भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.027

6.027.001

तत् तु माल्यवतो वाक्यं हितम् उक्तं दशाननः
न मर्षयति दुष्टात्मा कालस्य वशम् आगतः

6.027.002

स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशम् आगतः
अमर्षात् परिवृत्ताक्षो माल्यवन्तम् अथाब्रवीत्

6.027.003

हितबुद्ध्या यद् अहितं वचः परुषम् उच्यते
परपक्षं प्रविश्यैव नैतच् छ्रोत्रगतं मम

6.027.004

मानुषं कृपणं रामम् एकं शाखामृगाश्रयम्
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्

6.027.005

रक्षसाम् ईश्वरं मां च देवतानां भयंकरम्
हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः

6.027.006

वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः
त्वयाहं परुषाण्य् उक्तः परप्रोत्साहनेन वा

6.027.007

प्रभवन्तं पदस्थं हि परुषं को ऽभिधास्यति
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद् रिपोः

6.027.008

आनीय च वनात् सीतां पद्महीनाम् इव श्रियम्
किमर्थं प्रतिदास्यामि राघवस्य भयाद् अहम्

6.027.009

वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्
पश्य कैश् चिद् अहोभिस् त्वं राघवं निहतं मया

6.027.010

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि संयुगे
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति

6.027.011

द्विधा भज्येयम् अप्य् एवं न नमेयं तु कस्य चित्
एष मे सहजो दोषः स्वभावो दुरतिक्रमः

6.027.012

यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्छया
रामेण विस्मयः को ऽत्र येन ते भयम् आगतम्

6.027.013

स तु तीर्त्वार्णवं रामः सह वानरसेनया
प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति

6.027.014

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्
व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत

6.027.015

जयाशिषा च राजानं वर्धयित्वा यथोचितम्
माल्यवान् अभ्यनुज्ञातो जगाम स्वं निवेशनम्

6.027.016

रावणस् तु सहामात्यो मन्त्रयित्वा विमृश्य च
लङ्कायाम् अतुलां गुप्तिं कारयाम् आस राक्षसः

6.027.017

व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं
दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ

6.027.018

पश्चिमायाम् अथो द्वारि पुत्रम् इन्द्रजितं तथा
व्यादिदेश महामायं राक्षसैर् बहुभिर् वृतम्

6.027.019

उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ
स्वयं चात्र भविष्यामि मन्त्रिणस् तान् उवाच ह

6.027.020

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्
मध्यमे ऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः

6.027.021

एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः
मेने कृतार्थम् आत्मानं कृतान्तवशम् आगतः

6.027.022

विसर्जयाम् आस ततः स मन्त्रिणो विधानम् आज्ञाप्य पुरस्य पुष्कलम्
जयाशिषा मन्त्रगणेन पूजितो विवेश सो ऽन्तःपुरम् ऋद्धिमन् महत्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc