भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.017

6.017.001

तद् वचः पथ्यम् अक्लीबं सारणेनाभिभाषितम्
निशम्य रावणो राजा प्रत्यभाषत सारणम्

6.017.002

यदि माम् अभियुञ्जीरन् देवगन्धर्वदानवाः
नैव सीतां प्रदास्यामि सर्वलोकभयाद् अपि

6.017.003

त्वं तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम्
प्रतिप्रदानम् अद्यैव सीतायाः साधु मन्यसे
को हि नाम सपत्नो मां समरे जेतुम् अर्हति

6.017.004

इत्य् उक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्
बहुतालसमुत्सेधं रावणो ऽथ दिदृक्षया

6.017.005

ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः
पश्यमानः समुद्रं च पर्वतांश् च वनानि च
ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः

6.017.006

तद् अपारम् असंख्येयं वानराणां महद् बलम्
आलोक्य रावणो राजा परिपप्रच्छ सारणम्

6.017.007

एषां वानरमुख्यानां के शूराः के महाबलाः
के पूर्वम् अभिवर्तन्ते महोत्साहाः समन्ततः

6.017.008

केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः

6.017.009

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
आचचक्षे ऽथ मुख्यज्ञो मुख्यांस् तांस् तु वनौकसः

6.017.010

एष यो ऽभिमुखो लङ्कां नर्दंस् तिष्ठति वानरः
यूथपानां सहस्राणां शतेन परिवारितः

6.017.011

यस्य घोषेण महता सप्राकारा सतोरणा
लङ्का प्रवेपते सर्वा सशैलवनकानना

6.017.012

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः

6.017.013

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
लङ्काम् अभिमुखः कोपाद् अभीक्ष्णं च विजृम्भते

6.017.014

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः
स्फोटयत्य् अभिसंरब्धो लाङ्गूलं च पुनः पुनः

6.017.015

यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश
एष वानरराजेन सुर्ग्रीवेणाभिषेचितः
यौवराज्ये ऽङ्गदो नाम त्वाम् आह्वयति संयुगे

6.017.016

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः

6.017.017

एते दुष्प्रसहा घोराश् चण्डाश् चण्डपराक्रमाः
अष्टौ शतसहस्राणि दशकोटिशतानि च

6.017.018

य एनम् अनुगच्छन्ति वीराश् चन्दनवासिनः
एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्

6.017.019

श्वेतो रजतसंकाशः सबलो भीमविक्रमः
बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः

6.017.020

तूर्णं सुग्रीवम् आगम्य पुनर् गच्छति वानरः
विभजन् वानरीं सेनाम् अनीकानि प्रहर्षयन्

6.017.021

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्
नाम्ना संकोचनो नाम नानानगयुतो गिरिः

6.017.022

तत्र राज्यं प्रशास्त्य् एष कुमुदो नाम यूथपः
यो ऽसौ शतसहस्राणां सहस्रं परिकर्षति

6.017.023

यस्य वाला बहुव्यामा दीर्घलाङ्गूलम् आश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः

6.017.024

अदीनो रोषणश् चण्डः संग्रामम् अभिकाङ्क्षति
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

6.017.025

यस् त्व् एष सिंहसंकाशः कपिलो दीर्घकेसरः
निभृतः प्रेक्षते लङ्कां दिधक्षन्न् इव चक्षुषा

6.017.026

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्
राजन् सततम् अध्यास्ते रम्भो नामैष यूथपः

6.017.027

शतं शतसहस्राणां त्रिंशच् च हरियूथपाः
परिवार्यानुगच्छन्ति लङ्कां मर्दितुम् ओजसा

6.017.028

यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः
न च संविजते मृत्योर् न च यूथाद् विधावति

6.017.029

महाबलो वीतभयो रम्यं साल्वेय पर्वतम्
राजन् सततम् अध्यास्ते शरभो नाम यूथपः

6.017.030

एतस्य बलिनः सर्वे विहारा नाम यूथपाः
राजञ् शतसहस्राणि चत्वारिंशत् तथैव च

6.017.031

यस् तु मेघ इवाकाशं महान् आवृत्य तिष्ठति
मध्ये वानरवीराणां सुराणाम् इव वासवः

6.017.032

भेरीणाम् इव संनादो यस्यैष श्रूयते महान्
घोरः शाखामृगेन्द्राणां संग्रामम् अभिकाङ्क्षताम्

6.017.033

एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम्
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः

6.017.034

एनं शतसहस्राणां शतार्धं पर्युपासते
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः

6.017.035

यस् तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः

6.017.036

एष दर्दरसंकाशो विनतो नाम यूथपः
पिबंश् चरति पर्णाशां नदीनाम् उत्तमां नदीम्

6.017.037

षष्टिः शतसहस्राणि बलम् अस्य प्लवंगमाः
त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः

6.017.038

यस् तु गैरिकवर्णाभं वपुः पुष्यति वानरः
गवयो नाम तेजस्वी त्वां क्रोधाद् अभिवर्तते

6.017.039

एनं शतसहस्राणि सप्ततिः पर्युपासते
एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्

6.017.040

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः
यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc