रामायण · अध्याय 5.056
ततस् तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुर् उत्तमाम्
तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम्
जाम्बवान् कार्यवृत्तान्तम् अपृच्छद् अनिलात्मजम्
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते
तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः
तत्त्वतः सर्वम् एतन् नः प्रब्रूहि त्वं महाकपे
श्रुतार्थाश् चिन्तयिष्यामो भूयः कार्यविनिश्चयम्
यश् चार्थस् तत्र वक्तव्यो गतैर् अस्माभिर् आत्मवान्
रक्षितव्यं च यत् तत्र तद् भवान् व्याकरोतु नः
स नियुक्तस् ततस् तेन संप्रहृष्टतनूरुहः
नमस्यञ् शिरसा देव्यै सीतायै प्रत्यभाषत
प्रत्यक्षम् एव भवतां महेन्द्राग्रात् खम् आप्लुतः
उदधेर् दक्षिणं पारं काङ्क्षमाणः समाहितः
गच्छतश् च हि मे घोरं विघ्नरूपम् इवाभवत्
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्
स्थितं पन्थानम् आवृत्य मेने विघ्नं च तं नगम्
उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम्
कृता मे मनसा बुद्धिर् भेत्तव्यो ऽयं मयेति च
प्रहतं च मया तस्य लाङ्गूलेन महागिरेः
शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा
व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः
पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्न् इव
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः
मैनाकम् इति विख्यातं निवसन्तं महोदधौ
पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः
छन्दतः पृथिवीं चेरुर् बाधमानाः समन्ततः
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः
चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः
अहं तु मोक्षितस् तस्मात् तव पित्रा महात्मना
मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे
रामस्य च मया साह्ये वर्तितव्यम् अरिंदम
रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः
एतच् छ्रुत्वा मया तस्य मैनाकस्य महात्मनः
कार्यम् आवेद्य तु गिरेर् उद्धतं च मनो मम
तेन चाहम् अनुज्ञातो मैनाकेन महात्मना
उत्तमं जवम् आस्थाय शेषम् अध्वानम् आस्थितः
ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि
ततः पश्याम्य् अहं देवीं सुरसां नागमातरम्
समुद्रमध्ये सा देवी वचनं माम् अभाषत
मम भक्ष्यः प्रदिष्टस् त्वम् अमारैर् हरिसत्तमम्
ततस् त्वां भक्षयिष्यामि विहितस् त्वं चिरस्य मे
एवम् उक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः
विवर्णवदनो भूत्वा वाक्यं चेदम् उदीरयम्
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः
तस्य सीता हृता भार्या रावणेन दुरात्मना
तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात्
कर्तुम् अर्हसि रामस्य साह्यं विषयवासिनि
अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे
एवम् उक्ता मया सा तु सुरसा कामरूपिणी
अब्रवीन् नातिवर्तेत कश् चिद् एष वरो मम
एवम् उक्तः सुरसया दशयोजनम् आयतः
ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु
मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया
तद् दृष्ट्वा व्यादितं त्व् आस्यं ह्रस्वं ह्य् अकरवं वपुः
तस्मिन् मुहूर्ते च पुनर् बभूवाङ्गुष्ठसंमितः
अभिपत्याशु तद् वक्त्रं निर्गतो ऽहं ततः क्षणात्
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्
समानय च वैदेहीं राघवेण महात्मना
सुखी भव महाबाहो प्रीतास्मि तव वानर
ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः
ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा
छाया मे निगृहीता च न च पश्यामि किं चन
सो ऽहं विगतवेगस् तु दिशो दश विलोकयन्
न किं चित् तत्र पश्यामि येन मे ऽपहृता गतिः
ततो मे बुद्धिर् उत्पन्ना किं नाम गमने मम
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते
