रामायण · अध्याय 5.033
तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्
उवाच वचनं सान्त्वम् इदं मधुरया गिरा
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्
वानराणां नराणां च कथम् आसीत् समागमः
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्
कथम् ऊरू कथं बाहू लक्ष्मणस्य च शंस मे
एवम् उक्तस् तु वैदेह्या हनूमान् मारुतात्मजः
ततो रामं यथातत्त्वम् आख्यातुम् उपचक्रमे
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि
भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै
लक्षितानि विशालाक्षि वदतः शृणु तानि मे
रामः कमलपत्राक्षः सर्वभूतमनोहरः
रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे
तेजसादित्यसंकाशः क्षमया पृथिवीसमः
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता
मर्यादानां च लोकस्य कर्ता कारयिता च सः
अर्चिष्मान् अर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः
साधूनाम् उपकारज्ञः प्रचारज्ञश् च कर्मणाम्
राजविद्याविनीतश् च ब्राह्मणानाम् उपासिता
श्रुतवाञ् शीलसंपन्नो विनीतश् च परंतपः
यजुर्वेदविनीतश् च वेदविद्भिः सुपूजितः
धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः
गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्
समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः
त्रिस्थिरस् त्रिप्रलम्बश् च त्रिसमस् त्रिषु चोन्नतः
त्रिवलीवांस् त्र्यवणतश् चतुर्व्यङ्गस् त्रिशीर्षवान्
चतुष्कलश् चतुर्लेखश् चतुष्किष्कुश् चतुःसमः
चतुर्दशसमद्वन्द्वश् चतुर्दष्टश् चतुर्गतिः
महौष्ठहनुनासश् च पञ्चस्निग्धो ऽष्टवंशवान्
दशपद्मो दशबृहत् त्रिभिर् व्याप्तो द्विशुक्लवान्
षडुन्नतो नवतनुस् त्रिभिर् व्याप्नोति राघवः
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः
देशकालविभागज्ञः सर्वलोकप्रियंवदः
भ्राता च तस्य द्वैमात्रः सौमित्रिर् अपराजितः
अनुरागेण रूपेण गुणैश् चैव तथाविधः
त्वाम् एव मार्गमाणो तौ विचरन्तौ वसुंधराम्
ददर्शतुर् मृगपतिं पूर्वजेनावरोपितम्
ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले
भ्रातुर् भार्यार्तम् आसीनं सुग्रीवं प्रियदर्शनम्
वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्
परिचर्यामहे राज्यात् पूर्वजेनावरोपितम्
ततस् तौ चीरवसनौ धनुःप्रवरपाणिनौ
ऋश्यमूकस्य शैलस्य रम्यं देशम् उपागतौ
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः
अभिप्लुतो गिरेस् तस्य शिखरं भयमोहितः
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः
तयोः समीपं माम् एव प्रेषयाम् आस सत्वरः
ताव् अहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू
रूपलक्षणसंपन्नौ कृताञ्जलिर् उपस्थितः
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ
पृष्ठम् आरोप्य तं देशं प्रापितौ पुरुषर्षभौ
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने
तयोर् अन्योन्यसंभाषाद् भृशं प्रीतिर् अजायत
तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ
परस्परकृताश्वासौ कथया पूर्ववृत्तया
तं ततः सान्त्वयाम् आस सुग्रीवं लक्ष्मणाग्रजः
स्त्रीहेतोर् वालिना भ्रात्रा निरस्तम् उरु तेजसा
ततस् त्वन् नाशजं शोकं रामस्याक्लिष्टकर्मणः
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्
स श्रुत्वा वानरेन्द्रस् तु लक्ष्मणेनेरितं वचः
तदासीन् निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान्
ततस् त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया
यान्य् आभरणजालानि पातितानि महीतले
तानि सर्वाणि रामाय आनीय हरियूथपाः
संहृष्टा दर्शयाम् आसुर् गतिं तु न विदुस् तव
तानि रामाय दत्तानि मयैवोपहृतानि च
स्वनवन्त्य् अवकीर्णन्ति तस्मिन् विहतचेतसि
तान्य् अङ्के दर्शनीयानि कृत्वा बहुविधं ततः
तेन देवप्रकाशेन देवेन परिदेवितम्
पश्यतस् तस्या रुदतस् ताम्यतश् च पुनः पुनः
प्रादीपयन् दाशरथेस् तानि शोकहुताशनम्
शयितं च चिरं तेन दुःखार्तेन महात्मना
मयापि विविधैर् वाक्यैः कृच्छ्राद् उत्थापितः पुनः
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर् मुहुः
राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत्
स तवादर्शनाद् आर्ये राघवः परितप्यते
महता ज्वलता नित्यम् अग्निनेवाग्निपर्वतः
त्वत्कृते तम् अनिद्रा च शोकश् चिन्ता च राघवम्
तापयन्ति महात्मानम् अग्न्यगारम् इवाग्नयः
तवादर्शनशोकेन राघवः प्रविचाल्यते
महता भूमिकम्पेन महान् इव शिलोच्चयः
कानानानि सुरम्याणि नदीप्रस्रवणानि च
चरन् न रतिम् आप्नोति त्वम् अपश्यन् नृपात्मजे
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः
समित्रबान्धवं हत्वा रावणं जनकात्मजे
सहितौ रामसुग्रीवाव् उभाव् अकुरुतां तदा
समयं वालिनं हन्तुं तव चान्वेषणं तथा
ततो निहत्य तरसा रामो वालिनम् आहवे
सर्वर्क्षहरिसंघानां सुग्रीवम् अकरोत् पतिम्
रामसुग्रीवयोर् ऐक्यं देव्य् एवं समजायत
हनूमन्तं च मां विद्धि तयोर् दूतम् इहागतम्
स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन्
त्वदर्थं प्रेषयाम् आस दिशो दश महाबलान्
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः
अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर् महाबलः
प्रस्थितः कपिशार्दूलस् त्रिभागबलसंवृतः
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे
भृशं शोकपरीतनाम् अहोरात्रगणा गताः
ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च
भयाच् च कपिराजस्य प्राणांस् त्यक्तुं व्यवस्थिताः
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च
अनासाद्य पदं देव्याः प्राणांस् त्यक्तुं व्यवस्थिताः
भृशं शोकार्णवे मग्नः पर्यदेवयद् अङ्गदः
तव नाशं च वैदेहि वालिनश् च तथा वधम्
प्रायोपवेशम् अस्माकं मरणं च जटायुषः
तेषां नः स्वामिसंदेशान् निराशानां मुमूर्षताम्
कार्यहेतोर् इवायातः शकुनिर् वीर्यवान् महान्
गृध्रराजस्य सोदर्यः संपातिर् नाम गृध्रराट्
श्रुत्वा भ्रातृवधं कोपाद् इदं वचनम् अब्रवीत्
यवीयान् केन मे भ्राता हतः क्व च विनाशितः
एतद् आख्यातुम् इच्छामि भवद्भिर् वानरोत्तमाः
अङ्गदो ऽकथयत् तस्य जनस्थाने महद् वधम्
रक्षसा भीमरूपेण त्वाम् उद्दिश्य यथातथम्
जटायोस् तु वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः
त्वाम् आह स वरारोहे वसन्तीं रावणालये
तस्य तद् वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्
अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम्
त्वद्दर्शनकृतोत्साहा हृष्टास् तुष्टाः प्लवंगमाः
अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला
रावणश् च मया दृष्टस् त्वं च शोकनिपीडिता
एतत् ते सर्वम् आख्यातं यथावृत्तम् अनिन्दिते
अभिभाषस्व मां देवि दूतो दाशरथेर् अहम्
त्वं मां रामकृतोद्योगं त्वन्निमित्तम् इहागतम्
सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम्
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः
गुरोर् आराधने युक्तो लक्ष्मणश् च सुलक्षणः
तस्य वीर्यवतो देवि भर्तुस् तव हिते रतः
अहम् एकस् तु संप्राप्तः सुग्रीववचनाद् इह
मयेयम् असहायेन चरता कामरूपिणा
दक्षिणा दिग् अनुक्रान्ता त्वन्मार्गविचयैषिणा
दिष्ट्याहं हरिसैन्यानां त्वन्नाशम् अनुशोचताम्
अपनेष्यामि संतापं तवाभिगमशंसनात्
दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम्
प्राप्स्याम्य् अहम् इदं दिष्ट्या त्वद्दर्शनकृतं यशः
राघवश् च महावीर्यः क्षिप्रं त्वाम् अभिपत्स्यते
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्
कौरजो नाम वैदेहि गिरीणाम् उत्तमो गिरिः
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः
स च देवर्षिभिर् दृष्टः पिता मम महाकपिः
तीर्थे नदीपतेः पुण्ये शम्बसादनम् उद्धरत्
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि
हनूमान् इति विख्यातो लोके स्वेनैव कर्मणा
विश्वासार्थं तु वैदेहि भर्तुर् उक्ता मया गुणाः
एवं विश्वासिता सीता हेतुभिः शोककर्शिता
उपपन्नैर् अभिज्ञानैर् दूतं तम् अवगच्छति
अतुलं च गता हर्षं प्रहर्षेण तु जानकी
नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्
चारु तच् चाननं तस्यास् ताम्रशुक्लायतेक्षणम्
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्
हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा
अथोवाच हनूमांस् ताम् उत्तरं प्रियदर्शनाम्
हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्
ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस् तत्प्रतिमश् च वानरः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0