भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 5.030

5.030.001

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्

5.030.002

सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवद् उपस्थितम्
मैथिली चिन्तयाम् आस स्वप्नो ऽयम् इति भामिनी

5.030.003

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता
चिरेण संज्ञां प्रतिलभ्य चैव विचिन्तयाम् आस विशालनेत्रा

5.030.004

स्वप्नो मयायं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर् निषिद्धः
स्वस्त्य् अस्तु रामाय सलक्ष्मणाय तथा पितुर् मे जनकस्य राज्ञः

5.030.005

स्वप्नो ऽपि नायं न हि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः
सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन

5.030.006

अहं हि तस्याद्य मनो भवेन संपीडिता तद् गतसर्वभावा
विचिन्तयन्ती सततं तम् एव तथैव पश्यामि तथा शृणोमि

5.030.007

मनोरथः स्याद् इति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि
किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश् च वदत्य् अयं माम्

5.030.008

नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय
अनेन चोक्तं यद् इदं ममाग्रतो वनौकसा तच् च तथास्तु नान्यथा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc