रामायण · अध्याय 5.052
वीक्षमाणस् ततो लङ्कां कपिः कृतमनोरथः
वर्धमानसमुत्साहः कार्यशेषम् अचिन्तयत्
किं नु खल्व् अविशिष्टं मे कर्तव्यम् इह साम्प्रतम्
यद् एषां रक्षसां भूयः संतापजननं भवेत्
वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्
अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः
यो ह्य् अयं मम लाङ्गूले दीप्यते हव्यवाहनः
अस्य संतर्पणं न्याय्यं कर्तुम् एभिर् गृहोत्तमैः
ततः प्रदीप्तलाङ्गूलः सविद्युद् इव तोयदः
भवनाग्रेषु लङ्काया विचचार महाकपिः
मुमोच हनुमान् अग्निं कालानलशिखोपमम्
श्वसनेन च संयोगाद् अतिवेगो महाबलः
कालाग्निर् इव जज्वाल प्रावर्धत हुताशनः
प्रदीप्तम् अग्निं पवनस् तेषु वेश्मसु चारयत्
तानि काञ्चनजालानि मुक्तामणिमयानि च
भवनान्य् अवशीर्यन्त रत्नवन्ति महान्ति च
तानि भग्नविमानानि निपेतुर् वसुधातले
भवनानीव सिद्धानाम् अम्बरात् पुण्यसंक्षये
वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्
विचित्रान् भवनाद् धातून् स्यन्दमानान् ददर्श सः
नाग्निस् तृप्यति काष्ठानां तृणानां च यथा तथा
हनूमान् राक्षसेन्द्राणां वधे किं चिन् न तृप्यति
हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा
हनूमातः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का
ससंभ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज् ज्वालहुताशनाङ्किताम्
ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहताम् इवावनिम्
स राक्षसांस् तान् सुबहूंश् च हत्वा वनं च भङ्क्त्वा बहुपादपं तत्
विसृज्य रक्षो भवनेषु चाग्निं जगाम रामं मनसा महात्मा
लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः
निर्वापयाम् आस तदा समुद्रे हरिसत्तमः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0