भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.013

6.013.001

राघवेणाभये दत्ते संनतो रावणानुजः
खात् पपातावनिं हृष्टो भक्तैर् अनुचरैः सह

6.013.002

स तु रामस्य धर्मात्मा निपपात विभीषणः
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः

6.013.003

अब्रवीच् च तदा रामं वाक्यं तत्र विभीषणः
धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम्

6.013.004

अनुजो रावणस्याहं तेन चास्म्य् अवमानितः
भवन्तं सर्वभूतानां शरण्यं शरणं गतः

6.013.005

परित्यक्ता मया लङ्का मित्राणि च धनानि च
भवद्गतं मे राज्यं च जीवितं च सुखानि च

6.013.006

राक्षसानां वधे साह्यं लङ्कायाश् च प्रधर्षणे
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्

6.013.007

इति ब्रुवाणं रामस् तु परिष्वज्य विभीषणम्
अब्रवील् लक्ष्मणं प्रीतः समुद्राज् जलम् आनय

6.013.008

तेन चेमं महाप्राज्ञम् अभिषिञ्च विभीषणम्
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद

6.013.009

एवम् उक्तस् तु सौमित्रिर् अभ्यषिञ्चद् विभीषणम्
मध्ये वानरमुख्यानां राजानं रामशासनात्

6.013.010

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः
प्रचुक्रुशुर् महानादान् साधु साध्व् इति चाब्रुवन्

6.013.011

अब्रवीच् च हनूमांश् च सुग्रीवश् च विभीषणम्
कथं सागरम् अक्षोभ्यं तराम वरुणालयम्

6.013.012

उपायैर् अभिगच्छामो यथा नदनदीपतिम्
तराम तरसा सर्वे ससैन्या वरुणालयम्

6.013.013

एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः
समुद्रं राघवो राजा शरणं गन्तुम् अर्हति

6.013.014

खानितः सगरेणायम् अप्रमेयो महोदधिः
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यं महोदधिः

6.013.015

एवं विभीषणेनोक्ते राक्षसेन विपश्चिता
प्रकृत्या धर्मशीलस्य राघवस्याप्य् अरोचत

6.013.016

स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वम् उवाच ह

6.013.017

विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते
ब्रूहि त्वं सहसुग्रीवस् तवापि यदि रोचते

6.013.018

सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः
उभाभ्यां संप्रधार्यार्यं रोचते यत् तद् उच्यताम्

6.013.019

एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीवलक्ष्मणौ
समुदाचार संयुक्तम् इदं वचनम् ऊचतुः

6.013.020

किमर्थं नो नरव्याघ्र न रोचिष्यति राघव
विभीषणेन यत् तूक्तम् अस्मिन् काले सुखावहम्

6.013.021

अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये
लङ्का नासादितुं शक्या सेन्द्रैर् अपि सुरासुरैः

6.013.022

विभीषणस्य शूरस्य यथार्थं क्रियतां वचः
अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम्

6.013.023

एवम् उक्तः कुशास्तीर्णे तीरे नदनदीपतेः
संविवेश तदा रामो वेद्याम् इव हुताशनः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc