रामायण · अध्याय 5.037
मणिं दत्त्वा ततः सीता हनूमन्तम् अथाब्रवीत्
अभिज्ञानम् अभिज्ञातम् एतद् रामस्य तत्त्वतः
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति
वीरो जनन्या मम च राज्ञो दशरथस्य च
स भूयस् त्वं समुत्साहे चोदितो हरिसत्तम
अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम्
त्वम् अस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम
तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्
स तथेति प्रतिज्ञाय मारुतिर् भीमविक्रमः
शिरसावन्द्य वैदेहीं गमनायोपचक्रमे
ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्
बाष्पगद्गदया वाचा मैथिली वाक्यम् अब्रवीत्
कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश् च वानरान्
यथा च स महाबाहुर् मां तारयति राघवः
अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुम् अर्हसि
जीवन्तीं मां यथा रामः संभावयति कीर्तिमान्
तत् त्वया हनुमन् वाच्यं वाचा धर्मम् अवाप्नुहि
नित्यम् उत्साहयुक्ताश् च वाचः श्रुत्वा मयेरिताः
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये
मत्संदेशयुता वाचस् त्वत्तः श्रुत्वैव राघवः
पराक्रमविधिं वीरो विधिवत् संविधास्यति
सीतायास् तद् वचः श्रुत्वा हनुमान् मारुतात्मजः
शिरस्य् अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत्
क्षिप्रम् एष्यति काकुत्स्थो हर्यृक्षप्रवरैर् वृतः
यस् ते युधि विजित्यारीञ् शोकं व्यपनयिष्यति
न हि पश्यामि मर्त्येषु नामरेष्व् असुरेषु वा
यस् तस्य वमतो बाणान् स्थातुम् उत्सहते ऽग्रतः
अप्य् अर्कम् अपि पर्जन्यम् अपि वैवस्वतं यमम्
स हि सोढुं रणे शक्तस् तवहेतोर् विशेषतः
स हि सागरपर्यन्तां महीं शासितुम् ईहते
त्वन् निमित्तो हि रामस्य जयो जनकनन्दिनि
तस्य तद् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्
जानकी बहु मेने ऽथ वचनं चेदम् अब्रवीत्
ततस् तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः
भर्तुः स्नेहान्वितं वाक्यं सौहार्दाद् अनुमानयत्
यदि वा मन्यसे वीर वसैकाहम् अरिंदम
कस्मिंश् चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चेद् अल्पभाग्यायाः साम्निध्यात् तव वीर्यवान्
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्
गते हि हरिशार्दूल पुनरागमनाय तु
प्राणानाम् अपि संदेहो मम स्यान् नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्
दुःखाद् दुःखपरामृष्टां दीपयन्न् इव वानर
अयं च वीर संदेहस् तिष्ठतीव ममाग्रतः
सुमहांस् त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणाम् एव भूतानां सागरस्येह लङ्घने
शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा
तद् अस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः
कामम् अस्य त्वम् एवैकः कार्यस्य परिसाधने
पर्याप्तः परवीरघ्न यशस्यस् ते बलोदयः
बलैः समग्रैर् यदि मां रावणं जित्य संयुगे
विजयी स्वपुरं यायात् तत् तु मे स्याद् यशस्करम्
बलैस् तु संकुलां कृत्वा लङ्कां परबलार्दनः
मां नयेद् यदि काकुत्स्थस् तत् तस्य सदृशं भवेत्
तद् यथा तस्य विक्रान्तम् अनुरूपं महात्मनः
भवेद् आहव शूरस्य तथा त्वम् उपपादय
तद् अर्थोपहितं वाक्यं सहितं हेतुसंहितम्
निशम्य हनुमाञ् शेषं वाक्यम् उत्तरम् अब्रवीत्
देवि हर्यृक्षसैन्यानाम् ईश्वरः प्लवतां वरः
सुग्रीवः सत्त्वसंपन्नस् तवार्थे कृतनिश्चयः
स वानरसहस्राणां कोटीभिर् अभिसंवृतः
क्षिप्रम् एष्यति वैदेहि राक्षसानां निबर्हणः
तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः
मनःसंकल्पसंपाता निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान् न तिर्यक् सज्जते गतिः
न च कर्मसु सीदन्ति महत्स्व् अमिततेजसः
असकृत् तैर् महोत्सहैः ससागरधराधरा
प्रदक्षिणीकृता भूमिर् वायुमार्गानुसारिभिः
मद्विशिष्टाश् च तुल्याश् च सन्ति तत्र वनौकसः
मत्तः प्रत्यवरः कश् चिन् नास्ति सुग्रीवसंनिधौ
अहं तावद् इह प्राप्तः किं पुनस् ते महाबलाः
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
तद् अलं परितापेन देवि शोको व्यपैतु ते
एकोत्पातेन ते लङ्काम् एष्यन्ति हरियूथपाः
मम पृष्ठगतौ तौ च चन्द्रसूर्याव् इवोदितौ
त्वत्सकाशं महासत्त्वौ नृसिंहाव् आगमिष्यतः
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ
आगम्य नगरीं लङ्कां सायकैर् विधमिष्यतः
सगणं रावणं हत्वा राघवो रघुनन्दनः
त्वाम् आदाय वरारोहे स्वपुरं प्रतियास्यति
तद् आश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी
नचिराद् द्रक्ष्यसे रामं प्रज्वजन्तम् इवानिलम्
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि
रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात्
एवम् आश्वस्य वैदेहीं हनूमान् मारुतात्मजः
गमनाय मतिं कृत्वा वैदेहीं पुनर् अब्रवीत्
तम् अरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारम् उपस्थितम्
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्
वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु
नर्दतां कपिमुख्यानाम् आर्ये यूथान्य् अनेकशः
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा
न शर्म लभते रामः सिंहार्दित इव द्विपः
मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम्
शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्य् असि
रामाद् विशिष्टः को ऽन्यो ऽस्ति कश् चित् सौमित्रिणा समः
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ
नास्मिंश् चिरं वत्स्यसि देवि देशे रक्षोगणैर् अध्युषितो ऽतिरौद्रे
न ते चिराद् आगमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0