रामायण · अध्याय 5.043
ततस् ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः
निर्ययुर् भवनात् तस्मात् सप्त सप्तार्चिवर्चसः
महाबलपरीवारा धनुष्मन्तो महाबलाः
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः
हेमजालपरिक्षिप्तैर् ध्वजवद्भिः पताकिभिः
तोयदस्वननिर्घोषैर् वाजियुक्तैर् महारथैः
तप्तकाञ्चनचित्राणि चापान्य् अमितविक्रमाः
विस्फारयन्तः संहृष्टास् तडिद्वन्त इवाम्बुदाः
जनन्यस् तास् ततस् तेषां विदित्वा किंकरान् हतान्
बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः
ते परस्परसंघर्षास् तप्तकाञ्चनभूषणाः
अभिपेतुर् हनूमन्तं तोरणस्थम् अवस्थितम्
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः
वृष्टिमन्त इवाम्भोदा विचेरुर् नैरृतर्षभाः
अवकीर्णस् ततस् ताभिर् हनूमाञ् शरवृष्टिभिः
अभवत् संवृताकारः शैलराड् इव वृष्टिभिः
स शरान् वञ्चयाम् आस तेषाम् आशुचरः कपिः
रथवेगांश् च वीराणां विचरन् विमले ऽम्बरे
स तैः क्रीडन् धनुष्मद्भिर् व्योम्नि वीरः प्रकाशते
धनुष्मद्भिर् यथा मेघैर् मारुतः प्रभुर् अम्बरे
स कृत्वा निनदं घोरं त्रासयंस् तां महाचमूम्
चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्
तलेनाभिहनत् कांश् चित् पादैः कांश् चित् परंतपः
मुष्टिनाभ्यहनत् कांश् चिन् नखैः कांश् चिद् व्यदारयत्
प्रममाथोरसा कांश् चिद् ऊरुभ्याम् अपरान् कपिः
के चित् तस्यैव नादेन तत्रैव पतिता भुवि
ततस् तेष्व् अवपन्नेषु भूमौ निपतितेषु च
तत् सैन्यम् अगमत् सर्वं दिशो दशभयार्दितम्
विनेदुर् विस्वरं नागा निपेतुर् भुवि वाजिनः
भग्ननीडध्वजच्छत्रैर् भूश् च कीर्णाभवद् रथैः
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश् चण्डपराक्रमः कपिः
युयुत्सुर् अन्यैः पुनर् एव राक्षसैस् तद् एव वीरो ऽभिजगाम तोरणम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0