भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.029

6.029.001

स तु कृत्वा सुवेलस्य मतिम् आरोहणं प्रति
लक्ष्मणानुगतो रामः सुग्रीवम् इदम् अब्रवीत्

6.029.002

विभीषणं च धर्मज्ञम् अनुरक्तं निशाचरम्
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा

6.029.003

सुवेलं साधु शैलेन्द्रम् इमं धातुशतैश् चितम्
अध्यारोहामहे सर्वे वत्स्यामो ऽत्र निशाम् इमाम्

6.029.004

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः
येन मे मरणान्ताय हृता भार्या दुरात्मना

6.029.005

येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम्

6.029.006

यस्मिन् मे वर्धते रोषः कीर्तिते राक्षसाधमे
यस्यापराधान् नीचस्य वधं द्रक्ष्यामि रक्षसाम्

6.029.007

एको हि कुरुते पापं कालपाशवशं गतः
नीचेनात्मापचारेण कुलं तेन विनश्यति

6.029.008

एवं संमन्त्रयन्न् एव सक्रोधो रावणं प्रति
रामः सुवेलं वासाय चित्रसानुम् उपारुहत्

6.029.009

पृष्ठतो लक्ष्मण चैनम् अन्वगच्छत् समाहितः
सशरं चापम् उद्यम्य सुमहद् विक्रमे रतः

6.029.010

तम् अन्वरोहत् सुग्रीवः सामात्यः सविभीषणः
हनूमान् अङ्गदो नीलो मैन्दो द्विविद एव च

6.029.011

गजो गवाक्षो गवयः शरभो गन्धमादनः
पनसः कुमुदश् चैव हरो रम्भश् च यूथपः

6.029.012

एते चान्ये च बहवो वानराः शीघ्रगामिनः
ते वायुवेगप्रवणास् तं गिरिं गिरिचारिणः
अध्यारोहन्त शतशः सुवेलं यत्र राघवः

6.029.013

ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतः
ददृशुः शिखरे तस्य विषक्ताम् इव खे पुरीम्

6.029.014

तां शुभां प्रवरद्वारां प्राकारवरशोभिताम्
लङ्कां राक्षससंपूर्णां ददृशुर् हरियूथपाः

6.029.015

प्राकारचयसंस्थैश् च तथा नीलैर् निशाचरैः
ददृशुस् ते हरिश्रेष्ठाः प्राकारम् अपरं कृतम्

6.029.016

ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पश्यतः

6.029.017

ततो ऽस्तम् अगमत् सूर्यः संध्यया प्रतिरञ्जितः
पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते

6.029.018

ततः स रामो हरिवाहिनीपतिर् विभीषणेन प्रतिनन्द्य सत्कृतः
सलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद् यथासुखम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc