रामायण · अध्याय 5.059
ततो जाम्बवतो वाक्यम् अगृह्णन्त वनौकसः
अङ्गदप्रमुखा वीरा हनूमांश् च महाकपिः
प्रीतिमन्तस् ततः सर्वे वायुपुत्रपुरःसराः
महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः
मेरुमन्दरसंकाशा मत्ता इव महागजाः
छादयन्त इवाकाशं महाकाया महाबलाः
सभाज्यमानं भूतैस् तम् आत्मवन्तं महाबलम्
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः
राघवे चार्थनिर्वृत्तिं भर्तुश् च परमं यशः
समाधाय समृद्धार्थाः कर्मसिद्धिभिर् उन्नताः
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः
प्लवमानाः खम् आप्लुत्य ततस् ते काननौक्षकः
नन्दनोपमम् आसेदुर् वनं द्रुमलतायुतम्
यत् तन् मधुवनं नाम सुग्रीवस्याभिरक्षितम्
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्
यद् रक्षति महावीर्यः सदा दधिमुखः कपिः
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः
ते तद् वनम् उपागम्य बभूवुः परमोत्कटाः
वानरा वानरेन्द्रस्य मनःकान्ततमं महत्
ततस् ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्
कुमारम् अभ्ययाचन्त मधूनि मधुपिङ्गलाः
ततः कुमारस् तान् वृद्धाञ् जाम्बवत्प्रमुखान् कपीन्
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे
ततश् चानुमताः सर्वे संप्रहृष्टा वनौकसः
मुदिताश् च ततस् ते च प्रनृत्यन्ति ततस् ततः
गायन्ति के चित् प्रणमन्ति के चिन् नृत्यन्ति के चित् प्रहसन्ति के चित्
पतन्ति के चिद् विचरन्ति के चित् प्लवन्ति के चित् प्रलपन्ति के चित्
परस्परं के चिद् उपाश्रयन्ते परस्परं के चिद् अतिब्रुवन्ते
द्रुमाद् द्रुमं के चिद् अभिप्लवन्ते क्षितौ नगाग्रान् निपतन्ति के चित्
महीतलात् के चिद् उदीर्णवेगा महाद्रुमाग्राण्य् अभिसंपतन्ते
गायन्तम् अन्यः प्रहसन्न् उपैति हसन्तम् अन्यः प्रहसन्न् उपैति
रुदन्तम् अन्यः प्ररुदन्न् उपैति नुदन्तम् अन्यः प्रणुदन्न् उपैति
समाकुलं तत् कपिसैन्यम् आसीन् मधुप्रपानोत्कट सत्त्वचेष्टम्
न चात्र कश् चिन् न बभूव मत्तो न चात्र कश् चिन् न बभूव तृप्तो
ततो वनं तत् परिभक्ष्यमाणं द्रुमांश् च विध्वंसितपत्रपुष्पान्
समीक्ष्य कोपाद् दधिवक्त्रनामा निवारयाम् आस कपिः कपींस् तान्
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः
चकार भूयो मतिम् उग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः
उवाच कांश् चित् परुषाणि धृष्टम् असक्तम् अन्यांश् च तलैर् जघान
समेत्य कैश् चित् कलहं चकार तथैव साम्नोपजगाम कांश् चित्
स तैर् मदाच् चाप्रतिवार्य वेगैर् बलाच् च तेनाप्रतिवार्यमाणैः
प्रधर्षितस् त्यक्तभयैः समेत्य प्रकृष्यते चाप्य् अनवेक्ष्य दोषम्
नखैस् तुदन्तो दशनैर् दशन्तस् तलैश् च पादैश् च समाप्नुवन्तः
मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0