रामायण · अध्याय 6.004
श्रुत्वा हनूमतो वाक्यं यथावद् अनुपूर्वशः
ततो ऽब्रवीन् महातेजा रामः सत्यपराक्रमः
यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः
क्षिप्रम् एनां वधिष्यामि सत्यम् एतद् ब्रवीमि ते
अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः
उत्तरा फल्गुनी ह्य् अद्य श्वस् तु हस्तेन योक्ष्यते
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे
निहत्य रावणं सीताम् आनयिष्यामि जानकीम्
उपरिष्टाद् धि नयनं स्फुरमाणम् इदं मम
विजयं समनुप्राप्तं शंसतीव मनोरथम्
अग्रे यातु बलस्यास्य नीलो मार्गम् अवेक्षितुम्
वृतः शतसहस्रेण वानराणां तरस्विनाम्
फलमूलवता नील शीतकाननवारिणा
पथा मधुमता चाशु सेनां सेनापते नय
दूषयेयुर् दुरात्मानः पथि मूलफलोदकम्
राक्षसाः परिरक्षेथास् तेभ्यस् त्वं नित्यम् उद्यतः
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः
अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्
सागरौघनिभं भीमम् अग्रानीकं महाबलाः
कपिसिंहा प्रकर्षन्तु शतशो ऽथ सहस्रशः
गजश् च गिरिसंकाशो गवयश् च महाबलः
गवाक्षश् चाग्रतो यान्तु गवां दृप्ता इवर्षभाः
यातु वानरवाहिन्या वानरः प्लवतां पतिः
पालयन् दक्षिणं पार्श्वम् ऋषभो वानरर्षभः
गन्धहस्तीव दुर्धर्षस् तरस्वी गन्धमादनः
यातु वानरवाहिन्याः सव्यं पार्श्वम् अधिष्ठितः
यास्यामि बलमध्ये ऽहं बलौघम् अभिहर्षयन्
अधिरुह्य हनूमन्तम् ऐरावतम् इवेश्वरः
अङ्गदेनैष संयातु लक्ष्मणश् चान्तकोपमः
सार्वभौमेण भूतेशो द्रविणाधिपतिर् यथा
जाम्बवांश् च सुषेणश् च वेगदर्शी च वानरः
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः
व्यादिदेश महावीर्यान् वानरान् वानरर्षभः
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः
गुहाभ्यः शिखरेभ्यश् च आशु पुप्लुविरे तदा
ततो वानरराजेन लक्ष्मणेन च पूजितः
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्
शतैः शतसहस्रैश् च कोटीभिर् अयुतैर् अपि
वारणाभिश् च हरिभिर् ययौ परिवृतस् तदा
तं यान्तम् अनुयाति स्म महती हरिवाहिनी
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः
आप्लवन्तः प्लवन्तश् च गर्जन्तश् च प्लवंगमाः
क्ष्वेलन्तो निनदन्तश् च जग्मुर् वै दक्षिणां दिशम्
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च
उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः
अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च
पतन्तश् चोत्पतन्त्य् अन्ये पातयन्त्य् अपरे परान्
रावणो नो निहन्तव्यः सर्वे च रजनीचराः
इति गर्जन्ति हरयो राघवस्य समीपतः
पुरस्ताद् ऋषभो वीरो नीलः कुमुद एव च
पथानं शोधयन्ति स्म वानरैर् बहुभिः सह
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च
बहुभिर् बलिभिर् भीमैर् वृताः शत्रुनिबर्हणः
हरिः शतबलिर् वीरः कोटीभिर् दशभिर् वृतः
सर्वाम् एको ह्य् अवष्टभ्य ररक्ष हरिवाहिनीम्
कोटीशतपरीवारः केसरी पनसो गजः
अर्कश् चातिबलः पार्श्वम् एकं तस्याभिरक्षति
सुषेणो जाम्बवांश् चैव ऋक्षैर् बहुभिर् आवृतः
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः
तेषां सेनापतिर् वीरो नीलो वानरपुंगवः
संपतन् पततां श्रेष्ठस् तद् बलं पर्यपालयत्
दरीमिखः प्रजङ्घश् च जम्भो ऽथ रभसः कपिः
सर्वतश् च ययुर् वीरास् त्वरयन्तः प्लवंगमान्
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः
अपश्यंस् ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम्
सागरौघनिभं भीमं तद् वानरबलं महत्
निःससर्प महाघोषं भीमवेग इवार्णवः
तस्य दाशरथेः पार्श्वे शूरास् ते कपिकुञ्जराः
तूर्णम् आपुप्लुवुः सर्वे सदश्वा इव चोदिताः
कपिभ्याम् उह्यमानौ तौ शुशुभते नरर्षभौ
महद्भ्याम् इव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ
तम् अङ्गदगतो रामं लक्ष्मणः शुभया गिरा
उवाच प्रतिपूर्णार्थः स्मृतिमान् प्रतिभानवान्
हृताम् अवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्
समृद्धार्थः समृद्धार्थाम् अयोध्यां प्रतियास्यसि
महान्ति च निमित्तानि दिवि भूमौ च राघव
शुभान्ति तव पश्यामि सर्वाण्य् एवार्थसिद्धये
अनु वाति शुभो वायुः सेनां मृदुहितः सुखः
पूर्णवल्गुस्वराश् चेमे प्रवदन्ति मृगद्विजाः
प्रसन्नाश् च दिशः सर्वा विमलश् च दिवाकरः
उशना च प्रसन्नार्चिर् अनु त्वां भार्गवो गतः
ब्रह्मराशिर् विशुद्धश् च शुद्धाश् च परमर्षयः
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्
त्रिशङ्कुर् विमलो भाति राजर्षिः सपुरोहितः
पितामहवरो ऽस्माकम् इष्क्वाकूणां महात्मनाम्
विमले च प्रकाशेते विशाखे निरुपद्रवे
नक्षत्रं परम् अस्माकम् इक्ष्वाकूणां महात्मनाम्