अधो भागेन मे दृष्टिः शोचता पातिता मया
ततो ऽद्राक्षम् अहं भीमां राक्षसीं सलिले शयाम्
प्रहस्य च महानादम् उक्तो ऽहं भीमया तया
अवस्थितम् असंभ्रान्तम् इदं वाक्यम् अशोभनम्
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः
भक्षः प्रीणय मे देहं चिरम् आहारवर्जितम्
बाढम् इत्य् एव तां वाणीं प्रत्यगृह्णाम् अहं ततः
आस्य प्रमाणाद् अधिकं तस्याः कायम् अपूरयम्
तस्याश् चास्यं महद् भीमं वर्धते मम भक्षणे
न च मां सा तु बुबुधे मम वा विकृतं कृतम्
ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्
तस्या हृदयम् आदाय प्रपतामि नभस्तलम्
सा विसृष्टभुजा भीमा पपात लवणाम्भसि
मया पर्वतसंकाशा निकृत्तहृदया सती
शृणोमि खगतानां च सिद्धानां चारणैः सह
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता
तां हत्वा पुनर् एवाहं कृत्यम् आत्ययिकं स्मरन्
गत्वा च महद् अध्वानं पश्यामि नगमण्डितम्
दक्षिणं तीरम् उदधेर् लङ्का यत्र च सा पुरी
अस्तं दिनकरे याते रक्षसां निलयं पुरीम्
प्रविष्टो ऽहम् अविज्ञातो रक्षोभिर् भीमविक्रमैः
तत्राहं सर्वरात्रं तु विचिन्वञ् जनकात्मजाम्
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्
ततः सीताम् अपश्यंस् तु रावणस्य निवेशने
शोकसागरम् आसाद्य न पारम् उपलक्षये
शोचता च मया दृष्टं प्राकारेण समावृतम्
काञ्चनेन विकृष्टेन गृहोपवनम् उत्तमम्
स प्राकारम् अवप्लुत्य पश्यामि बहुपादपम्
अशोकवनिकामध्ये शिंशपापादपो महान्
तम् आरुह्य च पश्यामि काञ्चनं कदली वनम्
अदूराच् छिंशपावृक्षात् पश्यामि वनवर्णिनीम्
श्यामां कमलपत्राक्षीम् उपवासकृशाननाम्
राक्षसीभिर् विरूपाभिः क्रूराभिर् अभिसंवृताम्
मांसशोणितभक्ष्याभिर् व्याघ्रीभिर् हरिणीं यथा
तां दृष्ट्वा तादृशीं नारीं रामपत्नीम् अनिन्दिताम्
तत्रैव शिंशपावृक्षे पश्यन्न् अहम् अवस्थितः
ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्
शृणोम्य् अधिकगम्भीरं रावणस्य निवेशने
ततो ऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्
अहं च शिंशपावृक्षे पक्षीव गहने स्थितः
ततो रावणदाराश् च रावणश् च महाबलः
तं देशं समनुप्राप्ता यत्र सीताभवत् स्थिता
तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्
संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च
ताम् उवाच दशग्रीवः सीतां परमदुःखिताम्
अवाक्शिराः प्रपतितो बहु मन्यस्व माम् इति
यदि चेत् त्वं तु मां दर्पान् नाभिनन्दसि गर्विते
द्विमासानन्तरं सीते पास्यामि रुधिरं तव
एतच् छ्रुत्वा वचस् तस्य रावणस्य दुरात्मनः
उवाच परमक्रुद्धा सीता वचनम् उत्तमम्
राक्षसाधम रामस्य भार्याम् अमिततेजसः
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च
अवाच्यं वदतो जिह्वा कथं न पतिता तव
किंस्विद् वीर्यं तवानार्य यो मां भर्तुर् असंनिधौ
अपहृत्यागतः पाप तेनादृष्टो महात्मना
न त्वं रामस्य सदृशो दास्ये ऽप्य् अस्या न युज्यसे
यज्ञीयः सत्यवाक् चैव रणश्लाघी च राघवः
जानक्या परुषं वाक्यम् एवम् उक्तो दशाननः
जज्वाल सहसा कोपाच् चितास्थ इव पावकः
विवृत्य नयने क्रूरे मुष्टिम् उद्यम्य दक्षिणम्
मैथिलीं हन्तुम् आरब्धः स्त्रीभिर् हाहाकृतं तदा
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः
वरा मन्दोदरी नाम तया स प्रतिषेधितः
उक्तश् च मधुरां वाणीं तया स मदनार्दितः
सीतया तव किं कार्यं महेन्द्रसमविक्रम
मया सह रमस्वाद्य मद्विशिष्टा न जानकी
देवगन्धर्वकन्याभिर् यक्षकन्याभिर् एव च
सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि
ततस् ताभिः समेताभिर् नारीभिः स महाबलः
उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः
सीतां निर्भर्त्सयाम् आसुर् वाक्यैः क्रूरैः सुदारुणैः
तृणवद् भाषितं तासां गणयाम् आस जानकी
तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः
