
माम् अतिक्रामयित्वा त्वं हृतवांस् तद् विदर्शय
अराक्षसम् इमं लोकं कर्तास्मि निशितैः शरैः
न चेच् छरणम् अभ्येषि माम् उपादाय मैथिलीम्
धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तो ऽयं विभीषणः
लङ्कैश्वर्यं ध्रुवं श्रीमान् अयं प्राप्नोत्य् अकण्टकम्
न हि राज्यम् अधर्मेण भोक्तुं क्षणम् अपि त्वया
शक्यं मूर्खसहायेन पापेनाविजितात्मना
युध्यस्व वा धृतिं कृत्वा शौर्यम् आलम्ब्य राक्षस
मच्छरैस् त्वं रणे शान्तस् ततः पूतो भविष्यसि
यद्य् आविशसि लोकांस् त्रीन् पक्षिभूतो मनोजवः
मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि
ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदेकिकम्
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्
इत्य् उक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा
जगामाकाशम् आविश्य मूर्तिमान् इव हव्यवाट्
सो ऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्
ददर्शासीनम् अव्यग्रं रावणं सचिवैः सह
ततस् तस्याविदूरेण निपत्य हरिपुंगवः
दीप्ताग्निसदृशस् तस्थाव् अङ्गदः कनकाङ्गदः
तद् रामवचनं सर्वम् अन्यूनाधिकम् उत्तमम्
सामात्यं श्रावयाम् आस निवेद्यात्मानम् आत्मना
दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रम् आगतः
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः
निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्
निरुद्विग्नास् त्रयो लोका भविष्यन्ति हते त्वयि
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
शत्रुम् अद्योद्धरिष्यामि त्वाम् ऋषीणां च कण्टकम्
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि
न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि
इत्य् एवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे
अमर्षवशम् आपन्नो निशाचरगणेश्वरः
ततः स रोषताम्राक्षः शशास सचिवांस् तदा
गृह्यताम् एष दुर्मेधा वध्यताम् इति चासकृत्
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः
जगृहुस् तं ततो घोराश् चत्वारो रजनीचराः
ग्राहयाम् आस तारेयः स्वयम् आत्मानम् आत्मना
बलं दर्शयितुं वीरो यातुधानगणे तदा
स तान् बाहुद्वये सक्तान् आदाय पतगान् इव
प्रासादं शैलसंकाशम् उत्पापाताङ्गदस् तदा
ते ऽन्तरिक्षाद् विनिर्धूतास् तस्य वेगेन राक्षसाः
भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः
ततः प्रासादशिखरं शैलशृङ्गम् इवोन्नतम्
तत् पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः
विनद्य सुमहानादम् उत्पपात विहायसा
रावणस् तु परं चक्रे क्रोधं प्रासादधर्षणात्
विनाशं चात्मनः पश्यन् निःश्वासपरमो ऽभवत्
रामस् तु बहुभिर् हृष्टैर् निनदद्भिः प्लवंगमैः
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत
सुषेणस् तु महावीर्यो गिरिकूटोपमो हरिः
बहुभिः संवृतस् तत्र वानरैः कामरूपिभिः
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः
पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः
तेषाम् अक्षौहिणिशतं समवेक्ष्य वनौकसाम्
लङ्काम् उपनिविष्टानां सागरं चातिवर्तताम्
राक्षसा विस्मयं जग्मुस् त्रासं जग्मुस् तथापरे
अपरे समरोद्धर्षाद् धर्षम् एवोपपेदिरे
कृत्स्नं हि कपिभिर् व्याप्तं प्राकारपरिखान्तरम्
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम्
प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0