रामायण · अध्याय 6.014
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले
नियमाद् अप्रमत्तस्य निशास् तिस्रो ऽतिचक्रमुः
न च दर्शयते मन्दस् तदा रामस्य सागरः
प्रयतेनापि रामेण यथार्हम् अभिपूजितः
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः
समीपस्थम् उवाचेदं लक्ष्मणं शुभलक्ष्मणम्
पश्य तावद् अनार्यस्य पूज्यमानस्य लक्ष्मण
अवलेपं समुद्रस्य न दर्शयति यत् स्वयम्
प्रशमश् च क्षमा चैव आर्जवं प्रियवादिता
असामर्थ्यं फलन्त्य् एते निर्गुणेषु सतां गुणाः
आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्
न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः
प्राप्तुं लक्ष्मण लोके ऽस्मिञ् जयो वा रणमूधनि
अद्य मद्बाणनिर्भिन्नैर् मकरैर् मकरालयम्
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः
महाभोगानि मत्स्यानां करिणां च करान् इह
भोगांश् च पश्य नागानां मया भिन्नानि लक्ष्मण
सशङ्खशुक्तिका जालं समीनमकरं शरैः
अद्य युद्धेन महता समुद्रं परिशोषये
क्षमया हि समायुक्तं माम् अयं मकरालयः
असमर्थं विजानाति धिक् क्षमाम् ईदृशे जने
चापम् आनय सौमित्रे शरांश् चाशीविषोपमान्
अद्याक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम्
वेलासु कृतमर्यादं सहसोर्मिसमाकुलम्
निर्मर्यादं करिष्यामि सायकैर् वरुणालयम्
एवम् उक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः
बभूव रामो दुर्धर्षो युगान्ताग्निर् इव ज्वलन्
संपीड्य च धनुर् घोरं कम्पयित्वा शरैर् जगत्
मुमोच विशिखान् उग्रान् वज्राणीव शतक्रतुः
ते ज्वलन्तो महावेगास् तेजसा सायकोत्तमाः
प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम्
ततो वेगः समुद्रस्य सनक्रमकरो महान्
संबभूव महाघोरः समारुतरवस् तदा
महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः
सधूमपरिवृत्तोर्मिः सहसाभून् महोदधिः
व्यथिताः पन्नगाश् चासन् दीप्तास्या दीप्तलोचनाः
दानवाश् च महावीर्याः पातालतलवासिनः
ऊर्मयः सिन्धुराजस्य सनक्रमकरास् तदा
विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः
आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः
उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0