भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.005

6.005.001

सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता
सागरस्योत्तरे तीरे साधु सेना निवेशिता

6.005.002

मैन्दश् च द्विविधश् चोभौ तत्र वानरपुंगवौ
विचेरतुश् च तां सेनां रक्षार्थं सर्वतो दिशम्

6.005.003

निविष्टायां तु सेनायां तीरे नदनदीपतेः
पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनम् अब्रवीत्

6.005.004

शोकश् च किल कालेन गच्छता ह्य् अपगच्छति
मम चापश्यतः कान्ताम् अहन्य् अहनि वर्धते

6.005.005

न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च
एतद् एवानुशोचामि वयो ऽस्या ह्य् अतिवर्तते

6.005.006

वाहि वात यतः कन्या तां स्पृष्ट्वा माम् अपि स्पृश
त्वयि मे गात्रसंस्पर्शश् चन्द्रे दृष्टिसमागमः

6.005.007

तन् मे दहति गात्राणि विषं पीतम् इवाशये
हा नाथेति प्रिया सा मां ह्रियमाणा यद् अब्रवीत्

6.005.008

तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा
रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना

6.005.009

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना
कथं चित् प्रज्वलन् कामः समासुप्तं जले दहेत्

6.005.010

बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम्
यद् अहं सा च वामोरुर् एकां धरणिम् आश्रितौ

6.005.011

केदारस्येव केदारः सोदकस्य निरूदकः
उपस्नेहेन जीवामि जीवन्तीं यच् छृणोमि ताम्

6.005.012

कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम्
विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीताम् इव श्रियम्

6.005.013

कदा नु चारुबिम्बौष्ठं तस्याः पद्मम् इवाननम्
ईषदुन्नम्य पास्यामि रसायनम् इवातुरः

6.005.014

तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ
कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः

6.005.015

सा नूनम् असितापाङ्गी रक्षोमध्यगता सती
मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति

6.005.016

कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति
विधूय जलदान् नीलाञ् शशिलेखा शरत्स्व् इव

6.005.017

स्वभावतनुका नूनं शोकेनानशनेन च
भूयस् तनुतरा सीता देशकालविपर्ययात्

6.005.018

कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्
सीतां प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसं

6.005.019

कदा नु खलु मां साध्वी सीतामरसुतोपमा
सोत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यत्य् आनन्दजं जलम्

6.005.020

कदा शोकम् इमं घोरं मैथिली विप्रयोगजम्
सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा

6.005.021

एवं विलपतस् तस्य तत्र रामस्य धीमतः
दिनक्षयान् मन्दवपुर् भास्करो ऽस्तम् उपागमत्

6.005.022

आश्वासितो लक्ष्मणेन रामः संध्याम् उपासत
स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc