भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 6.003

6.003.001

सुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित्
प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथाब्रवीत्

6.003.002

तरसा सेतुबन्धेन सागरोच्छोषणेन वा
सर्वथा सुसमर्थो ऽस्मि सागरस्यास्य लङ्घने

6.003.003

कति दुर्गाणि दुर्गाया लङ्कायास् तद् ब्रवीहि मे
ज्ञातुम् इच्छामि तत् सर्वं दर्शनाद् इव वानर

6.003.004

बलस्य परिमाणं च द्वारदुर्गक्रियाम् अपि
गुप्ति कर्म च लङ्काया रक्षसां सदनानि च

6.003.005

यथासुखं यथावच् च लङ्कायाम् असि दृष्टवान्
सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो ह्य् असि

6.003.006

श्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः
वाक्यं वाक्यविदां श्रेष्ठो रामं पुनर् अथाब्रवीत्

6.003.007

श्रूयतां सर्वम् आख्यास्ये दुर्गकर्मविधानतः
गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः

6.003.008

परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्
विभागं च बलौघस्य निर्देशं वाहनस्य च

6.003.009

प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला
महती रथसंपूर्णा रक्षोगणसमाकुला

6.003.010

दृढबद्धकवाटानि महापरिघवन्ति च
द्वाराणि विपुलान्य् अस्याश् चत्वारि सुमहान्ति च

6.003.011

वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च
आगतं परसैन्यं तैस् तत्र प्रतिनिवार्यते

6.003.012

द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः
शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः

6.003.013

सौवर्णश् च महांस् तस्याः प्राकारो दुष्प्रधर्षणः
मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः

6.003.014

सर्वतश् च महाभीमाः शीततोया महाशुभाः
अगाधा ग्राहवत्यश् च परिखा मीनसेविताः

6.003.015

द्वारेषु तासां चत्वारः संक्रमाः परमायताः
यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढसंधिभिः

6.003.016

त्रायन्ते संक्रमास् तत्र परसैन्यागमे सति
यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः

6.003.017

एकस् त्व् अकम्प्यो बलवान् संक्रमः सुमहादृढः
काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिश् च शोभितः

6.003.018

स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः
उत्थितश् चाप्रमत्तश् च बलानाम् अनुदर्शने

6.003.019

लङ्का पुरी निरालम्बा देवदुर्गा भयावहा
नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम्

6.003.020

स्थिता पारे समुद्रस्य दूरपारस्य राघव
नौपथश् चापि नास्त्य् अत्र निरादेशश् च सर्वतः

6.003.021

शैलाग्रे रचिता दुर्गा सा पूर् देवपुरोपमा
वाजिवारणसंपूर्णा लङ्का परमदुर्जया

6.003.022

परिघाश् च शतघ्न्यश् च यन्त्राणि विविधानि च
शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः

6.003.023

अयुतं रक्षसाम् अत्र पश्चिमद्वारम् आश्रितम्
शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः

6.003.024

नियुतं रक्षसाम् अत्र दक्षिणद्वारम् आश्रितम्
चतुरङ्गेण सैन्येन योधास् तत्राप्य् अनुत्तमाः

6.003.025

प्रयुतं रक्षसाम् अत्र पूर्वद्वारं समाश्रितम्
चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः

6.003.026

अर्बुदं रक्षसाम् अत्र उत्तरद्वारम् आश्रितम्
रथिनश् चाश्ववाहाश् च कुलपुत्राः सुपूजिताः

6.003.027

शतं शतसहस्राणां मध्यमं गुल्मम् आश्रितम्
यातुधाना दुराधर्षाः साग्रकोटिश् च रक्षसाम्

6.003.028

ते मया संक्रमा भग्नाः परिखाश् चावपूरिताः
दग्धा च नगरी लङ्का प्राकाराश् चावसादिताः

6.003.029

येन केन तु मार्गेण तराम वरुणालयम्
हतेति नगरी लङ्कां वानरैर् अवधार्यताम्

6.003.030

अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः
नीलः सेनापतिश् चैव बलशेषेण किं तव

6.003.031

प्लवमाना हि गत्वा तां रावणस्य महापुरीम्
सप्रकारां सभवनाम् आनयिष्यन्ति मैथिलीम्

6.003.032

एवम् आज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्
मुहूर्तेन तु युक्तेन प्रस्थानम् अभिरोचय

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc