भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.025

6.025.001

अथ तां जातसंतापां तेन वाक्येन मोहिताम्
सरमा ह्लादयाम् आस पृतिवीं द्यौर् इवाम्भसा

6.025.002

ततस् तस्या हितं सख्याश् चिकीर्षन्ती सखी वचः
उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी

6.025.003

उत्सहेयम् अहं गत्वा त्वद्वाक्यम् असितेक्षणे
निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्

6.025.004

न हि मे क्रममाणाया निरालम्बे विहायसि
समर्थो गतिम् अन्वेतुं पवनो गरुडो ऽपि वा

6.025.005

एवं ब्रुवाणां तां सीता सरमां पुनर् अब्रवीत्
मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया

6.025.006

समर्था गगनं गन्तुम् अपि वा त्वं रसातलम्
अवगच्छाम्य् अकर्तव्यं कर्तव्यं ते मदन्तरे

6.025.007

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव
ज्ञातुम् इच्छामि तं गत्वा किं करोतीति रावणः

6.025.008

स हि मायाबलः क्रूरो रावणः शत्रुरावणः
मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी

6.025.009

तर्जापयति मां नित्यं भर्त्सापयति चासकृत्
राक्षसीभिः सुघोराभिर् या मां रक्षन्ति नित्यशः

6.025.010

उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम
तद् भयाच् चाहम् उद्विग्ना अशोकवनिकां गताः

6.025.011

यदि नाम कथा तस्य निश्चितं वापि यद् भवेत्
निवेदयेथाः सर्वं तत् परो मे स्याद् अनुग्रहः

6.025.012

सा त्व् एवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी
उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम्

6.025.013

एष ते यद्य् अभिप्रायस् तस्माद् गच्छामि जानकि
गृह्य शत्रोर् अभिप्रायम् उपावृत्तां च पश्य माम्

6.025.014

एवम् उक्त्वा ततो गत्वा समीपं तस्य रक्षसः
शुश्राव कथितं तस्य रावणस्य समन्त्रिणः

6.025.015

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः
पुनर् एवागमत् क्षिप्रम् अशोकवनिकां तदा

6.025.016

सा प्रविष्टा पुनस् तत्र ददर्श जनकात्मजाम्
प्रतीक्षमाणां स्वाम् एव भ्रष्टपद्माम् इव श्रियम्

6.025.017

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्
परिष्वज्य च सुस्निग्धं ददौ च स्वयम् आसनम्

6.025.018

इहासीना सुखं सर्वम् आख्याहि मम तत्त्वतः
क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः

6.025.019

एवम् उक्ता तु सरमा सीतया वेपमानया
कथितं सर्वम् आचष्ट रावणस्य समन्त्रिणः

6.025.020

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः
अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः

6.025.021

दीयताम् अभिसत्कृत्य मनुजेन्द्राय मैथिली
निदर्शनं ते पर्याप्तं जनस्थाने यद् अद्भुतम्

6.025.022

लङ्घनं च समुद्रस्य दर्शनं च हनूमतः
वधं च रक्षसां युद्धे कः कुर्यान् मानुषो भुवि

6.025.023

एवं स मन्त्रिवृद्धैश् च मात्रा च बहु भाषितः
न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थपरो यथा

6.025.024

नोत्सहत्य् अमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि
सामात्यस्य नृशंसस्य निश्चयो ह्य् एष वर्तते

6.025.025

तद् एषा सुस्थिरा बुद्धिर् मृत्युलोभाद् उपस्थिता
भयान् न शक्तस् त्वां मोक्तुम् अनिरस्तस् तु संयुगे
राक्षसानां च सर्वेषाम् आत्मनश् च वधेन हि

6.025.026

निहत्य रावणं संख्ये सर्वथा निशितैः शरैः
प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असितेक्षणे

6.025.027

एतस्मिन्न् अन्तरे शब्दो भेरीशङ्खसमाकुलः
श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम्

6.025.028

श्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः
नष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc