रामायण · अध्याय 5.039
स च वाग्भिः प्रशस्ताभिर् गमिष्यन् पूजितस् तया
तस्माद् देशाद् अपक्रम्य चिन्तयाम् आस वानरः
अल्पशेषम् इदं कार्यं दृष्टेयम् असितेक्षणा
त्रीन् उपायान् अतिक्रम्य चतुर्थ इह दृश्यते
न साम रक्षःसु गुणाय कल्पते न दनम् अर्थोपचितेषु वर्तते
न भेदसाध्या बलदर्पिता जनाः पराक्रमस् त्व् एष ममेह रोचते
न चास्य कार्यस्य पराक्रमाद् ऋते विनिश्चयः कश् चिद् इहोपपद्यते
हृतप्रवीरास् तु रणे हि राक्षसाः कथं चिद् ईयुर् यद् इहाद्य मार्दवम्
कार्ये कर्मणि निर्दिष्टो यो बहून्य् अपि साधयेत्
पूर्वकार्यविरोधेन स कार्यं कर्तुम् अर्हति
न ह्य् एकः साधको हेतुः स्वल्पस्यापीह कर्मणः
यो ह्य् अर्थं बहुधा वेद स समर्थो ऽर्थसाधने
इहैव तावत् कृतनिश्चयो ह्य् अहं यदि व्रजेयं प्लवगेश्वरालयम्
परात्मसंमर्द विशेषतत्त्ववित् ततः कृतं स्यान् मम भर्तृशासनम्
कथं नु खल्व् अद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह
तथैव खल्व् आत्मबलं च सारवत् समानयेन् मां च रणे दशाननः
इदम् अस्य नृशंसस्य नन्दनोपमम् उत्तमम्
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्
इदं विध्वंसयिष्यामि शुष्कं वनम् इवानलः
अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः
ततो महत् साश्वमहारथद्विपं बलं समानेष्व् अपि राक्षसाधिपः
त्रिशूलकालायसपट्टिशायुधं ततो महद् युद्धम् इदं भविष्यति
अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिर् असंगविक्रमः
निहत्य तद् रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्
ततो मारुतवत् क्रुद्धो मारुतिर् भीमविक्रमः
ऊरुवेगेन महता द्रुमान् क्षेप्तुम् अथारभत्
ततस् तद् धनुमान् वीरो बभञ्ज प्रमदावनम्
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्
तद् वनं मथितैर् वृक्षैर् भिन्नैश् च सलिलाशयैः
चूर्णितैः पर्वताग्रैश् च बभूवाप्रियदर्शनम्
लतागृहैश् चित्रगृहैश् च नाशितैर् महोरगैर् व्यालमृगैश् च निर्धुतैः
शिलागृहैर् उन्मथितैस् तथा गृहैः प्रनष्टरूपं तद् अभून् महद् वनम्
स तस्य कृत्वार्थपतेर् महाकपिर् महद् व्यलीकं मनसो महात्मनः
युयुत्सुर् एको बहुभिर् महाबलैः श्रिया ज्वलंस् तोरणम् आश्रितः कपिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0