भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.018

6.018.001

तांस् तु ते ऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्

6.018.002

स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलम् आश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः

6.018.003

प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः

6.018.004

यं पृष्ठतो ऽनुगच्छन्ति शतशो ऽथ सहस्रशः
द्रुमान् उद्यम्य सहिता लङ्कारोहणतत्पराः

6.018.005

एष कोटीसहस्रेण वानराणां महौजसाम्
आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय

6.018.006

नीलान् इव महामेघांस् तिष्ठतो यांस् तु पश्यसि
असिताञ् जनसंकाशान् युद्धे सत्यपराक्रमान्

6.018.007

नखदंष्ट्रायुधान् वीरांस् तीक्ष्णकोपान् भयावहान्
असंख्येयान् अनिर्देश्यान् परं पारम् इवोदधेः

6.018.008

पर्वतेषु च ये के चिद् विषमेषु नदीषु च
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः

6.018.009

एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः
पर्जन्य इव जीमूतैः समन्तात् परिवारितः

6.018.010

ऋक्षवन्तं गिरिश्रेष्ठम् अध्यास्ते नर्मदां पिबन्
सर्वर्क्षाणाम् अधिपतिर् धूम्रो नामैष यूथपः

6.018.011

यवीयान् अस्य तु भ्राता पश्यैनं पर्वतोपमम्
भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे

6.018.012

स एष जाम्बवान् नाम महायूथपयूथपः
प्रशान्तो गुरुवर्ती च संप्रहारेष्व् अमर्षणः

6.018.013

एतेन साह्यं सुमहत् कृतं शक्रस्य धीमता
देवासुरे जाम्बवता लब्धाश् च बहवो वराः

6.018.014

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः
मुञ्चन्ति विपुलाकारा न मृत्योर् उद्विजन्ति च

6.018.015

राक्षसानां च सदृशाः पिशाचानां च रोमशाः
एतस्य सैन्ये बहवो विचरन्त्य् अग्नितेजसः

6.018.016

यं त्व् एनम् अभिसंरब्धं प्लवमानम् इव स्थितम्
प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्

6.018.017

एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः
बलेन बलसंपन्नो रम्भो नामैष यूथपः

6.018.018

यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्

6.018.019

यस्मान् न परमं रूपं चतुष्पादेषु विद्यते
श्रुतः संनादनो नाम वानराणां पितामहः

6.018.020

येन युद्धं तदा दत्तं रणे शक्रस्य धीमता
पराजयश् च न प्राप्तः सो ऽयं यूथपयूथपः
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः

6.018.021

एष गन्धर्वकन्यायाम् उत्पन्नः कृष्णवर्त्मना
पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्

6.018.022

यस्य वैश्रवणो राजा जम्बूम् उपनिषेवते
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्

6.018.023

विहारसुखदो नित्यं भ्रातुस् ते राक्षसाधिप
तत्रैष वसति श्रीमान् बलवान् वानरर्षभः
युद्धेष्व् अकत्थनो नित्यं क्रथनो नाम यूथपः

6.018.024

वृतः कोटिसहस्रेण हरीणां समुपस्थितः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

6.018.025

यो गङ्गाम् अनु पर्येति त्रासयन् हस्तियूथपान्
हस्तिनां वानराणां च पूर्ववैरम् अनुस्मरन्

6.018.026

एष यूथपतिर् नेता गच्छन् गिरिगुहाशयः
हरीणां वाहिनी मुख्यो नदीं हैमवतीम् अनु

6.018.027

उशीर बीजम् आश्रित्य पर्वतं मन्दरोपमम्
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्

6.018.028

एनं शतसहस्राणां सहस्रम् अभिवर्तते
एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः

6.018.029

वातेनेवोद्धतं मेघं यम् एनम् अनुपश्यसि
विवर्तमानं बहुशो यत्रैतद् बहुलं रजः

6.018.030

एते ऽसितमुखा घोरा गोलाङ्गूला महाबलाः
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्

6.018.031

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्
परिवार्याभिवर्तन्ते लङ्कां मर्दितुम् ओजसा

6.018.032

भ्रमराचरिता यत्र सर्वकामफलद्रुमाः
यं सूर्यतुल्यवर्णाभम् अनुपर्येति पर्वतम्

6.018.033

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः

6.018.034

तत्रैष रमते राजन् रम्ये काञ्चनपर्वते
मुख्यो वानरमुख्यानां केसरी नाम यूथपः

6.018.035

षष्टिर् गिरिसहस्राणां रम्याः काञ्चनपर्वताः
तेषां मध्ये गिरिवरस् त्वम् इवानघ रक्षसाम्

6.018.036

तत्रैते कपिलाः श्वेतास् ताम्रास्या मधुपिङ्गलाः
निवसन्त्य् उत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः

6.018.037

सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः

6.018.038

सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः
महापर्वतसंकाशा महाजीमूतनिस्वनाः

6.018.039

एष चैषाम् अधिपतिर् मध्ये तिष्ठति वीर्यवान्
नाम्ना पृथिव्यां विख्यातो राजञ् शतबलीति यः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

6.018.040

गजो गवाक्षो गवयो नलो नीलश् च वानरः
एकैक एव यूथानां कोटिभिर् दशभिर् वृतः

6.018.041

तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः
न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः

6.018.042

सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः
सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc