रामायण · अध्याय 6.030
तां रात्रिम् उषितास् तत्र सुवेले हरिपुंगवाः
लङ्कायां ददृशुर् वीरा वनान्य् उपवनानि च
समसौम्यानि रम्याणि विशालान्य् आयतानि च
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर् जातविस्मयाः
चम्पकाशोकपुंनागसालतालसमाकुला
तमालवनसंछन्ना नागमालासमावृता
हिन्तालैर् अर्जुनैर् नीपैः सप्तपर्णैश् च पुष्पितैः
तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः
शुशुभे पुष्पिताग्रैश् च लतापरिगतैर् द्रुमैः
लङ्का बहुविधैर् दिव्यैर् यथेन्द्रस्यामरावती
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः
शाद्वलैश् च तथा नीलैश् चित्राभिर् वनराजिभिः
गन्धाढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च
धारयन्त्य् अगमास् तत्र भूषणानीव मानवाः
तच् चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्
नत्यूहकोयष्टिभकैर् नृत्यमानैश् च बर्हिभिः
रुतं परभृतानां च शुश्रुवे वननिर्झरे
नित्यमत्तविहंगानि भ्रमराचरितानि च
कोकिलाकुलषण्डानि विहगाभिरुतानि च
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च
कोणालकविघुष्टानि सारसाभिरुतानि च
विविशुस् ते ततस् तानि वनान्य् उपवनानि च
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः
तेषां प्रविशतां तत्र वानराणां महौजसाम्
पुष्पसंसर्गसुरभिर् ववौ घ्राणसुखो ऽनिलः
अन्ये तु हरिवीराणां यूथान् निष्क्रम्य यूथपाः
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्
वित्रासयन्तो विहगांस् त्रासयन्तो मृगद्विपान्
कम्पयन्तश् च तां लङ्कां नादैः स्वैर् नदतां वराः
कुर्वन्तस् ते महावेगा महीं चारणपीडिताम्
रजश् च सहसैवोर्ध्वं जगाम चरणोद्धतम्
ऋक्षाः सिंहा वराहाश् च महिषा वारणा मृगाः
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्
समन्तात् पुष्पसंछन्नं महारजतसंनिभम्
शतयोजनविस्तीर्णं विमलं चारुदर्शनम्
श्लक्ष्णं श्रीमन् महच् चैव दुष्प्रापं शकुनैर् अपि
मनसापि दुरारोहं किं पुनः कर्मणा जनैः
निविष्टा तत्र शिखरे लङ्का रावणपालिता
सा पुरी गोपुरैर् उच्चैः पाण्डुराम्बुदसंनिभैः
काञ्चनेन च सालेन राजतेन च शोभिता
प्रासादैश् च विमानैश् च लङ्का परमभूषिता
घनैर् इवातपापाये मध्यमं वैष्णवं पदम्
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः
कैलासशिखराकारो दृश्यते खम् इवोल्लिखन्
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
तां समृद्धां समृद्धार्थो लक्ष्मीवांल् लक्ष्मणाग्रजः
रावणस्य पुरीं रामो ददर्श सह वानरैः
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिर् अलंकृतां च
पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0