रावणाय शशंसुस् ताः सीताव्यवसितं महत्
ततस् ताः सहिताः सर्वा विहताशा निरुद्यमाः
परिक्षिप्य समन्तात् तां निद्रावशम् उपागताः
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता
विलप्य करुणं दीना प्रशुशोच सुदुःखिता
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्
चिन्तयाम् आस विश्रान्तो न च मे निर्वृतं मनः
संभाषणार्थे च मया जानक्याश् चिन्तितो विधिः
इक्ष्वाकुकुलवंशस् तु ततो मम पुरस्कृतः
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्
प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना
कस् त्वं केन कथं चेह प्राप्तो वानरपुंगव
का च रामेण ते प्रीतिस् तन् मे शंसितुम् अर्हसि
तस्यास् तद् वचनं श्रुत्वा अहम् अप्य् अब्रुवं वचः
देवि रामस्य भर्तुस् ते सहायो भीमविक्रमः
सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः
तस्य मां विद्धि भृत्यं त्वं हनूमन्तम् इहागतम्
भर्त्राहं प्रहितस् तुभ्यं रामेणाक्लिष्टकर्मणा
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्
अङ्गुलीयम् अभिज्ञानम् अदात् तुभ्यं यशस्विनि
तद् इच्छामि त्वयाज्ञप्तं देवि किं करवाण्य् अहम्
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किम् उत्तरम्
एतच् छ्रुत्वा विदित्वा च सीता जनकनन्दिनी
आह रावणम् उत्साद्य राघवो मां नयत्व् इति
प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम्
राघवस्य मनोह्लादम् अभिज्ञानम् अयाचिषम्
एवम् उक्ता वरारोहा मणिप्रवरम् उत्तमम्
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह
ततस् तस्यै प्रणम्याहं राजपुत्र्यै समाहितः
प्रदक्षिणं परिक्रामम् इहाभ्युद्गतमानसः
उत्तरं पुनर् एवाह निश्चित्य मनसा तदा
हनूमन् मम वृत्तान्तं वक्तुम् अर्हसि राघवे
यथा श्रुत्वैव नचिरात् ताव् उभौ रामलक्ष्मणौ
सुग्रीवसहितौ वीराव् उपेयातां तथा कुरु
यद्य् अन्यथा भवेद् एतद् द्वौ मासौ जीवितं मम
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहम् अनाथवत्
तच् छ्रुत्वा करुणं वाक्यं क्रोधो माम् अभ्यवर्तत
उत्तरं च मया दृष्टं कार्यशेषम् अनन्तरम्
ततो ऽवर्धत मे कायस् तदा पर्वतसंनिभः
युद्धकाङ्क्षी वनं तच् च विनाशयितुम् आरभे
तद् भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्
प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस् ततः
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे
राजन् वनम् इदं दुर्गं तव भग्नं दुरात्मना
वानरेण ह्य् अविज्ञाय तव वीर्यं महाबल
दुर्बुद्धेस् तस्य राजेन्द्र तव विप्रियकारिणः
वधम् आज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्
तच् छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः
राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः
तेषाम् अशीतिसाहस्रं शूलमुद्गरपाणिनाम्
मया तस्मिन् वनोद्देशे परिघेण निषूदितम्
तेषां तु हतशेषा ये ते गता लघुविक्रमाः
निहतं च मया सैन्यं रावणायाचचक्षिरे
ततो मे बुद्धिर् उत्पन्ना चैत्यप्रासादम् आक्रमम्
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः
ललाम भूतो लङ्काया मया विध्वंसितो रुषा
ततः प्रहस्तस्य सुतं जम्बुमालिनम् आदिशत्
तम् अहं बलसंपन्नं राक्षसं रणकोविदम्
परिघेणातिघोरेण सूदयामि सहानुगम्
तच् छ्रुत्वा राक्षसेन्द्रस् तु मन्त्रिपुत्रान् महाबलान्
पदातिबलसंपन्नान् प्रेषयाम् आस रावणः
परिघेणैव तान् सर्वान् नयामि यमसादनम्
मन्त्रिपुत्रान् हताञ् श्रुत्वा समरे लघुविक्रमान्
पञ्चसेनाग्रगाञ् शूरान् प्रेषयाम् आस रावणः
तान् अहं सह सैन्यान् वै सर्वान् एवाभ्यसूदयम्
ततः पुनर् दशग्रीवः पुत्रम् अक्षं महाबलम्
बहुभी राकसैः सार्धं प्रेषयाम् आस संयुगे
तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम्
