भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.009

6.009.001

ततो निकुम्भो रभसः सूर्यशत्रुर् महाबलः
सुप्तघ्नो यज्ञकोपश् च महापार्श्वो महोदरः

6.009.002

अग्निकेतुश् च दुर्धर्षो रश्मिकेतुश् च राक्षसः
इन्द्रजिच् च महातेजा बलवान् रावणात्मजः

6.009.003

प्रहस्तो ऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः
धूम्राक्षश् चातिकायश् च दुर्मुखश् चैव राक्षसः

6.009.004

परिघान् पट्टसान् प्रासाञ् शक्तिशूलपरश्वधान्
चापानि च सबाणानि खड्गांश् च विपुलाञ् शितान्

6.009.005

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा

6.009.006

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता

6.009.007

तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः
अब्रवीत् प्राञ्जलिर् वाक्यं पुनः प्रत्युपवेश्य तान्

6.009.008

अप्य् उपायैस् त्रिभिस् तात यो ऽर्थः प्राप्तुं न शक्यते
तस्य विक्रमकालांस् तान् युक्तान् आहुर् मनीषिणः

6.009.009

प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः

6.009.010

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्
जितरोषं दुराधर्षं प्रधर्षयितुम् इच्छथ

6.009.011

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्
कृतं हनुमता कर्म दुष्करं तर्कयेत कः

6.009.012

बलान्य् अपरिमेयानि वीर्याणि च निशाचराः
परेषां सहसावज्ञा न कर्तव्या कथं चन

6.009.013

किं च राक्षसराजस्य रामेणापकृतं पुरा
आजहार जनस्थानाद् यस्य भार्यां यशस्विनः

6.009.014

खरो यद्य् अतिवृत्तस् तु रामेण निहतो रणे
अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्

6.009.015

एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत्
आहृता सा परित्याज्या कलहार्थे कृते न किम्

6.009.016

न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना
वैरं निरर्थकं कर्तुं दीयताम् अस्य मैथिली

6.009.017

यावन् न सगजां साश्वां बहुरत्नसमाकुलाम्
पुरीं दारयते बाणैर् दीयताम् अस्य मैथिली

6.009.018

यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी
नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम्

6.009.019

विनश्येद् धि पुरी लङ्का शूराः सर्वे च राक्षसाः
रामस्य दयिता पत्नी न स्वयं यदि दीयते

6.009.020

प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम
हितं पथ्यं त्व् अहं ब्रूमि दीयताम् अस्य मैथिली

6.009.021

पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः
सृजत्य् अमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली

6.009.022

त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्
प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc