रामायण · अध्याय 5.050
तस्य तद् वचनं श्रुत्वा वानरस्य महात्मनः
आज्ञापयद् वधं तस्य रावणः क्रोधमूर्छितः
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना
निवेदितवतो दौत्यं नानुमेने विभीषणः
तं रक्षोऽधिपतिं क्रुद्धं तच् च कार्यम् उपस्थितम्
विदित्वा चिन्तयाम् आस कार्यं कार्यविधौ स्थितः
निश्चितार्थस् ततः साम्नापूज्य शत्रुजिदग्रजम्
उवाच हितम् अत्यर्थं वाक्यं वाक्यविशारदः
राजन् धर्मविरुद्धं च लोकवृत्तेश् च गर्हितम्
तव चासदृशं वीर कपेर् अस्य प्रमापणम्
असंशयं शत्रुर् अयं प्रवृद्धः कृतं ह्य् अनेनाप्रियम् अप्रमेयम्
न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः
वैरूप्याम् अङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्ष्मणसंनिपातः
एतान् हि दूते प्रवदन्ति दण्डान् वधस् तु दूतस्य न नः श्रुतो ऽपि
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः
भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि
विद्येत कश् चित् तव वीरतुल्यस् त्वं ह्य् उत्तमः सर्वसुरासुराणाम्
न चाप्य् अस्य कपेर् घाते कं चित् पश्याम्य् अहं गुणम्
तेष्व् अयं पात्यतां दण्डो यैर् अयं प्रेषितः कपिः
साधुर् वा यदि वासाधुर् परैर् एष समर्पितः
ब्रुवन् परार्थं परवान् न दूतो वधम् अर्हति
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम्
इह यः पुनर् आगच्छेत् परं पारं महोदधिः
तस्मान् नास्य वधे यत्नः कार्यः परपुरंजय
भवान् सेन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति
अस्मिन् विनष्टे न हि दूतम् अन्यं पश्यामि यस् तौ नरराजपुत्रौ
युद्धाय युद्धप्रियदुर्विनीताव् उद्योजयेद् दीर्घपथावरुद्धौ
पराक्रमोत्साहमनस्विनां च सुरासुराणाम् अपि दुर्जयेन
त्वया मनोनन्दन नैरृतानां युद्धायतिर् नाशयितुं न युक्ता
हिताश् च शूराश् च समाहिताश् च कुलेषु जाताश् च महागुणेषु
मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रशस्ते सुभृताश् च योधाः
तद् एकदेशेन बलस्य तावत् के चित् तवादेशकृतो ऽपयान्तु
तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0