सहसा खं समुत्क्रान्तं पादयोश् च गृहीतवान्
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्
तम् अक्षम् आगतं भग्नं निशम्य स दशाननः
तत इन्द्रजितं नाम द्वितीयं रावणः सुतम्
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्
तस्याप्य् अहं बलं सर्वं तं च राक्षसपुंगवम्
नष्टौजसं रणे कृत्वा परं हर्षम् उपागमम्
महता हि महाबाहुः प्रत्ययेन महाबलः
प्रेषितो रावणेनैष सह वीरैर् मदोत्कटैः
ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच् चातिवेगतः
रज्जूभिर् अभिबध्नन्ति ततो मां तत्र राक्षसाः
रावणस्य समीपं च गृहीत्वा माम् उपानयन्
दृष्ट्वा संभाषितश् चाहं रावणेन दुरात्मना
पृष्टश् च लङ्कागमनं राक्षसानां च तद् वधम्
तत् सर्वं च मया तत्र सीतार्थम् इति जल्पितम्
अस्याहं दर्शनाकाङ्क्षी प्राप्तस् त्वद्भवनं विभो
मारुतस्यौरसः पुत्रो वानरो हनुमान् अहम्
रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्
सो ऽहं दौत्येन रामस्य त्वत्समीपम् इहागतः
शृणु चापि समादेशं यद् अहं प्रब्रवीमि ते
राक्षसेश हरीशस् त्वां वाक्यम् आह समाहितम्
धर्मार्थकामसहितं हितं पथ्यम् इवाशनम्
वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे
राघवो रणविक्रान्तो मित्रत्वं समुपागतः
तेन मे कथितं राजन् भार्या मे रक्षसा हृता
तत्र साहाय्यहेतोर् मे समयं कर्तुम् अर्हसि
वालिना हृतराज्येन सुग्रीवेण सह प्रभुः
चक्रे ऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः
तेन वालिनम् उत्साद्य शरेणैकेन संयुगे
वानराणां महाराजः कृतः संप्लवतां प्रभुः
तस्य साहाय्यम् अस्माभिः कार्यं सर्वात्मना त्व् इह
तेन प्रस्थापितस् तुभ्यं समीपम् इह धर्मतः
क्षिप्रम् आनीयतां सीता दीयतां राघवस्य च
यावन् न हरयो वीरा विधमन्ति बलं तव
वानराणां प्रभवो हि न केन विदितः पुरा
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः
इति वानरराजस् त्वाम् आहेत्य् अभिहितो मया
माम् ऐक्षत ततो रुष्टश् चक्षुषा प्रदहन्न् इव
तेन वध्यो ऽहम् आज्ञप्तो रक्षसा रौद्रकर्मणा
ततो विभीषणो नाम तस्य भ्राता महामतिः
तेन राक्षसराजो ऽसौ याचितो मम कारणात्
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस
दूतेन वेदितव्यं च यथार्थं हितवादिना
सुमहत्य् अपराधे ऽपि दूतस्यातुलविक्रमः
विरूपकरणं दृष्टं न वधो ऽस्तीह शास्त्रतः
विभीषणेनैवम् उक्तो रावणः संदिदेश तान्
राक्षसान् एतद् एवाद्य लाङ्गूलं दह्यताम् इति
ततस् तस्य वचः श्रुत्वा मम पुच्छं समन्ततः
वेष्टितं शणवल्कैश् च पटैः कार्पासकैस् तथा
राक्षसाः सिद्धसंनाहास् ततस् ते चण्डविक्रमाः
तद् आदीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः
बद्धस्य बहुभिः पाशैर् यन्त्रितस्य च राक्षसैः
न मे पीडा भवेत् का चिद् दिदृक्षोर् नगरीं दिवा
ततस् ते राक्षसाः शूरा बद्धं माम् अग्निसंवृतम्
अघोषयन् राजमार्गे नगरद्वारम् आगताः
ततो ऽहं सुमहद् रूपं संक्षिप्य पुनर् आत्मनः
विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः
आयसं परिघं गृह्य तानि रक्षांस्य् असूदयम्
ततस् तन् नगरद्वारं वेगेनाप्लुतवान् अहम्
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्
दहाम्य् अहम् असंभ्रान्तो युगान्ताग्निर् इव प्रजाः
दग्ध्वा लङ्कां पुनश् चैव शङ्का माम् अभ्यवर्तत
दहता च मया लङ्कां दग्धा सीता न संशयः
अथाहं वाचम् अश्रौषं चारणानां शुभाक्षराम्
जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्
ततो मे बुद्धिर् उत्पन्ना श्रुत्वा ताम् अद्भुतां गिरम्
पुनर् दृष्टा च वैदेही विसृष्टश् च तया पुनः
राघवस्य प्रभावेन भवतां चैव तेजसा
सुग्रीवस्य च कार्यार्थं मया सर्वम् अनुष्ठितम्
एतत् सर्वं मया तत्र यथावद् उपपादितम्
अत्र यन् न कृतं शेषं तत् सर्वं क्रियताम् इति
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0