नैरृतं नैरृतानां च नक्षत्रम् अभिपीड्यते
मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना
सरं चैतद् विनाशाय राक्षसानाम् उपस्थितम्
काले कालगृहीतानां नकत्रं ग्रहपीडितम्
प्रसन्नाः सुरसाश् चापो वनानि फलवन्ति च
प्रवान्त्य् अभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः
व्यूढानि कपिसैन्यानि प्रकाशन्ते ऽधिकं प्रभो
देवानाम् इव सैन्यानि संग्रामे तारकामये
एवम् आर्य समीक्ष्यैतान् प्रीतो भवितुम् अर्हसि
इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत्
अथावृत्य महीं कृत्स्नां जगाम महती चमूः
ऋक्षवानरशार्दूलैर् नखदंष्ट्रायुधैर् वृता
कराग्रैश् चरणाग्रैश् च वानरैर् उद्धतं रजः
भौमम् अन्तर्दधे लोकं निवार्य सवितुः प्रभाम्
सा स्म याति दिवारात्रं महती हरिवाहिनी
हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता
वनरास् त्वरितं यान्ति सर्वे युद्धाभिनन्दनः
मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत
ततः पादपसंबाधं नानामृगसमाकुलम्
सह्यपर्वतम् आसेदुर् मलयं च मही धरम्
काननानि विचित्राणि नदीप्रस्रवणानि च
पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च
चम्पकांस् तिलकांश् चूतान् अशोकान् सिन्दुवारकान्
करवीरांश् च तिमिशान् भञ्जन्ति स्म प्लवंगमाः
फलान्य् अमृतगन्धीनि मूलानि कुसुमानि च
बुभुजुर् वानरास् तत्र पादपानां बलोत्कटाः
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः
ययुः पिबन्तो हृष्टास् ते मधूनि मधुपिङ्गलाः
पादपान् अवभञ्जन्तो विकर्षन्तस् तथा लताः
विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः
वृक्षेभ्यो ऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः
अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्य् अपि चापरे
बभूव वसुधा तैस् तु संपूर्णा हरिपुंगवैः
यथा कमलकेदारैः पक्वैर् इव वसुंधरा
महेन्द्रम् अथ संप्राप्य रामो राजीवलोचनः
अध्यारोहन् महाबाहुः शिखरं द्रुमभूषितम्
ततः शिखरम् आरुह्य रामो दशरथात्मजः
कूर्ममीनसमाकीर्णम् अपश्यत् सलिलाशयम्
ते सह्यं समतिक्रम्य मलयं च महागिरिम्
आसेदुर् आनुपूर्व्येण समुद्रं भीमनिःस्वनम्
अवरुह्य जगामाशु वेलावनम् अनुत्तमम्
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः
वेलाम् आसाद्य विपुलां रामो वचनम् अब्रवीत्
एते वयम् अनुप्राप्ताः सुग्रीव वरुणालयम्
इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता
अतः परमतीरो ऽयं सागरः सरितां पति
न चायम् अनुपायेन शक्यस् तरितुम् अर्णवः
तद् इहैव निवेशो ऽस्तु मन्त्रः प्रस्तूयताम् इह
यथेदं वानरबलं परं पारम् अवाप्नुयात्
इतीव स महाबाहुः सीताहरणकर्शितः
रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा
संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने
स्वां स्वां सेनां समुत्सृज्य मा च कश् चित् कुतो व्रजेत्
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः
सेनां न्यवेशयत् तीरे सागरस्य द्रुमायुते
विरराज समीपस्थं सागरस्य तु तद् बलम्
मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः
वेलावनम् उपागम्य ततस् ते हरिपुंगवाः
विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः
सा महार्णवम् आसाद्य हृष्टा वानरवाहिनी
वायुवेगसमाधूतं पश्यमाना महार्णवम्
दूरपारम् असंबाधं रक्षोगणनिषेवितम्
पश्यन्तो वरुणावासं निषेदुर् हरियूथपाः
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये
चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम्
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः
दीप्तभोगैर् इवाक्रीर्णं भुजंगैर् वरुणालयम्
अवगाढं महासत्तैर् नानाशैलसमाकुलम्
दुर्गं द्रुगम् अमार्गं तम् अगाधम् असुरालयम्
मकरैर् नागभोगैश् च विगाढा वातलोहिताः
उत्पेतुश् च निपेतुश् च प्रवृद्धा जलराशयः
अग्निचूर्णम् इवाविद्धं भास्कराम्बुमनोरगम्
सुरारिविषयं घोरं पातालविषमं सदा
सागरं चाम्बरप्रख्यम् अम्बरं सागरोपमम्
सागरं चाम्बरं चेति निर्विशेषम् अदृश्यत
संपृक्तं नभसा ह्य् अम्भः संपृक्तं च नभो ऽम्भसा
तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले
समुत्पतितमेघस्य वीच्चि मालाकुलस्य च
विशेषो न द्वयोर् आसीत् सागरस्याम्बरस्य च
अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीमनिःस्वनाः
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे
रत्नौघजलसंनादं विषक्तम् इव वायुना
उत्पतन्तम् इव क्रुद्धं यादोगणसमाकुलम्
ददृशुस् ते महात्मानो वाताहतजलाशयम्
अनिलोद्धूतम् आकाशे प्रवल्गतम् इवोर्मिभिः
भ्रान्तोर्मिजलसंनादं प्रलोलम् इव सागरम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0