रामायण · अध्याय 5.029
एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह
राजा दशरथो नाम रथकुञ्जरवाजिनाम्
पुण्यशीलो महाकीर्तिर् ऋजुर् आसीन् महायशाः
चक्रवर्तिकुले जातः पुरंदरसमो बले
अहिंसारतिर् अक्षुद्रो घृणी सत्यपराक्रमः
मुख्यश् चेक्ष्वाकुवंशस्य लक्ष्मीवांल् लक्ष्मिवर्धनः
पार्थिवव्यञ्जनैर् युक्तः पृथुश्रीः पार्थिवर्षभः
पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी
तस्य पुत्रः प्रियो ज्येष्ठस् ताराधिपनिभाननः
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता
रक्षिता जीवलोकस्य धर्मस्य च परंतपः
तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः
सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्
तेन तत्र महारण्ये मृगयां परिधावता
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ
ततस् त्व् अमर्षापहृता जानकी रावणेन तु
यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्
अश्रौषं राघवस्याहं सेयम् आसादिता मया
विररामैवम् उक्त्वासौ वाचं वानरपुंगवः
जानकी चापि तच् छ्रुत्वा विस्मयं परमं गता
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्
उन्नम्य वदनं भीरुः शिंशपावृक्षम् ऐक्षत
सा तिर्यग् ऊर्ध्वं च तथाप्य् अधस्तान् निरीक्षमाणा तम् अचिन्त्य बुद्धिम्
ददर्श पिङ्गाधिपतेर् अमात्यं वातात्मजं सूर्यम् इवोदयस्थम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0