भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.015

6.015.001

ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः
उदयन् हि महाशैलान् मेरोर् इव दिवाकरः
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत

6.015.002

स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः

6.015.003

सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान्
अब्रवीत् प्राञ्जलिर् वाक्यं राघवं शरपाणिनम्

6.015.004

पृथिवी वायुर् आकाशम् आपो ज्योतिश् च राघवः
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गम् आश्रिताः

6.015.005

तत् स्वभावो ममाप्य् एष यद् अगाधो ऽहम् अप्लवः
विकारस् तु भवेद् राध एतत् ते प्रवदाम्य् अहम्

6.015.006

न कामान् न च लोभाद् वा न भयात् पार्थिवात्मज
ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन

6.015.007

विधास्ये राम येनापि विषहिष्ये ह्य् अहं तथा
ग्राहा न प्रहरिष्यन्ति यावत् सेना तरिष्यति

6.015.008

अयं सौम्य नलो नाम तनुजो विश्वकर्मणः
पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणः

6.015.009

एष सेतुं महोत्साहः करोतु मयि वानरः
तम् अहं धारयिष्यामि तथा ह्य् एष यथा पिता

6.015.010

एवम् उक्त्वोदधिर् नष्टः समुत्थाय नलस् ततः
अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलः

6.015.011

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये
पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महोदधिः

6.015.012

मम मातुर् वरो दत्तो मन्दरे विश्वकर्मणा
औरसस् तस्य पुत्रो ऽहं सदृशो विश्वकर्मणा

6.015.013

न चाप्य् अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान्
कामम् अद्यैव बध्नन्तु सेतुं वानरपुंगवाः

6.015.014

ततो निसृष्टरामेण सर्वतो हरियूथपाः
अभिपेतुर् महारण्यं हृष्टाः शतसहस्रशः

6.015.015

ते नगान् नगसंकाशाः शाखामृगगणर्षभाः
बभञ्जुर् वानरास् तत्र प्रचकर्षुश् च सागरम्

6.015.016

ते सालैश् चाश्वकर्णैश् च धवैर् वंशैश् च वानराः
कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि

6.015.017

बिल्वकैः सप्तपर्णैश् च कर्णिकारैश् च पुष्पितैः
चूतैश् चाशोकवृक्षैश् च सागरं समपूरयन्

6.015.018

समूलांश् च विमूलांश् च पादपान् हरिसत्तमाः
इन्द्रकेतून् इवोद्यम्य प्रजह्रुर् हरयस् तरून्

6.015.019

प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम्
समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः

6.015.020

दशयोजनविस्तीर्णं शतयोजनम् आयतम्
नलश् चक्रे महासेतुं मध्ये नदनदीपतेः

6.015.021

शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्
बभूव तुमुलः शब्दस् तदा तस्मिन् महोदधौ

6.015.022

स नलेन कृतः सेतुः सागरे मकरालये
शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे

6.015.023

ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः

6.015.024

आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः
तम् अचिन्त्यम् असह्यं च अद्भुतं लोमहर्षणम्
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्

6.015.025

तानि कोटिसहस्राणि वानराणां महौजसाम्
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः

6.015.026

विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः
अशोभत महासेतुः सीमन्त इव सागरे

6.015.027

ततः परे समुद्रस्य गदापाणिर् विभीषणः
परेषाम् अभिघतार्थम् अतिष्ठत् सचिवैः सह

6.015.028

अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः

6.015.029

अन्ये मध्येन गच्छन्ति पार्श्वतो ऽन्ये प्लवंगमाः
सलिले प्रपतन्त्य् अन्ये मार्गम् अन्ये न लेभिरे
के चिद् वैहायस गताः सुपर्णा इव पुप्लुवुः

6.015.030

घोषेण महता घोषं सागरस्य समुच्छ्रितम्
भीमम् अन्तर्दधे भीमा तरन्ती हरिवाहिनी

6.015.031

वानराणां हि सा तीर्णा वाहिनी नल सेतुना
तीरे निविविशे राज्ञा बहुमूलफलोदके

6.015.032

तद् अद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः
उपेत्य रामं सहिता महर्षिभिः समभ्यषिञ्चन् सुशुभैर् जलैः पृथक्

6.015.033

जयस्व शत्रून् नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः
इतीव रामं नरदेवसत्कृतं शुभैर् वचोभिर् विविधैर् अपूजयन्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc