रामायण · अध्याय 6.028
नरवानरराजौ तौ स च वायुसुतः कपिः
जाम्बवान् ऋक्षराजश् च राक्षसश् च विभीषणः
अङ्गदो वालिपुत्रश् च सौमित्रिः शरभः कपिः
सुषेणः सहदायादो मैन्दो द्विविद एव च
गजो गवाक्षो कुमुदो नलो ऽथ पनसस् तथा
अमित्रविषयं प्राप्ताः समवेताः समर्थयन्
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता
सासुरोरगगन्धर्वैर् अमरैर् अपि दुर्जया
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये
नित्यं संनिहितो ह्य् अत्र रावणो राक्षसाधिपः
तथा तेषु ब्रुवाणेषु रावणावरजो ऽब्रवीत्
वाक्यम् अग्राम्यपदवत् पुष्कलार्थं विभीषणः
अनलः शरभश् चैव संपातिः प्रघसस् तथा
गत्वा लङ्कां ममामात्याः पुरीं पुनर् इहागताः
भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर् बलम्
विधानं विहितं यच् च तद् दृष्ट्वा समुपस्थिताः
संविधानं यथाहुस् ते रावणस्य दुरात्मनः
राम तद् ब्रुवतः सर्वं यथातथ्येन मे शृणु
पूर्वं प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ
इन्द्रजित् पश्चिमद्वारं राक्षसैर् बहुभिर् वृतः
पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः
नानाप्रहरणैः शूरैर् आवृतो रावणात्मजः
राक्षसानां सहस्रैस् तु बहुभिः शस्त्रपाणिभिः
युक्तः परमसंविग्नो राक्षसैर् बहुभिर् वृतः
उत्तरं नगरद्वारं रावणः स्वयम् आस्थितः
विरूपाक्षस् तु महता शूलखड्गधनुष्मता
बलेन राक्षसैः सार्धं मध्यमं गुल्मम् आस्थितः
एतान् एवंविधान् गुल्मांल् लङ्कायां समुदीक्ष्य ते
मामकाः सचिवाः सर्वे शीघ्रं पुनर् इहागताः
गजानां च सहस्रं च रथानाम् अयुतं पुरे
हयानाम् अयुते द्वे च साग्रकोटी च रक्षसाम्
विक्रान्ता बलवन्तश् च संयुगेष्व् आततायिनः
इष्टा राक्षसराजस्य नित्यम् एते निशाचराः
एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते
परिवारः सहस्राणां सहस्रम् उपतिष्ठते
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः
रामं कमलपत्राक्षम् इदम् उत्तरम् अब्रवीत्
कुबेरं तु यदा राम रावणः प्रत्ययुध्यत
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः
पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्
सदृशा यो ऽत्र दर्पेण रावणस्य दुरात्मनः
अत्र मन्युर् न कर्तव्यो रोषये त्वां न भीषये
समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे
तद् भवांश् चतुरङ्गेण बलेन महता वृतः
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्
रावणावरजे वाक्यम् एवं ब्रुवति राघवः
शत्रूणां प्रतिघातार्थम् इदं वचनम् अब्रवीत्
पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः
प्रहस्तं प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः
अङ्गदो वालिपुत्रस् तु बलेन महता वृतः
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ
हनूमान् पश्चिमद्वारं निपीड्य पवनात्मजः
प्रविशत्व् अप्रमेयात्मा बहुभिः कपिभिर् वृतः
दैत्यदानवसंघानाम् ऋषीणां च महात्मनाम्
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः
परिक्रामति यः सर्वांल् लोकान् संतापयन् प्रजाः
तस्याहं राक्षसेन्द्रस्य स्वयम् एव वधे धृतः
उत्तरं नगरद्वारम् अहं सौमित्रिणा सह
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः
वानरेन्द्रश् च बलवान् ऋक्षराजश् च जाम्बवान्
राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे
न चैव मानुषं रूपं कार्यं हरिभिर् आहवे
एषा भवतु नः संज्ञा युद्धे ऽस्मिन् वानरे बले
वानरा एव निश्चिह्नं स्वजने ऽस्मिन् भविष्यति
वयं तु मानुषेणैव सप्त योत्स्यामहे परान्
अहम् एव सह भ्रात्रा लक्ष्मणेन महौजसा
आत्मना पञ्चमश् चायं सखा मम विभीषणः
स रामः कार्यसिद्ध्यर्थम् एवम् उक्त्वा विभीषणम्
सुवेलारोहणे बुद्धिं चकार मतिमान् मतिम्
ततस् तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा
प्रहृष्टरूपो ऽभिजगाम लङ्कां कृत्वा मतिं सो ऽरिवधे महात्मा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0