रामायण · अध्याय 5.063
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्
युवराजं पुरस्कृत्य सुग्रीवम् अभिवाद्य च
प्रवृत्तम् अथ सीतायाः प्रवक्तुम् उपचक्रमुः
रावणान्तःपुरे रोधं राक्षसीभिश् च तर्जनम्
रामे समनुरागं च यश् चापि समयः कृतः
एतद् आख्यान्ति ते सर्वे हरयो राम संनिधौ
वैदेहीम् अक्षतां श्रुत्वा रामस् तूत्तरम् अब्रवीत्
क्व सीता वर्तते देवी कथं च मयि वर्तते
एतन् मे सर्वम् आख्यात वैदेहीं प्रति वानराः
रामस्य गदितं श्रुत्व हरयो रामसंनिधौ
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्
श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा
समुद्रं लङ्घयित्वाहं शतयोजनम् आयतम्
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया
तत्र लङ्केति नगरी रावणस्य दुरात्मनः
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे
तत्र दृष्टा मया सीता रावणान्तःपुरे सती
संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम्
दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर् मुहुः
राक्षसीभिर् विरूपाभी रक्षिता प्रमदावने
दुःखम् आपद्यते देवी तवादुःखोचिता सती
रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता
एकवेणीधरा दीना त्वयि चिन्तापरायणा
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया
देवी कथं चित् काकुत्स्थ त्वन्मना मार्गिता मया
इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ
स मया नरशार्दूल विश्वासम् उपपादिता
ततः संभाषिता देवी सर्वम् अर्थं च दर्शिता
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिम् उपागता
नियतः समुदाचारो भक्तिश् चास्यास् तथा त्वयि
एवं मया महाभागा दृष्टा जनकनन्दिनी
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ
अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव
विज्ञाप्यश् च नर व्याघ्रो रामो वायुसुत त्वया
अखिलेनेह यद् दृष्टम् इति माम् आह जानकी
इदं चास्मै प्रदातव्यं यत्नात् सुपरिरक्षितम्
ब्रुवता वचनान्य् एवं सुग्रीवस्योपशृण्वतः
एष चूडामणिः श्रीमान् मया ते यत्नरक्षितः
मनःशिलायास् तिकलस् तं स्मरस्वेति चाब्रवीत्
एष निर्यातितः श्रीमान् मया ते वारिसंभवः
एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वाम् इवानघ
जीवितं धारयिष्यामि मासं दशरथात्मज
ऊर्ध्वं मासान् न जीवेयं रक्षसां वशम् आगता
इति माम् अब्रवीत् सीता कृशाङ्गी धर्म चारिणी
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना
एतद् एव मयाख्यातं सर्वं राघव यद् यथा
सर्वथा सागरजले संतारः प्रविधीयताम्
तौ जाताश्वासौ राजपुत्रौ विदित्वा तच् चाभिज्ञानं राघवाय प्रदाय
देव्या चाख्यातं सर्वम् एवानुपूर्व्याद् वाचा संपूर्णं वायुपुत्रः शशंस
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0