भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.016

6.016.001

सबले सागरं तीर्णे रामे दशरथात्मजे
अमात्यौ रावणः श्रीमान् अब्रवीच् छुकसारणौ

6.016.002

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्
अभूतपूर्वं रामेण सागरे सेतुबन्धनम्

6.016.003

सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन
अवश्यं चापि संख्येयं तन् मया वानरं बलम्

6.016.004

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ
परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः

6.016.005

मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः
ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवंगमाः

6.016.006

स च सेतुर् यथा बद्धः सागरे सलिलार्णवे
निवेशश् च यथा तेषां वानराणां महात्मनाम्

6.016.007

रामस्य व्यवसायं च वीर्यं प्रहरणानि च
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ

6.016.008

कश् च सेनापतिस् तेषां वानराणां महौजसाम्
एतज् ज्ञात्वा यथातत्त्वं शीघ्रम् अगन्तुम् अर्हथः

6.016.009

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्

6.016.010

ततस् तद् वानरं सैन्यम् अचिन्त्यं लोमहर्षणम्
संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ

6.016.011

तत् स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च
समुद्रस्य च तीरेषु वनेषूपवनेषु च

6.016.012

तरमाणं च तीर्णं च तर्तुकामं च सर्वशः
निविष्टं निविशच् चैव भीमनादं महाबलम्

6.016.013

तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः
आचचक्षे ऽथ रामाय गृहीत्वा शुकसारणौ
लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ

6.016.014

तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा
कृताञ्जलिपुटौ भीतौ वचनं चेदम् ऊचतुः

6.016.015

आवाम् इहागतौ सौम्य रावणप्रहिताव् उभौ
परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन

6.016.016

तयोस् तद् वचनं श्रुत्वा रामो दशरथात्मजः
अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः

6.016.017

यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्

6.016.018

प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः
वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम

6.016.019

यद् बलं च समाश्रित्य सीतां मे हृतवान् असि
तद् दर्शय यथाकामं ससैन्यः सहबान्धवः

6.016.020

श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम्
राक्षसं च बलं पश्य शरैर् विध्वंसितं मया

6.016.021

घोरं रोषम् अहं मोक्ष्ये बलं धारय रावण
श्वःकाले वज्रवान् वज्रं दानवेष्व् इव वासवः

6.016.022

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
आगम्य नगरीं लङ्काम् अब्रूतां राक्षसाधिपम्

6.016.023

विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा

6.016.024

एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः

6.016.025

रामो दाशरथिः श्रीमांल् लक्ष्मणश् च विभीषणः
सुग्रीवश् च महातेजा महेन्द्रसमविक्रमः

6.016.026

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्
उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः

6.016.027

यादृशं तस्य रामस्य रूपं प्रहरणानि च
वधिष्यति पुरीं लङ्काम् एकस् तिष्ठन्तु ते त्रयः

6.016.028

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
बभूव दुर्धर्षतरा सर्वैर् अपि सुरासुरैः

6.016.029

प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां संप्रति योद्धुम् इच्छताम्
अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc