भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.026

6.026.001

तेन शङ्खविमिश्रेण भेरीशब्देन राघवः
उपयतो महाबाहू रामः परपुरंजयः

6.026.002

तं निनादं निशम्याथ रावणो राक्षसेश्वरः
मुहूर्तं ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत

6.026.003

अथ तान् सचिवांस् तत्र सर्वान् आभाष्य रावणः
सभां संनादयन् सर्वाम् इत्य् उवाच महाबलः

6.026.004

तरणं सागरस्यापि विक्रमं बलसंचयम्
यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम्
भवतश् चाप्य् अहं वेद्मि युद्धे सत्यपराक्रमान्

6.026.005

ततस् तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः
रावणस्य वचः श्रुत्वा मातुः पैतामहो ऽब्रवीत्

6.026.006

विद्यास्व् अभिविनीतो यो राजा राजन् नयानुगः
स शास्ति चिरम् ऐश्वर्यम् अरींश् च कुरुते वशे

6.026.007

संदधानो हि कालेन विगृह्णंश् चारिभिः सह
स्वपक्षवर्धनं कुर्वन् महद् ऐश्वर्यम् अश्नुते

6.026.008

हीयमानेन कर्तव्यो राज्ञा संधिः समेन च
न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम्

6.026.009

तन् मह्यं रोचते संधिः सह रामेण रावण
यदर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम्

6.026.010

तस्य देवर्षयः सर्वे गन्धर्वाश् च जयैषिणः
विरोधं मा गमस् तेन संधिस् ते तेन रोचताम्

6.026.011

असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः
सुराणाम् असुराणां च धर्माधर्मौ तदाश्रयौ

6.026.012

धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम्
अधर्मो रक्षसं पक्षो ह्य् असुराणां च रावण

6.026.013

धर्मो वै ग्रसते ऽधर्मं ततः कृतम् अभूद् युगम्
अधर्मो ग्रसते धर्मं ततस् तिष्यः प्रवर्तते

6.026.014

तत् त्वया चरता लोकान् धर्मो विनिहतो महान्
अधर्मः प्रगृहीतश् च तेनास्मद्बलिनः परे

6.026.015

स प्रमादाद् विवृद्धस् ते ऽधर्मो ऽहिर् ग्रसते हि नः
विवर्धयति पक्षं च सुराणां सुरभावनः

6.026.016

विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया
ऋषीणाम् अग्निकल्पानाम् उद्वेगो जनितो महान्
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः

6.026.017

तपसा भावितात्मानो धर्मस्यानुग्रहे रताः
मुख्यैर् यज्ञैर् यजन्त्य् एते नित्यं तैस् तैर् द्विजातयः

6.026.018

जुह्वत्य् अग्नींश् च विधिवद् वेदांश् चोच्चैर् अधीयते
अभिभूय च रक्षांसि ब्रह्मघोषान् उदैरयन्
दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इवोष्णगे

6.026.019

ऋषीणाम् अग्निकल्पानाम् अग्निहोत्रसमुत्थितः
आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश

6.026.020

तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः
चर्यमाणं तपस् तीव्रं संतापयति राक्षसान्

6.026.021

उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस् तथा
विनाशम् अनुपश्यामि सर्वेषां रक्षसाम् अहम्

6.026.022

खराभिस् तनिता घोरा मेघाः प्रतिभयंकरः
शोणितेनाभिवर्षन्ति लङ्काम् उष्णेन सर्वतः

6.026.023

रुदतां वाहनानां च प्रपतन्त्य् अस्रबिन्दवः
ध्वजा ध्वस्ता विवर्णाश् च न प्रभान्ति यथापुरम्

6.026.024

व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम्
प्रविश्य लङ्काम् अनिशं समवायांश् च कुर्वते

6.026.025

कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च

6.026.026

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह

6.026.027

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह
किंनरा राक्षसैश् चापि समेयुर् मानुषैः सह

6.026.028

पाण्डुरा रक्तपादाश् च विहगाः कालचोदिताः
राक्षसानां विनाशाय कपोता विचरन्ति च

6.026.029

चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः
पतन्ति ग्रथिताश् चापि निर्जिताः कलहैषिणः

6.026.030

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः
कालो गृहाणि सर्वेषां काले काले ऽन्ववेक्षते
एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च

6.026.031

विष्णुं मन्यामहे रामं मानुषं देहम् आस्थितम्
न हि मानुषमात्रो ऽसौ राघवो दृढविक्रमः

6.026.032

येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः
कुरुष्व नरराजेन संधिं रामेण रावण

6.026.033

इदं वचस् तत्र निगद्य माल्यवन् परीक्ष्य रक्षोऽधिपतेर् मनः पुनः
अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc